पद्मपुराणम्/खण्डः ४ (ब्रह्मखण्डः)/अध्यायः १३

← अध्यायः १२ पद्मपुराणम्/खण्डः ४ (ब्रह्मखण्डः)
अध्यायः १३
[[लेखकः :|]]
अध्यायः १४ →

शौनक उवाच-
कृष्णजन्माष्टमी सूत तस्या माहात्म्यमुत्तमम् ।
कथयस्व महाप्राज्ञ चोद्धरस्व महार्णवात् १।
सूत उवाच-
कृष्णजन्माष्टमीं ब्रह्मन्भक्त्या करोति यो नरः ।
अंते विष्णुपुरं याति कुलकोटियुतो द्विज २।
अष्टमी बुधवारे च सोमे चैव द्विजोत्तम ।
रोहिणीऋक्षसंयुक्ता कुलकोटिविमुक्तिदा ३।
महापातकसंयुक्तः करोति व्रतमुत्तमम् ।
सर्वपापविनिर्मुक्तश्चांते याति हरेर्गृहम् ४।
कृष्णजन्माष्टमीं ब्रह्मन्न करोति नराधमः ।
इह दुःखमवाप्नोति स प्रेत्य नरकं व्रजेत् ५।
न करोति च या नारी कृष्णजन्माष्टमीव्रतम् ।
वर्षे वर्षे तु सा मूढा नरकं याति दारुणम् ६।
जन्माष्टमीदिने यो वै नरोऽश्नाति विमूढधीः ।
महानरकमश्नाति सत्यं सत्यं वदाम्यहम् ७।
दिलीपेन पुरा पृष्टो वसिष्ठो मुनिसत्तमः ।
तच्छृणुष्व महाप्राज्ञ सर्वपातकनाशनम् ८।
दिलीप उवाच-
भाद्रे मास्यसिताष्टम्यां यस्यां जातो जनार्द्दनः ।
तदहं श्रोतुमिच्छामि कथयस्व महामुने ९।
कथं वा भगवान्जातः शंखचक्रगदाधरः ।
देवकीजठरे विष्णुः किं कर्तुं केन हेतुना १०।
वसिष्ठ उवाच-
शृणु राजन्प्रवक्ष्यामि कस्माज्जातो जनार्द्दनः ।
पृथिव्यां त्रिदिवं त्यक्त्वा भवते कथयाम्यहम् ११।
पुरा वसुंधरा ह्यासीत्कंसादिनृपपीडिता ।
स्वाधिकारप्रमत्तेन कंसदूतेन ताडिता १२।
क्रंदती क्रंदती सा तु ययौ घूर्णितलोचना ।
यत्र तिष्ठति देवेश उमाकांतो वृषध्वजः १३।
कंसेन ताडिता नाथ इति तस्मै निवेदितुम् ।
बाष्पवारीणि वर्षंति विवर्णा साविमानिता १४।
क्रंदंतीं तां समालोक्य कोपेन स्फुरिताधरः ।
उमयासहितः सर्वैर्देववृंदैरनुव्रतः १५।
आजगाम महादेवो विधातृभवनं रुषा ।
गत्वा चोवाच ब्रह्माणं कंसध्वंसनहेतवे १६।
उपायः सृज्यतां ब्रह्मन्भवता विष्णुना सह ।
ऐश्वरं तद्वचः श्रुत्वा गंतुं प्राह कृतात्मभूः १७।
क्षीरोदे यत्र वैकुंठः सुप्तोऽस्ति भुजगोपरि ।
हंसपृष्ठं समारुह्य हरेरंतिकमाययौ १८।
तत्र गत्वा च तं धाता देववृंदैर्हरादिभिः ।
संयुक्तः स्तूयते वाग्भिः कोमलं वाग्विदांवरः १९।
नमः कमलनेत्राय हरये परमात्मने ।
जगतः पालयित्रे च लक्ष्मीकांत नमोऽस्तु ते २०।
इति तेभ्यः स्तुतिं श्रुत्वा प्रत्युवाच जनार्द्दनः ।
देवान्क्लिष्टमुखान्सर्वान्भवद्भिरागतं कथम् २१।
