पद्मपुराणम्/खण्डः ४ (ब्रह्मखण्डः)/अध्यायः २५

← अध्यायः २४ पद्मपुराणम्/खण्डः ४ (ब्रह्मखण्डः)
अध्यायः २५
[[लेखकः :|]]
अध्यायः २६ →

शौनक उवाच।
श्रीपदं विष्णुचरितं सर्वोपद्रवनाशनम् ।
सर्वपापक्षयकरं दुष्टग्रहनिवारणम् १।
विष्णुसान्निध्यदं चैव चतुर्वर्गफलप्रदम् ।
यः शृणोति नरो भक्त्या चांते याति हरेर्गृहम् २।
नामोच्चारणमाहात्म्यं श्रूयते महदद्भुतम् ।
यदुच्चारणमात्रेण नरो यायात्परं पदम् ३।
तद्वदस्वाधुना सूत विधानं नामकीर्तने ।
सूत उवाच।
शृणु शौनक वक्ष्यामि संवादं मोक्षसाधनम् ४।
नारदः पृष्टवान्पूर्वं कुमारं तद्वदामि ते ।
एकदा यमुनातीरे निविष्टं शांतमानसम् ५।
सनत्कुमारं पप्रच्छ नारदो रचिताञ्जलि ।
श्रुत्वा नानाविधान्धर्मान्धर्मव्यतिकरांस्तथा ६।
श्रीनारद उवाच।
योऽसौ भगवता प्रोक्तो धर्मव्यतिकरो नृणाम् ।
कथं तस्य विनाशः स्यादुच्यतां भगवत्प्रिय ७।
श्रीसनत्कुमार उवाच।
शृणु नारद गोविंद प्रिय गोविंदधर्मवित् ।
यत्पृष्टं लोकनिर्मुक्तिकारणं तमसः परम् ८।
सर्वाचारविवर्जिताः शठधियो व्रात्या जगद्वञ्चकाः ।
दंभाहंकृतिपानपैशुनपराः पापाश्च ये निष्ठुराः ९।
ये चान्ये धनदारपुत्रनिरताः सर्वेऽधमास्तेऽपि हि ।
श्रीगोविंदपदारविंदशरणाः शुद्धा भवंति द्विज १०।
तमपि देवकरं करुणाकरस्थविरजंगममुक्तिकरं परम् ।
अतिचरंत्यपराधपरा जना य इह तान्वपति ध्रुवनाम हि ११।
सर्वापराधकृदपि मुच्यते हरिसंश्रयः ।
हरेरप्यपराधान्यः कुर्याद्द्विपदपांसनः १२।
नामाश्रयः कदाचित्स्यात्तरत्येव स नामतः ।
नाम्नो हि सर्वसुहृदो ह्यपराधात्पतत्यधः १३।
श्रीनारद उवाच।
के तेऽपराधा विप्रेंद्र नाम्नो भगवतः कृताः ।
विनिघ्नंति नृणां कृत्यं प्राकृतं ह्यानयंति च १४।
श्रीसनत्कुमार उवाच।
सतां निंदा नाम्नः परममपराधं वितनुते ।
यतः ख्यातिं यांतं कथमु सहते तद्विगर्हाम् ।
शुभस्य* श्रीविष्णोर्य इह गुणनामादिसकलं ।
धियाभिन्नं पश्येत्स खलु हरिनामाहितकरः १५ *[कहीं-(शिवस्य)]।
गुरोरवज्ञा श्रुतिशास्त्रनिंदनं तथार्थवादो हरिनाम्नि कल्पनम् ।
नामापराधस्य हि पापबुद्धिर्न विद्यते तस्य यमैर्हि शुद्धिः १६।
धर्मव्रतत्याग हुतादि सर्वशुभक्रिया साम्यमपि प्रमादः ।
अश्रद्दधानो विमुखोऽप्यशृण्वन्यश्चोपदेशः शिवनामापराधः १७।
श्रुत्वापि नाममाहात्म्यं यः प्रीतिरहितोऽधमः ।
अहं ममादि परमो नाम्नि सोऽप्यपराधकृत् १८।
एवं नारद शंकरेण कृपया मह्यं मुनीनां परं ।
