पद्मपुराणम्/खण्डः ५ (पातालखण्डः)/अध्यायः ००६

← अध्यायः ००५ पद्मपुराणम्/खण्डः ५ (पातालखण्डः)
अध्यायः ००६
[[लेखकः :|]]
अध्यायः ००७ →

शेष उवाच।
इत्थं स्वागतसंतुष्टं ब्रह्मचर्यतपोनिधिम् ।
उवाच मतिमान्वीरः सर्वलोकगुरुर्मुनिम् १।
स्वागतं ते महाभाग कुंभयोने तपोनिधे ।
त्वद्दर्शनेन सर्वे वै पाविताः सकुटुंबकाः २।
कच्चिन्मतिस्ते वेदेषु शास्त्रेषु परिवर्तते ।
त्वत्तपोविघ्नकर्ता वै नास्ति भूमंडले क्वचित् ३।
लोपामुद्रा महाभाग या च ते धर्मचारिणी ।
यस्याः पतिव्रता धर्मात्सर्वं भवति शोभनम् ४।
अपि शंस महाभाग धर्ममूर्ते कृपानिधे ।
अलोलुपस्य किं कार्यं करवाणि मुनीश्वर ५।
त्वत्तपोयोगतः सर्वं भवति स्वेच्छया बहु ।
तथापि मयि कृत्वैव कृपां शंश मुनीश्वरः ६।
शेष उवाच।
इत्युक्तो लोकगुरुणा राजराजेन धीमता ।
उवाच रामं लोकेशं विनीततरभाषया ७।
अगस्त्य उवाच।
स्वामिंस्तव सुदुर्दर्शं दर्शनं दैवतैरपि ।
मत्वा समागतं विद्धि राजराज कृपानिधे ८।
हतस्त्वया रावणाख्यस्त्वसुरो लोककंटकः ।
दिष्ट्याद्य देवाः सुखिनो दिष्ट्या राजा बिभीषणः ९।
राम त्वद्दर्शनान्मेऽद्य गतं वै दुष्कृतं किल ।
संपूर्णो मे मनःकोश आनंदेन सुरोत्तम १०।
इत्युक्त्वा स बभूवाशु तूष्णीं कुंभसमुद्भवः ।
रामसंदर्शनाह्लादविह्वलीकृतमानसः ११।
रामः पप्रच्छ तं भूयो मुनिं ज्ञानविशारदम् ।
लोकातीतं भवद्भावि सर्वं जानासि सर्वतः १२।
मुने कथय मे सर्वं पृच्छतो हि सुविस्तरम् ।
कोऽसौ मया हतो यो हि रावणो विबुधार्दनः १३।
कुंभकर्णोऽपि कस्त्वेष का जातिर्वै दुरात्मनः ।
देवो दैत्यः पिशाचो वा राक्षसो वा महामुने १४।
सर्वमाख्याहि सर्वज्ञ सर्वं जानासि विस्तरात् ।
अतः कथय मे सर्वं कृपां कृत्वा ममोपरि १५।
इति श्रुत्वा ततो वाक्यं कुंभजन्मा तपोनिधिः ।
यत्पृष्टं रघुराजेन प्रवक्तुं तत्प्रचक्रमे १६।
राजन्सृष्टिकरो ब्रह्मा पुलस्त्यस्तत्सुतोऽभवत् ।
ततस्तु विश्रवा जज्ञे वेदविद्याविशारदः १७।
तस्य पत्नीद्वयं जातं पातिव्रत्यचरित्रभृत् ।
एका मंदाकिनी नाम्नी द्वितीया कैकसी स्मृता १८।
पूर्वस्यां धनदो जज्ञे लोकपालविलासभृत् ।
योऽसौ शिवप्रसादेन लंकावासमचीकरत् १९।
विद्युन्मालिसुतायां तु पुत्रत्रयमभून्महत् ।
रावणः कुंभकर्णश्च तथा पुण्यो बिभीषणः २०।
राक्षस्युदरजन्मत्वात्संध्यासमयसंभवात् ।
द्वयोरधर्मनिपुणा मतिरासीन्महामते २१।
एकदा तु विमानेन पुष्पकेण सुशोभिना ।
