पद्मपुराणम्/खण्डः ५ (पातालखण्डः)/अध्यायः ००७
← अध्यायः ००६ | पद्मपुराणम् अध्यायः ००७ वेदव्यासः |
अध्यायः ००८ → |
अगस्त्य उवाच।
अथोग्रं स तपो दैत्यो दशवर्षसहस्रकम् ।
चकार भानुमक्ष्णा च पश्यन्नूर्ध्वपदे स्थितः १।
कुंभकर्णोऽपि कृतवांस्तपः परमदुश्चरम् ।
विभीषणस्तु धर्मात्मा चचार परमं तपः २।
तदा प्रसन्नो भगवान्देवदेवः प्रजापतिः ।
देवदानवयक्षादि मुकुटैः परिसेवितः ३।
ददौ राज्यं च सुमहद्भुवनत्रयभास्वरम् ।
वपुश्च कृतवान्रम्यं देवदानवसेवितम् ४।
तदा संतापितो भ्राता धनदो धर्मबुद्धिमान् ।
विमानं तु ततो नीतं लंका च नगरी हठात् ५।
भुवनं तापितं सर्वं देवाश्चैव दिवो गताः ।
हतवान्ब्राह्मणकुलं मुनीनां मूलकृंतनः ६।
तदातिदुःखिता देवाः सेंद्रा ब्रह्माणमाययुः ।
स्तुतिं चक्रुर्महात्मानो दंडवत्प्रणतिं गताः ७।
ते तुष्टुवुः सुराः सर्वे वाग्भिरर्थ्याभिरादृताः ।
ततः प्रसन्नो भगवान्किंकरोमीति चाब्रवीत् ८।
ततो निवेदयांचक्रुर्ब्रह्मणे विबुधाः पुरः ।
दशग्रीवाच्च संकष्टं तथा निजपराभवम् ९।
क्षणं ध्यात्वा ययौ ब्रह्मा कैलासं त्रिदशैः सह ।
तस्य शैलस्य पार्श्वे तु वैचित्र्येण समाकुलाः १०।
स्थिताः संतुष्टुवुर्देवाः शंभुं शक्रपुरोगमाः ।
नमो भवाय शर्वाय नीलग्रीवाय ते नमः ११।
नमः स्थूलाय सूक्ष्माय बहुरूपाय ते नमः ।
इति सर्वमुखेनोक्तां वाणीमाकर्ण्य शंकरः १२।
प्रोवाच नंदिनं देवा नानयेति ममांतिकम् ।
एतस्मिन्नंतरे देवा आहूता नंदिना च ते १३।
प्रविश्यांतःपुरे देवा ददृशुर्विस्मितेक्षणाः ।
ब्रह्मागत्य ददर्शाथ शंकरं लोकशंकरम् १४।
गणकोटिसहस्रैस्तु सेवितं मोदशालिभिः ।
नग्नैर्विरूपैः कुटिलैर्धूसरैर्विकटैस्तथा १५।
प्रणिपत्याग्रतः स्थित्वा सह देवैः पितामहः ।
उवाच देवदेवेशं पश्यावस्थां दिवौकसाम् १६।
कृपां कुरु महादेव शरणागतवत्सल ।
दुष्टदैत्यवधार्थं त्वं समुद्योगं विधेहि भोः १७।
सोऽपि तद्वचनं श्रुत्वा दैन्यशोकसमन्वितम् ।
त्रिदशैः सहितैः सर्वैराजगाम हरेः पदम् १८।
तुष्टुवुर्मुनयः सर्वे ससुरोरगकिन्नराः ।
जय माधव देवेश जय भक्तजनार्तिहन् १९।
विलोकय महादेव लोकयस्व स्वसेवकान् ।
इत्युच्चैर्जगदुः सर्वे देवाः शर्वपुरोगमाः २०।
इत्युक्तमाकर्ण्य सुराधिनाथो दृष्ट्वा सुरार्तिं परिचिंत्य विष्णुः ।
जगाद देवाञ्जलदोच्चया गिरा दुःखं तु तेषां प्रशमं नयन्निव २१।
भो ब्रह्मशर्वेंद्र पुरोगमामराः शृण्वंतु वाचं भवतां हितेरताम् ।
जाने दशग्रीवकृतं भयं वस्तन्नाशयाम्यद्य कृतावतारः २२।
पुरी त्वयोध्या रविवंशजातैर्नृपैर्महादानमखादिसत्क्रियैः ।
प्रपालिता भूतलमंडनीया विराजते राजतभूमिभागैः २३।
तस्यां दशरथो राजा निरपत्यः श्रियान्वितः ।
पालयत्यधुना राज्यं दिक्चक्रजयवान्विभुः २४।
स तु वंद्यादृष्यशृंगात्प्रार्थितात्पुत्रकाम्यया ।
पुत्रेष्ट्यां विधिना यज्वा महाबलसमन्वितः २५।
ततोऽहं प्रार्थितः पूर्वं तपसा तेन भोः सुराः ।
पत्नीषु तिसृषु प्रीत्या चतुर्धापि भवत्कृते २६।
राम लक्ष्मण शत्रुघ्न भरताख्या समन्वितः ।
कर्तास्मि रावणोद्धारं समूल बलवाहनम् २७।
भवंतोऽपि स्वकैरंशैरवतीर्य चरंत्विह ।
ऋक्षवानररूपेण सर्वत्र पृथिवीतले २८।
इत्युक्त्वा विररामाशु नभसीरितवाङ्मुने ।
देवाः श्रुत्वा महद्वाक्यं सर्वे संहृष्टमानसाः २९।
ते चक्रुर्गदितं यादृग्देवदेवेन धीमता ।
स्वैःस्वैरंशैर्मही पूर्णा ऋक्षवानररूपिभिः ३०।
योऽसौ विष्णुर्महादेवो देवानां दुःखनाशकः ।
सत्वमेव महाराज भगवान्कृतविग्रहः ३१।
भरतोऽयं लक्ष्मणश्च शत्रुघ्नश्च महामते ।
तावकांशाद्दशग्रीवो जनितश्च सुरार्द्दनः ३२।
पूर्ववैरानुबंधेन जानकीं हृतवान्पुनः ।
स त्वया निहतो दैत्यो ब्रह्मराक्षसजातिमान् ३३।
पुलस्त्यपुत्रो दैत्येंद्र सर्वलोकैककंटकः ।
पातितः पृथिवी सर्वा सुखमापमहेश्वर ३४।
ब्राह्मणानां सुखं त्वद्य मुनीनां तापसं बलम् ।
शिवानि सर्वतीर्थानि सर्वे यज्ञाः सुसंहिताः ३५।
त्वयि राज्ञि जगत्सर्वं सदेवासुरमानुषम् ।
सुखं प्रपेदे विश्वात्मञ्जगद्योने नरोत्तम ३६।
एतत्ते सर्वमाख्यातं यत्पृष्टोऽहं त्वयानघ ।
उत्पत्तिश्च विपत्तिश्च मया मत्यनुसारतः ३७।
इत्थं निशम्य दितिजेंद्र कुलानुकारिवार्तां महापुरुष ईश्वरईशिता च ।
संरुद्धबाष्पगलदश्रुमुखारविंदो भूमौ पपात सदसि प्रथितप्रभावः ३८।
इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे रावणोत्पत्तिविपत्तिकथनंनाम सप्तमोऽध्यायः ७।