ब्रह्मोवाच-।
शृणु देव जगन्नाथ यस्मादस्माकमागतम् ।
कथयामि सुरश्रेष्ठ तदहं लोकभावन २२।
शूलिदत्तवरोन्मत्तः कंसो राजा दुरासदः ।
वसुधा ताडिता तेन करघातेन पीडिता २३।
वरं दत्वा पुराप्यग्रे मायया तु प्रवंचितः ।
भागिनेयं विना शंभो मरणं भविता न मे २४।
तस्माद्गच्छ स्वयं देव कंसं हंतुं दुरासदम् ।
देवकीजठरे जन्म लब्ध्वा गत्वा च गोकुलम् २५।
ब्रह्मणा प्रेरितो देवः प्रत्युवाच च शूलिनम् ।
पार्वतीं देहि देवेश अब्दं स्थित्वा गमिष्यति २६।
उमया रक्षया सार्द्धं शंखचक्रगदाधरः ।
उद्दिश्य मथुरां चक्रे प्रयाणं कमलासनः २७।
देवकीजठरे जन्म लेभे तत्र गदाधरः ।
यशोदाकुक्षिमध्यास्ते शर्वाणी मृगलोचना २८।
नवमासांश्च विश्रम्य कुक्षौ नवदिनांतकान् ।
भाद्रे मास्यसिते पक्षे चाष्टमीसंज्ञका तिथिः २९।
रोहिणीतारकायुक्ता रजनीघनघोषिता ।
तस्यां जातो जगन्नाथः कंसारिर्वसुदेवजः ३०।
वैराटी नंदपत्नी च यशोदाऽजीजनत्सुताम् ।
पुत्रं पद्मकरं पद्मनाभं पद्मदलेक्षणम् ३१।
तदा हर्षितुमारेभे दृष्ट्वा ह्यानकदुंदुभिः ।
कंसासुरभयत्रस्ता प्रोवाच देवकी तदा ३२।
वैराटीं गच्छ भो नाथ सुतं प्रत्यर्पितं किल ।
पुत्रं दत्वा यशोदायै सुतां तस्याः समानय ३३।
तस्या वचः समाकर्ण्य वसुदेवोऽपि दुःखितः ।
अंके कुमारमादाय वैराट्यभिमुखंययौ ३४।
यमुनाजलसंपूर्णा तत्पथे मध्यवर्त्मनि ।
आसीद्घोरा महादीर्घा गम्भीरोदकपूरभाक् ३५।
एवं दृष्ट्वा तटे स्थित्वा यमुनामवलोकयन् ।
वसुदेवोऽपि दुःखार्तो विललापातिचिंतया ३६।
किं करोमि क्व गच्छामि विधिनापि हि वंचितः ।
कथमत्र गमिष्यामि वैराटीं नंदमंदिरम् ३७।
हरिणा तत्र सानंदं मायया वंचितः पिता ।
क्षणमात्रं तटे स्थित्वा यमुनामवलोकयन् ३८।
तेन दृष्टा पुनः सापि क्षणाज्जानुवहाभवत् ।
तां दृष्ट्वा हृष्ट उत्तस्थौ प्रस्थानमकरोद्यथा ३९।
मायां कृत्वा जगन्नाथः पितुरंकाज्जलेऽपतत् ।
तं पुत्रं पतितं दृष्ट्वा हाहाकृत्वा सुदुःखितः ४०।
महोपायं पुनः कर्तुं विधिना तेन वंचितः ।
त्राहि मां जगतां नाथ सुतं रक्ष सुरोत्तम ४१।
जनकक्रंदितं दृष्ट्वा कंसारिः कृपया मुहुः ।
जलक्रीडां समाचर्य पितुःक्रोडमगात्पुनः ४२।
यथा तेन यदुश्रेष्ठो जगाम नंदमंदिरम् ।
सुतं दत्त्वा यशोदायै सुतां तस्याः समानयत् ४३।
निजागारं ततः प्राप्य पत्न्यै प्रत्यर्पिता सुता ।
देवकी च प्रसूतेति वार्ता प्राप्ता सुरारिणा ४४।