प्रोक्तं नामसुखावहं भगवतो वर्ज्यं सदा यत्नतः ।
ये ज्ञात्वापि न वर्जयंति सहसा नाम्नोऽपराधान्दश ।
क्रुद्धा मातरमप्यभोजनपराः खिद्यंति ते बालवत् १९।
अपराधविमुक्तो हि नाम्नि जप्तं सदा चर ।
नाम्नैव तव देवर्षे सर्वं सेत्स्यति नान्यतः २०।
श्रीनारद उवाच।
सनत्कुमार प्रिय साहसानां विवेकवैराग्यविवर्जितानाम् ।
देहप्रियार्थात्मपरायणानां मुक्तापराधाः प्रभवंति नः कथम् २१।
श्रीसनत्कुमार उवाच।
जाते नामापराधे तु प्रमादे तु कथंचन ।
सदा संकीर्तयन्नाम तदेकशरणो भवेत् २२।
नामापराधयुक्तानां नामान्येव हरंत्यघम् ।
अविश्रांति प्रयुक्तानि तान्येवार्थ कराणि यत् २३।
नामैकं यस्य चिह्नं स्मरणपथगतं श्रोत्रमूलं गतं वा ।
शुद्धं वाऽशुद्धवर्णं व्यवहितरहितं तारयत्येव सत्यम् ।
तच्चेद्देहद्रविणजनितालोभपाखण्ड मध्ये ।
निक्षिप्तं स्यान्न फलजनकं शीघ्रमेवात्र विप्र २४।
इदं रहस्यं परमं पुरा नारद शंकरात् ।
श्रुतं सर्वाशुभहरमपराधनिवारकम् २५।
विदुर्विष्ण्वभिधानं ये ह्यपराधपरा नराः ।
तेषामपि भवेन्मुक्तिः पठनादेव नारद २६।
नाम्नो माहात्म्यमखिलं पुराणे परिगीयते ।
ततः पुराणमखिलं श्रोतुमर्हसि मानद २७।
पुराणश्रवणे श्रद्धा यस्य स्याद्भ्रातरन्वहम् ।
तस्य साक्षात्प्रसन्नः स्याच्छिवो विष्णुश्च सानुगः २८।
यत्स्नात्वा पुष्करे तीर्थे प्रयागे सिंधुसंगमे ।
तत्फलं द्विगुणं तस्य श्रद्धया वै शृणोति यः २९।
ये पठंति पुराणानि शृण्वंति च समाहिताः ।
प्रत्यक्षरं लभंत्येते कपिलादानजं फलम् ३०।
अपुत्रो लभते पुत्रं धनार्थी लभते धनम् ।
विद्यार्थी लभते विद्यां मोक्षार्थी मोक्षमाप्नुयात् ३१।
ये शृण्वंति पुराणानि कोटिजन्मार्जितं खलु ।
पापजालं तु ते हत्वा गच्छंति हरिमंदिरम् ३२।
पुराणवाचकं विप्रं पूजयेद्भक्तिभावतः ।
गोभूहिरण्यवस्त्रैश्च गंधपुष्पादिभिर्मुने ३३।
कांस्यैर्विनिर्मितं पात्रं जलपात्रं मुदान्वितः ।
कर्णकुंडलकं चैव मुद्रिकां स्वर्णनिर्मिताम् ३४।
आसनं तु तथा दद्यात्पुष्पमाल्यं तपोधन ।
वित्तशाठ्यं न कुर्वीत दानं हीनफलं यतः ३५।
पुराणं वाचयेद्विप्र सर्वकामार्थसिद्धये ।
सुवर्णं रजतं वस्त्रं पुष्पमाल्यं तु चंदनम् ३६।
दद्याद्यो पुस्तकं भक्त्या सगच्छेद्धरिमंदिरम् ।
कुर्वंति विधिनानेन संपूर्णं पुस्तकं च ये ।
तेषां नामानि लिंपेत चित्रगुप्तोऽर्चनाद्द्विज ३७।
इति श्रीपाद्मे महापुराणे ब्रह्मखंडे सूतशौनकसंवादे।
पंचविंशतितमोऽध्यायः २५।