पद्मपुराणम्/खण्डः ४ (ब्रह्मखण्डः)/अध्यायः २६

← अध्यायः २५ पद्मपुराणम्/खण्डः ४ (ब्रह्मखण्डः)
अध्यायः २६
[[लेखकः :|]]

शौनक उवाच।
श्रोतुमिच्छामि ते प्राज्ञ कथयस्व समूलकम् ।
प्रतिज्ञापालने पुण्यं खंडने किं च किल्बिषम् १।
अनृते शपथे किं वा सत्ये किंचिद्भवेन्मुने ।
दक्षिणं किंकरं दत्वा कृपां कृत्वा कृपार्णव २।
सूत उवाच।
शृणुष्व मुनिशार्दूल कथयामि समूलतः ।
वैष्णवानां त्वमग्र्योऽसि सर्वलोकहिते रतः ३।
धेनूनां तु शतं दत्त्वा यत्फलं लभते नरः ।
तस्मात्कोटिगुणं पुण्यं प्रतिज्ञापालने द्विज ४।
प्रतिज्ञाखंडनान्मूढो निरयं याति दारुणम् ।
शतमन्वंतरं यावत्पच्यते नात्र संशयः ५।
ततोऽत्र जन्म चासाद्य निर्धनस्य निकेतने ।
अन्नवस्त्रैर्विहीनः स्या क्लेशी चापि स्वकर्मणा ६।
सत्येन शपथं कुर्याद्देवाग्निगुरुसन्निधौ ।
तावद्दहति वै गात्रं विष्णोर्वंशो न लुप्यते ७।
मिथ्यायां शपथे विप्र किमहं वच्मि सांप्रतम् ।
शतमन्वंतरं विप्र निरयं मिथ्यया किमु ८।
निर्माल्यं श्रीहरेः स्पृष्ट्वा सत्येन मुनिपुंगव ।
गृहीत्वा पुरुषान्सप्त पच्यते निरये चिरम् ९।
कदाचिज्जन्म संप्राप्य कुष्ठी च प्रतिजन्मनि ।
सत्येनैवं भवेद्विप्र अनृते वै किमुच्यते १०।
यो मर्त्यो दक्षिणं दत्वा करं तत्प्रतिपाल्यते ।
तस्य प्राप्तिर्भवेत्कृष्णः सत्यं सत्यं वदाम्यहम् ११।
करं दत्त्वा तु यो मर्त्यो वचनस्य च पालनम् ।
तावन्न कुर्यात्पितरः प्राप्नुवंति च यातनाम् १२।
स्वयं तु मुनिशार्दूल निरयं चातिदारुणम् ।
उद्धारं कोटिपुरुषैर्मृतो याति न संशयः १३।
शौनक उवाच।
कृष्णप्राप्तिः पुरा कस्य करस्य प्रतिपालनात् ।
दक्षिणस्य मुने ब्रूहि श्रोतुमिच्छामि सादरात् १४।
सूत उवाच।
पुरा किंचित्पुरे शूद्रो नाम्नासीद्वीरविक्रमः ।
बह्वाशी पृथुलांगश्च बहुवक्तातिसुंदरः १५।
धनवान्पुत्रवान्सभ्यो विद्वान्सर्वजनप्रियः ।
विप्राणामतिथीनां च पूजकः सर्वदैव तु १६।
पितृभक्तो द्विजश्रेष्ठ प्रतिज्ञापालकः सदा ।
वाचां गुरुजनानां च पालको हरिसेवकः १७।
एकदा सुंदरो गेहं श्वपचस्तस्य छद्मना ।
प्राप्तो धृत्वा ब्राह्मणस्य रूपं वै तरुणः सुधीः १८।
ब्राह्मण उवाच।
शृणु मे वचनं धीर मम जाया मृता शुभा ।
किं करोमि क्व गच्छामि कथयाद्यानुकंपया १९।
विवाहं यो जनः कुर्याद्ब्राह्मणं च विशेषतः ।
किं च दानैः किं च तीर्थैः किं यज्ञैर्व्रतकोटिभिः २०।
इति श्रुत्वा त्वसौ विप्रं चोक्तवान्वीरविक्रमः ।
शृणु मे वचनं ब्रह्मन्बालास्ति मम कन्यका २१।
यदिच्छा ते भवेद्विप्र दास्यामि विधिपूर्वकम् ।
