पद्मपुराणम्/खण्डः ५ (पातालखण्डः)/अध्यायः ०२१

← अध्यायः ०२० पद्मपुराणम्
अध्यायः ०२१
वेदव्यासः
अध्यायः ०२२ →

सुमतिरुवाच।
एतन्माहात्म्यमतुलं गंडक्याः कर्णगोचरम् ।
कृत्वा कृतार्थमात्मानममन्यत नृपोत्तमः १।
स्नात्वा तीर्थे पितॄन्सर्वान्संतर्प्य जहृषे महान् ।
शालग्रामशिलापूजां कुर्वन्वाडववाक्यतः २।
चतुर्विंशच्छिलास्तत्र गृहीत्वा स नृपोत्तमः ।
पूजयामास प्रेम्णा च चंदनाद्युपचारकैः ३।
तत्र दानानि दत्त्वा च दीनांधेभ्यो विशेषतः ।
गंतुं प्रचक्रमे राजा पुरुषोत्तममंदिरम् ४।
एवं क्रमेण संप्राप्तो गंगासागरसंगमम् ।
कृत्वाक्षिगोचरं तं च ब्राह्मणं पृष्टवान्मुदा ५।
स्वामिन्वद कियद्दूरे नीलाख्यः पर्वतो महान् ।
पुरुषोत्तमसंवासः सुरासुरनमस्कृतः ६।
तदा श्रुत्वा महद्वाक्यं रत्नग्रीवस्य भूपतेः ।
उवाच विस्मयाविष्टो राजानं प्रति सादरम् ७।
राजन्नेतत्स्थलं नीलपर्वतस्य नमस्कृतम् ।
किमर्थं दृश्यते नैव महापुण्यफलप्रदम् ८।
पुनःपुनरुवाचेदं स्थलं नीलस्य भूभृतः ।
कथं न दृश्यते राजन्पुरुषोत्तमवासभृत् ९।
अत्र स्नातं मया सम्यगत्र भिल्लाक्षिगोचराः ।
अनेनैव पथा राजन्नारूढं पर्वतोपरि १०।
इति तद्वाक्यमाकर्ण्य विव्यथे मानसे नृपः ।
नीलभूधरदर्शाय कुर्वन्नुत्कंठितं मनः ११।
उवाच तत्कथं विप्र दृश्येत पुरुषोत्तमः ।
कथं वा दृश्यते नीलस्तदुपायं वदस्व नः १२।
तदा वाक्यं समाकर्ण्य रत्नग्रीवस्य भूपतेः ।
तापसो ब्राह्मणो वाक्यमुवाच नृप विस्मितः १३।
गंगासागरसंयोगे स्नात्वास्माभिर्महीपते ।
स्थातव्यं तावदेवात्र यावन्नीलो न दृश्यते १४।
गीयते पापहा देवः पुरुषोत्तमसंज्ञितः ।
करिष्यते कृपामाशु भक्तवत्सलनामधृक् १५।
त्यजत्यसौ न वै भक्तान्देवदेवशिरोमणिः ।
अनेके रक्षिता भक्तास्तद्गायस्व महामते १६।
इति वाक्यं समाकर्ण्य राजा व्यथितचेतसा ।
स्नात्वा गंगाब्धिसंयोगे ततोनशनमादधात् १७।
करिष्यति कृपां यर्हि दर्शने पुरुषोत्तमः ।
पूजां कृत्वाशनं कुर्यामन्यथानशनं व्रतम् १८।
इति कृत्वा स नियमं गंगासागररोधसि ।
गायन्हरिगुणग्राममुपवासमथाचरत् १९।
राजोवाच।
जय दीनदयाकरप्रभो जय दुःखापह मङ्गलाह्वय ।
जय भक्तजनार्तिनाशन कृतवर्ष्मञ्जयदुष्टघातक २०।
अंबरीषमथ वीक्ष्य दुःखितं विप्रशापहतसर्वमङ्गलम् ।
धारयन्निजकरे सुदर्शनं संररक्ष जठराधिवासतः २१।
दैत्यराज पितृकारितव्यथः शूलपाशजलवह्निपातनैः ।
श्रीनृसिंहतनुधारिणा त्वया रक्षितः सपदि पश्यतः पितुः २२।
ग्राहवक्त्रपतितांघ्रिमुद्भटं वारणेंद्रमतिदुःखपीडितम् ।
वीक्ष्य साधुकरुणार्द्रमानसस्त्वं गरुत्मति कृतारुहक्रियः २३।
त्यक्तपक्षिपतिरात्तचक्रको वेगकंपयुतमालिकांबरः ।
गीयसे सुभिरमुष्य न क्रतो मोचकः सपदि तद्विनाशकः २४।
