पद्मपुराणम्/खण्डः ५ (पातालखण्डः)/अध्यायः ००८

← अध्यायः ००७ पद्मपुराणम्
अध्यायः ००८
वेदव्यासः
अध्यायः ००९ →

शेष उवाच।
वात्स्यायनमुनिश्रेष्ठ कथा पापप्रणाशिनी ।
ब्रह्मण्यदेवदेवस्य सर्वधर्मैकरक्षितुः १।
राजानं मूर्च्छितं दृष्ट्वा कुंभजन्मा तपोनिधिः ।
शनैःशनैः करेणाशु पस्पर्शाश्रु जगाद च २।
भो रामाश्वसिहि क्षिप्रं किमर्थमवसीदसि ।
भवान्दैत्यकुलच्छेत्ता महाविष्णुः सनातनः ३।
भूतं भव्यं भवच्चैव जगत्स्थास्नु चरिष्णु च ।
त्वदृते नास्ति संचारी किमर्थमिह मूर्च्छितः ४।
श्रुत्वा वाक्यं महाराजः कुंभजन्मसमीरितम् ।
उत्तस्थौ विगलन्नेत्र बाष्पपूरितसन्मुखः ५।
उवाच दीनदीनं च विस्पष्टाक्षरविस्तरम् ।
त्रपाभर नमन्मूर्तिर्ब्रह्मद्रोहपराङ्मुखः ६।
श्रीराम उवाच।
अहो मे पश्यता ज्ञानं विमूढस्य दुरात्मनः ।
यद्ब्राह्मणकुले रूढं हतवान्कामलोलुपः ७।
महिलार्थे त्वहं विप्रं वेदशास्त्रविवेकवान् ।
हतवान्वाडवकुलं बुद्धिहीनोति दुर्मतिः ८।
इक्ष्वाकूणां कुले जातु ब्राह्मणो न दुरुक्तिभाक् ।
ईदृशं कुर्वता कर्म मयैतत्सुकलंकितम् ९।
ये ब्राह्मणास्तु पूजार्हा दानसम्मानभोजनैः ।
ते मया निहता विप्राः शरसंघातसंहितैः १०।
काँल्लोकान्नु गमिष्यामि कुंभीपाकोऽपि दुःसहः ।
न तादृशं तीर्थमस्ति यन्मां पावयितुं क्षमम् ११।
न यज्ञो न तपो दानं न वा चैव व्रतादिकम् ।
यत्तु वै ब्राह्मणद्रोग्धुर्ममपावनतारकम् १२।
यैः कोपितं ब्रह्मकुलं नरैर्निरयगामिभिः ।
ते नरा बहुशो दुःखं भोक्ष्यंति निरयं गताः १३।
वेदा मूलं तु धर्माणां वर्णाश्रमविवेकिनाम् ।
तन्मूलं ब्राह्मणकुलं सर्ववेदैकशाखिनः १४।
मूलच्छेत्तुर्ममौद्धत्यात्को लोकोनु भविष्यति ।
किमद्यकरणीयं वै येन मे हि शिवं भवेत् १५।
शेष उवाच।
विलपंतं भृशं रामं राजेंद्रं रघुपुंगवम् ।
मायामनुष्यवपुषं कुंभजन्माब्रवीद्वचः १६।
अगस्त्य उवाच।
मा विषादं महाधीर कुरु राजन्महामते ।
न ते ब्राह्मणहत्या स्याद्दुष्टानां नाशमिच्छतः १७।
त्वं पुराणः पुमान्साक्षादीश्वरः प्रकृतेः परः ।
कर्ता हर्ताऽविता साक्षी निर्गुणः स्वेच्छया गुणी १८।
सुरापो ब्रह्महत्याकृत्स्वर्णस्तेयी महाघकृत् ।
सर्वे त्वन्नामवादेन पूताः शीघ्रं भवंति हि १९।
इयं देवी जनकजा महाविद्या महामते ।
यस्याः स्मरणमात्रेण मुक्ता यास्यंति सद्गतिम् २०।
रावणोऽपि न वै दैत्यो वैकुंठे तव सेवकः ।
ऋषीणां शापतोऽवाप्तो दैत्यत्वं दनुजांतक २१।
तस्यानुग्रहकर्ता त्वं न तु हंता द्विजन्मनः ।
एवं संचिंत्य मा भूयो निजं शोचितुमर्हसि २२।
इति श्रुत्वा ततो वाक्यं रामः परपुरंजयः ।
उवाच मधुरं वाक्यं गद्गदस्वरभाषितम् २३।
श्रीराम उवाच।
पातकं द्विविधं प्रोक्तं ज्ञाताज्ञातविभेदतः ।
ज्ञातं यद्बुद्धिपूर्वं हि अज्ञातं तद्विवर्जितम् २४।
बुद्धिपूर्वं कृतं कर्म भोगेनैव विनश्यति ।
नश्येदनुशयादन्यदिदं शास्त्रविनिश्चितम् २५।
कुर्वतो बुद्धिपूर्वं मे ब्रह्महत्यां सुनिंदिताम् ।
न मे दुःखापनोदाय साधुवादः सुसंमतः २६।
प्रब्रूहि तादृशं मह्यं यादृशं पापदाहकम् ।
व्रतं दानं मखं किंचित्तीर्थमाराधनं महत् २७।
येन मे विमला कीर्तिर्लोकान्वै पावयिष्यति ।
पापाचाराप्तकालुष्यान्ब्रह्महत्याहतप्रभान् २८।
शेष उवाच।
इत्युक्तवंतं तं रामं जगाद स तपोनिधिः ।
सुरासुरनमन्मौलि मणिनीराजितांघ्रिकम् २९।
शृणु राम महावीर लोकानुग्रहकारक ।
विप्रहत्यापनोदाय तव यद्वचनं ब्रुवे ३०।
सर्वं स पापं तरति योऽश्वमेधं यजेत वै ।
तस्मात्त्वं यज विश्वात्मन्वाजिमेधेन शोभिना ३१।
सप्ततंतुर्महीभर्त्रा त्वया साध्यो मनीषिणा ।
महासमृद्धियुक्तेन महाबलसुशालिना ३२।
स वाजिमेधो विप्राणां हत्यायाः पापनोदनः ।
कृतवान्यं महाराजो दिलीपस्तव पूर्वजः ३३।
शतक्रतुः शतं कृत्वा क्रतूनां पुरुषर्षभः ।
पदमापामरावत्यां देवदैत्यसुसेवितम् ३४।
मनुश्च सगरो राजा मरुत्तो नहुषात्मजः ।
एते ते पूर्वजाः सर्वे यज्ञं कृत्वा पदं गताः ३५।
तस्मात्त्वं कुरु राजेंद्र समर्थोऽसि समंततः ।
भ्रातरो लोकपालाभा वर्तंते तव भावुकाः ३६।
इत्युक्तमाकर्ण्य मुनेः स भाग्यवान् रघूत्तमो ब्राह्मणघातभीतः ।
पप्रच्छ यागे सुमतिं चिकीर्षन्विधिं पुरावित्परिगीयमानः ३७।
इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे रघनाथस्यागस्त्योपदेशोनामाष्टमोऽध्यायः ८।