नय मे दक्षिणं हस्तं दास्यामि चान्यथा नहि २२।
तस्यैतद्वचनं श्रुत्वा जग्राह दक्षिणं करम् ।
श्वपचो हर्षयुक्तो वै प्रोवाच वचनं त्विति २३।
ब्राह्मण उवाच।
कृत्वा शुभ क्षणं मह्यं देहि कन्यां शुभान्विताम् ।
विलंबे बहुविघ्नं स्यादिति शास्त्रेषु निश्चितम् २४।
वीरविक्रम उवाच।
तुभ्यं श्वः कन्यकां ब्रह्मन्दास्यामि नास्ति चान्यथा ।
दक्षिणं च करं दत्वा न कुर्यात्पुरुषाधमः २५।
सूत उवाच।
ब्राह्मणं कृष्णशर्माणं चाहूयाकथयन्मुने ।
पुरोहितमिदं सर्वं प्रोवाच संविदं द्विज २६।
कथं विप्राय ते कन्यां शूद्राय दातुमिच्छसि ।
अज्ञातायाकुलीनाय न ददस्व विशेषतः २७।
ऊचुस्तज्जातयः सर्वे जनकाद्यास्तपोधन ।
अस्माकं वचनं तात शृणुष्व वीरविक्रम २८।
न ज्ञायते कुलं यस्य देशगोत्रधनं तथा ।
शीलं वयस्तस्य कन्या स्वजनैर्न च दीयते २९।
स उवाच द्विजश्रेष्ठ दत्तं मे दक्षिणं करम् ।
कदाचिदन्यथाकर्तुं न शक्नोमि च सर्वथा ३०।
इत्युक्त्वा तान्स विप्राय कन्यां दातुं प्रचक्रमे ।
दृष्ट्वेति ज्ञातयः सर्वे विस्मयमद्भुतं ययुः ३१।
सत्यं तद्वचनं श्रुत्वा शंखचक्रगदाधरः ।
आविर्बभूव सहसा चारुह्य गरुडं मुने ३२।
श्रीभगवानुवाच।
धन्यं ते च कुलं धर्मोधन्यस्ते जननी पिता ।
धन्यं ते वचनं सत्यं धन्यं ते दक्षिणं करम् ३३।
धन्यं कर्म्म च ते जन्म त्रैलोक्ये नैव विद्यते ।
एवं ते कर्मणा साधो चोद्धारं कुरुषे कुलम् ३४।
सूत उवाच।
एवं ब्रुवति श्रीकृष्णे विमानं स्वर्णनिर्मितम् ।
आगतं हरिगणैर्युक्तं सर्वत्र गरुडध्वजम् ३५।
सर्वं तस्य कुलं ब्रह्मन्स श्वपाकपुरोहितम् ।
रथे चारोपयामास शंखपद्मधरः स्वयं ३६।
गृहीत्वा तान्हरिः सर्वान्गतो वैकुंठमंदिरम् ।
तत्र तस्थौ चिरं ते च कृत्वा भोगं सुदुर्ल्लभम् ३७।
वचनं लंघयेद्यस्तु यस्तु वा दक्षिणं करम् ।
सकुलो निरयं याति सत्यं सत्यं वदाम्यहम् ३८।
तस्यान्नं तु जलं ब्रह्मन्न ग्राह्यं पितृदैवतैः ।
त्यक्त्वा धर्मो गृहं तस्य भीत्या याति द्विजोत्तम ३९।
दत्वाशां यो जनः कुर्यान्नैराश्यं चैव मूढधीः ।
स स्वकान्कोटिपुरुषान्गृहीत्वा नरकं व्रजेत् ४०।
वचनं लंघयेद्यस्तु धर्मस्तस्य विलंघति ।
नृपाग्नितस्करैर्विप्र सत्यं सत्यं सुनिश्चितम् ४१।
स्वर्गोत्तरमिमं सम्यक्श्रुत्वा स्वर्गोत्तरं व्रजेत् ।
जीवन्मुक्तस्त्विहामुत्र कृष्णाख्यं धाम चोत्तमम् ४२।
इति श्रीपाद्मे महापुराणे ब्रह्मखंडे सूतशौनकसंवादे षडिंवशतितमोऽध्यायः २६।


इति स्वर्गोत्तरापरनामकं ब्रह्मखण्डं संपूर्णम् ।

इति श्रीपाद्मे महापुराणे चतुर्थं ब्रह्मखण्डं समाप्तम्।