यत्रयत्र तव सेवकार्दनं तत्र तत्र बत देहधारिणा ।
पाल्यते च भवता निजः प्रभो पापहारिचरितैर्मनोहरैः २५।
दीननाथ सुरमौलिहीरकाघृष्टपादतल भक्तवल्लभ ।
पापकोटिपरिदाहक प्रभो दर्शयस्व निजदर्शनं मम २६।
पापकृद्यदि जनोयमागतो मानसे तव तथा हि दर्शय ।
तावका वयमघौघनाशनं विस्मृतं नहि सुरासुरार्चित २७।
ये वदंति तव नाम निर्मलं ते तरंति सकलाघसागरम् ।
संस्मृतिर्यदि कृता तदा मया प्राप्यतां सकलदुःखवारक २८।
सुमतिरुवाच।
एवं गायन्गुणान्रात्रौ दिवा वापि महीपतिः ।
क्षणमात्रं न विश्रांतो निद्रामाप न वै सुखम् २९।
गायन्गच्छन्गृणंस्तिष्ठन्वदत्येतदहर्निशम् ।
दर्शयस्व कृपानाथ स्वतनुं पुरुषोत्तम ३०।
एवं राज्ञः पंचदिनं गतं गंगाब्धिसंगमे ।
तदा कृपाब्धिः कृपया चिंतयामास गोपतिः ३१।
असौ राजा मदीयेन गानेन विगताघकः ।
पश्य तान्मामकीं प्रेष्ठां सुरासुरनमस्कृताम् ३२।
इति संचिंत्य भगवान्कृपापूरितमानसः ।
संन्यासिवेषमास्थाय ययौ राज्ञोंऽतिकं विभुः ३३।
तत्र गत्वा महाराज त्रिदंडियतिवेषधृक् ।
भक्तानुकंपया प्राप्तो वीक्षितस्तापसेन हि ३४।
ॐनमो विष्णवेत्युक्त्वा नमश्चक्रे नृपोत्तमः ।
अर्घ्यपाद्यासनैः पूजां चकार हरिमानसः ३५।
उवाच भाग्यमतुलं यद्भवानक्षिगोचरः ।
अतः परं दास्यते मे गोविंदो निजदर्शनम् ३६।
इति श्रुत्वा तु तद्वाक्यं संन्यासी निजगाद तम् ।
राजञ्छृणुष्व कथितं मम वाक्यविनिःसृतम् ३७।
अहं ज्ञानेन जानामि भूतं भव्यं भवच्च यत् ।
तस्मादहं ब्रुवे किंचिच्छृणुष्वैकाग्रमानसः ३८।
श्वो मध्याह्ने हरिर्दाता दर्शनं ब्रह्मदुर्ल्लभम् ।
पंचभिः स्वजनैः साकं यास्यसे परमं पदम् ३९।
त्वममात्यश्च महिला तव तापस वाडवः ।
पुरे तव करंबाख्यः साधुश्च तं तु वायकः ४०।
एतैः पंचभिरेतस्मिन्नीले पर्वतसत्तमे ।
यास्यसे ब्रह्मदेवेंद्र वंदितं सुरपूजितम् ४१।
इत्युक्त्वाऽदृश्यतां प्राप्तो यतिः क्वापि न दृश्यते ।
तदाकर्ण्य नृपो हर्षं प्राप चाशु सविस्मयम् ४२।
राजोवाच।
स्वामिन्कोऽसौ समागत्य संन्यासी मां यदूचिवान् ।
न दृश्यते पुनः कुत्र गतोऽसौ चित्तहर्षदः ४३।
तापस उवाच।
राजंस्तव महाप्रेम्णा कृष्टचित्तः समभ्यगात् ।
पुरुषोत्तमनामायं सर्वपापप्रणाशनः ४४।
श्वोमध्याह्ने तव पुरो भविष्यति महान्गिरिः ।
तमारुह्य हरिं दृष्ट्वा कृतार्थस्त्वं भविष्यसि ४५।
इतिवाक्यसुधापूर नाशितस्वांत संज्वरः ।
हर्षं यमाप स नृपो ब्रह्मापि न हि वेत्ति तम् ४६।
तदा दुंदुभयो नेदुर्वीणापणवगोमुखाः ।
महानंदस्तदा ह्यासीद्राजराजस्य चेतसि ४७।
गायन्हरिं क्षणं तिष्ठन्हसञ्जल्पन्ब्रुवन्नमन् ।
आनंदं प्राप सुघनं सर्वसंतापनाशनम् ४८।
इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे संन्यासिदर्शनंनाम एकविंशोऽध्यायः २१ ।