आनेतुं प्रस्थिता दूताः सुतं दुहितरं तदा ।
आगत्य कंसदूतास्ते सुतां नेतुं प्रचक्रमुः ४५।
बलादेनां समाकृष्य देवकी वसुदेवयोः ।
कंसदूतैर्गृहीत्वा सा अर्पिता तु सुरारये ४६।
स धृत्वा तां महाराजः सभयोऽभूद्दुरासदः ।
शुद्धकांचनवर्णाभां पूर्णेंदुसदृशाननाम् ४७।
कंसो हसंतीं तां दृष्ट्वा विद्युत्स्फुरितलोचनाम् ।
आदिदेशासुरश्रेष्ठो जहि नीत्वा शिलोपरि ४८।
आज्ञां लब्ध्वाऽसुरास्ते वै निष्पेष्टुं तां प्रवर्तिताः ।
विद्युच्छीघ्रतया गौरी जगाम शंकरांतिकम् ४९।
गौर्युवाच-
शृणु राजन्प्रवक्ष्यामि यत्रास्ते शत्रुरुत्तमः ।
नंदस्य निलये गुप्तस्तव हंताऽसुरोत्तम ५०।
वसिष्ठ उवाच-
एवमुक्त्वा तु सा देवी जगाम निजमंदिरम् ।
श्रुत्वा वाक्यं ततो देव्याः कंसो राजा सुदुःखितः ५१।
भगिनीं पूतनामाह गच्छ त्वं नंदमंदिरम् ।
छद्मना तं सुतं हत्वा गच्छ ते वांच्छितं बहु ५२।
दास्यामि शत्रुं हंतुं मे व्रज शीघ्रतरं शुभे ।
आज्ञां प्राप्य राक्षसी सा गोकुलाभिमुखं गता ५३।
मायया सुंदरी रूपा प्रविष्टा तत्र गोकुले ।
पयोधरे गरं सा तु धृत्वा हंतुमुपागता ५४।
पशुपानां गृहद्वारि प्रविष्टालक्षितेति च ।
गत्वांतरुत्थाप्य शिशुं स्तनं दत्वापसद्गतिम् ५५।
ततस्तु शकटं क्षिप्त्वा तृणावर्तादिमर्दनम् ।
कालीयदमनं कृत्वा गतो मधुपुरीं ततः ५६।
गत्वा कंसो हतः क्रूरः कंसमल्लानजीजयत् ।
एतत्ते कथितं राजन्विष्णोर्जन्मदिनव्रतम् ५७।
श्रुत्वा पापानि नश्यंति कुर्यात्किं वा भविष्यति ।
य इदं कुरुते मर्त्यो या च नारी हरेर्व्रतम् ५८।
ऐश्वर्यमतुलं प्राप्य जन्मन्यत्र यथेप्सितम् ।
पूर्वविद्धा न कर्त्तव्या तृतीयाषष्ठिरेव च ५९।
अष्टम्येकादशीभूता धर्मकामार्थवांच्छुभिः ।
वर्जयित्वा प्रयत्नेन सप्तमीसंयुताष्टमी ६०।
विना ऋक्षेऽपि कर्तव्या नवमीसंयुताष्टमी ।
उदये चाष्टमी किंचित्सकला नवमी यदि ६१।
मुहूर्तरोहिणीयुक्ता संपूर्णा चाष्टमी भवेत् ।
अष्टमी बुधवारेण रोहिणीसहिता यदि ६२।
सोमेनैव भवेद्राजन्किंकृतैर्व्रतकोटिभिः ।
नवम्यामुदयात्किंचित्सोमे सापि बुधेऽपि च ६३।
अपि वर्षशतेनापि लभ्यते वा न लभ्यते ।
विना ऋक्षं न कर्तव्या नवमीसंयुताष्टमी ६४।
कार्याविद्धापि सप्तम्यां रोहिणीसंयुताष्टमी ।
कलाकाष्ठामुहूर्तेऽपि यदा कृष्णाष्टमीतिथिः ६५।
नवम्यां सैव वा ग्राह्या सप्तमीसंयुता न हि ।
किं पुनर्बुधवारेण सोमेनापि विशेषतः ६६।