कांचनीयोपकल्पेन किंकिणीजालमालिना २२।
आरुह्य पितरौ द्रष्टुं प्रायाच्छोभासमन्वितः ।
स्वगणैः संस्तुतो भूत्वा नानारत्नविभूषणैः २३।
आगत्य पित्रोश्चरणे पतित्वा चिरमात्मजः ।
हर्षविह्वलितात्मा च रोमांचिततनूरुहः २४।
उवाच मेऽद्य सुदिनं महाभाग्यफलोदयः ।
यन्मे युष्मत्पदौ दृष्टौ महापुण्यददर्शनौ २५।
इत्यादिभिः स्तुतिपदैः स्तुत्वागान्मंदिरं स्वकम् ।
पितरावपि संहृष्टौ पुत्रस्नेहाद्बभूवतुः २६।
तं दृष्ट्वा रावणो धीमाञ्जगाद निजमातरम् ।
कोऽयं पुमान्सुरो वाथ यक्षो वाथ नरोत्तमः २७।
योऽसौ मम पितुःपादौ सन्निषेव्य गतः पुनः ।
महाभाग्यनिधिः स्वीयैर्गणैः सुपरिवारितः २८।
केनेदं तपसा लब्धं विमानं वायुवेगधृक् ।
उद्यानारामलीलादि विलासस्थानमुत्तमम् २९।
शेष उवाच।
इति वाक्यं समाकर्ण्य जननी रोषविक्लवा ।
उवाच पुत्रं विमनाः किंचिन्नेत्रविकारिणी ३०।
रे पुत्र शृणु मद्वाक्यं बहुशिक्षासमन्वितम् ।
एतस्य जन्मकर्मादि विचारचतुराधिकम् ३१।
सपत्न्या मम कुक्षिस्थं विधानं समुपस्थितम् ।
येन स्वमातुर्विमलं कुलमुज्ज्वलितं महत् ३२।
त्वं तु मत्कुक्षिजः कीटः पापः स्वोदरपूरकः ।
यथा खरः स्वकं भारं जानाति न च तद्गुणम् ३३।
तथा त्वं लक्ष्यसेऽज्ञानी शयनासनभोगवान् ।
सुप्तो गतः क्वचिद्भ्रष्ट इत्येव तव संभवः ३४।
अनेन तपसा लब्धं शिवसंतोषकारिणा ।
लंकावासो मनोवेगं विमानं राज्यसंपदः ३५।
सुधन्या जननी त्वस्य सुभाग्या सुमहोदया ।
यस्याः पुत्रो निजगुणैर्लब्धवान्महतां पदम् ३६।
इति क्रुधा भाषितमार्तया तया मात्रा स्वयाऽकर्ण्य दुरात्मसत्तमः ।
रोषं विधायात्मगतं पुनर्वचो जगाद तां निश्चयभृत्तपः प्रति ३७।
रावण उवाच।
जनन्याकर्णय वचो मम गर्वसमन्वितम् ।
रत्नगर्भा त्वमेवासि यस्याः पुत्रास्त्रयो वयम् ३८।
कोऽसौ कीटः स धनदः क्व तपः स्वल्पकं पुनः ।
कालं का किंतु तद्राज्यं स्वल्पसेवकसंयुतम् ३९।
मातः शृणु ममोत्साहात्प्रतिज्ञां करुणान्विते ।
न केनापि कृतां कर्त्रा महाभाग्ये हि कैकसि ४०।
यद्यहं भुवनं सर्वं वशेन स्थापयामि वै ।
तपोभिर्दुष्कृतैः कृत्वा ब्रह्मसंतोषकारकैः ४१।
अन्नोदके सदा त्यक्त्वा निद्रां क्रीडां तथा पुनः ।
चेत्तदा पितृलोकस्य घातात्पापं भवेन्मम ४२।
कुंभकर्णोऽपि कृतवान्विभीषणसमन्वितः ।
रावणेन सहभ्रात्रेत्युक्त्वागाद्गिरिकाननम् ४३।
इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे रावणोत्पत्तिर्नाम षष्ठोऽध्यायः ६।