किं पुर्नर्नवमीयुक्ता कुलकोट्यास्तु मुक्तिदा ।
पलवेधेन राजेंद्र सप्तम्या अष्टमीं त्यजेत् ६७।
सुरायाबिंदुनास्पृष्टं गंगांभः कलशं यथा ।
दिलीप उवाच-
केन चादौ कृतं चेदं केन वा तत्प्रकाशितम् ।
किं पुण्यं किं फलं देव कथयस्व महामुने ६८।
वसिष्ठ उवाच-
चित्रसेनो महाराजा महापापपरो महान् ।
अगम्यागमनं कृत्वा स्वर्णस्तेयं द्विजस्य च ६९।
सुरायां च सदा तृप्तो वृथामांसे सदा रतः ।
एवं पापसमायुक्तो नित्यं प्राणिवधे रतः ७०।
चांडालैः पतितैः सार्द्धमालापं सर्वदाकरोत् ।
एतदेवं विधो राजा मृगयायां मनो दधे ७१।
अरण्ये द्वीपिनं ज्ञात्वा वेष्टयित्वा च सर्वतः ।
सावधानं भटान्सर्वान्वाक्यमेतदुवाच ह ७२।
अहमेव निहन्म्येनं योऽन्योस्मिन्प्रहरिष्यति ।
स वध्यो नात्र संदेहो व्याघ्रो राज्ञः पथा ययौ ७३।
सलज्जोऽपि ततो राजा व्याघ्रं पश्चाज्जगाम ह ।
अनेकक्लेशदुःखेन व्याघ्रं हंतुं समाहितः ७४।
क्षुत्पिपासाकुलक्लेशः संध्यायां यमुनातटे ।
अष्टमीरोहिणीयुक्ता तद्दिनं जन्मवासरम् ७५।
श्वःकन्या यमुनायां वै व्रतं चक्रुर्नराधिप ।
नानोपहारैर्द्रव्यैश्च धूपदीपैः सुशोभनैः ७६।
गंधपुष्पं तथा द्रव्यं कुंकुमादिमनोहरम् ।
अन्नं बहुगुणं दृष्ट्वा भोक्तुं तन्मानसंकुलम् ७७।
राजोवाच-
अन्नाभावान्ममाद्याशु प्राणा यास्यंति निश्चितम् ।
स्त्रिय ऊचुः-
जन्माष्टम्यां हरे राजन्न भोक्तव्यं त्वयानघ ७८।
गृध्रमांसं खरं काकं गोमांसमन्नमेव च ।
भुक्तवान्नात्र संदेहो यो भुंक्ते कृष्णजन्मनि ७९।
किं किं छिद्रं न संजातं संसारे वसतां नृणाम् ।
येन देहेस्थिते प्राणे जयंती न कृता नृप ८०।
तत्राकृतोपवासस्य शासनं यममंदिरम् ।
यद्दत्तं पितरो नित्यं न गृह्णंति यथाविधि ८१।
पितरः पातिताः सर्वे जयंत्यां भोजने कृते ।
इति श्रुत्वा ततो राजा व्रतं चक्रे नराधिप ८२।
किंचित्पुष्पं कियद्गंधं वस्त्रं चानीय हर्षितः ।
एतद्व्रतं समायुक्तं तिथिभांते च पारणम् ।
व्रतस्यास्य प्रभावेण चित्रसेनो हरेर्गृहम् ८३।
दिव्यं विमानमारुह्य गतवान्पितृभिः सह ।
यत्फलं मथुरां गत्वा दृष्ट्वा कृष्णमुखांबुजम् ८४।
तत्फलं प्राप्यते पुंसाकृष्णजन्माष्टमीव्रतात् ।
यत्फलं द्वारकां गत्वा दृष्टे विश्वेश्वरे हरौ ।
तत्फलं प्राप्यते दीनैः कृत्वा जन्माष्टमीव्रतम् ८५।
इति श्रीपाद्मे महापुराणे ब्रह्मखंडे हरिजन्माष्टमीव्रतमाहात्म्यंनाम त्रयोदशोऽध्यायः १३।