पद्मपुराणम्/खण्डः ५ (पातालखण्डः)/अध्यायः ०२२

← अध्यायः ०२१ पद्मपुराणम्
अध्यायः ०२२
वेदव्यासः
अध्यायः ०२३ →

सुमतिरुवाच।
अथ सर्वं दिनं नीत्वा हरिस्मरणकीर्तनैः ।
रात्रौ सुष्वाप गंगाया रोधस्युरुफलप्रदे १।
ददर्श स्वप्नमध्ये तु स स्वात्मानं चतुर्भुजम् ।
शंखचक्रगदापद्मशार्ङ्गकोदंडधारिणम् २।
नृत्यंतं पुरुषोत्तमस्य पुरतः शर्वादि देवैः सह ।
श्रीमद्भिः स्वतनूयुतैररिगदांबूत्थाब्जहेत्यादिभिः ।
विष्वक्सेनवरैर्गणैः सुतनुभिः श्रीशंसदोपासितं ।
दृष्ट्वा विस्मयमाप लोकविषयं हर्षं तथात्यद्भुतम् ३।
ददतं मनसोऽभीष्टं पुरुषोत्तमसंज्ञितम् ।
आत्मानं च कृपापात्रममन्यत महामतिः ४।
इत्येवं स्वप्नविषये ददर्श नृपसत्तमः ।
प्रातः प्रबुद्धो विप्राय जगाद स्वप्नमीक्षितम् ५।
तच्छ्रुत्वा वाडवो धीमान्कथयामास विस्मितः ।
राजंस्त्वयासौ दृष्टो यः पुरुषोत्तमसंज्ञितः ६।
दास्यते शंखचक्रादिचिह्नितां स्वतनुं हरिः ।
इति श्रुत्वा तु तद्वाक्यं रत्नग्रीवो महामनाः ७।
दापयामास दानानि दीनानां मानसोचितम् ।
स्नात्वा गंगाब्धिसंयोगे तर्पयित्वा पितॄन्सुरान् ८।
गायन्हरिगुणग्रामं प्रत्यैक्षत च दर्शनम् ।
ततो मध्याह्नसमये दिविदुंदुभयो मुहुः ९।
जघ्नुः सुरकराघात बहुशब्दसुशब्दिताः ।
अकस्मात्पुष्पवृष्टिश्च बभूव नृपमस्तके १०।
धन्योसि नृपवर्यस्त्वं नीलं पश्याक्षिगोचरम् ११।
शृणोतीति यदा वाक्यं नृपो देवप्रणोदितम् ।
तदा स सूर्यकोटीनामधिकांति धरोद्भुतः १२।
राज्ञोऽक्षिगोचरो जातो नीलनामा महागिरिः ।
राजतैः कानकैः शृंगैः समंतात्परिराजितः १३।
किमग्निः प्रज्वलत्येष द्वितीयः किमु भास्करः ।
किमयं वैद्युतः पुंजो ह्यकस्मात्स्थिरकांतिधृक् १४।
तापस ब्राह्मणो दृष्ट्वा नीलप्रस्थं सुशोभितम् ।
राज्ञे निवेदयामास एष पुण्यो महागिरिः १५।
तच्छ्रुत्वा नृपतिश्रेष्ठः शिरसा प्रणनाम ह ।
धन्योऽस्मि कृतकृत्योऽस्मि नीलो मे दृष्टिगोचरः १६।
अमात्यो राजपत्नी च करम्बस्तंतुवायकः ।
नीलदर्शनसंहृष्टा बभूवुः पुरुषर्षभ १७।
पंचैते विजये काले नीलपर्वतमारुहन् ।
महादुंदुभिनिर्घोषाञ्च्छृण्वन्तो ह्यमरैः कृतान् १८।
तस्योपरितने शृंगे चित्रपादपराजिते ।
ददर्श हाटकाबद्धं देवालयमनुत्तमम् १९।
ब्रह्मागत्य सदा पूजां करोति परमेष्ठिनः ।
नैवेद्यं कुरुते यत्र हरिसंतोषकारकम् २०।
दृष्ट्वाथ तत्र विमलं देवायतनमुत्तमम् ।
प्रविवेश परीवारैः पंचभिः सह संवृतः २१।
तत्र दृष्ट्वा जातरूपे महामणिविचित्रिते ।
सिंहासने विराजंतं चतुर्भुजमनोहरम् २२।
चंड प्रचंड विजय जयादिभिरुपासितम् ।
प्रणनाम सपत्नीको राजा सेवकसंयुतः २३।
प्रणम्य परमात्मानं महाराजः सुरोत्तमम् ।
स्नापयामास विधिवद्वेदोक्तैः स्नानमंत्रकैः २४।
अर्घ्यपाद्यादिकं चक्रे प्रीतेन मनसा नृपः ।
चंदनेन विलिप्यैनं सुवस्त्रे विनिवेद्य च २५।
धूपमारार्तिकं कृत्वा सर्वस्वादुमनोहरम् ।
नैवेद्यं भगवन्मूर्त्यै न्यवेदयदथो नृपः २६।
प्रणम्य च स्तुतिं चक्रे तापसब्राह्मणेन च ।
यथामतिगुणग्रामगुंफितस्तोत्रसंचयैः २७।
राजोवाच।
एकस्त्वं पुरुषः साक्षाद्भगवान्प्रकृतेः परः ।
कार्यकारणतो भिन्नो महत्तत्त्वादिपूजितः २८।
त्वन्नाभिकमलाज्जज्ञे ब्रह्मा सृष्टिविचक्षणः ।
तथा संहारकर्ता च रुद्रस्त्वन्नेत्रसंभवः २९।
त्वयाज्ञप्तः करोत्यस्य विश्वस्य परिचेष्टितम् ।
त्वत्तो जातं पुराणाद्यज्जगत्स्थास्नु चरिष्णु च ३०।
चेतनाशक्तिमाविश्य त्वमेनं चेतयस्यहो ।
तव जन्म तु नास्त्येव नांतस्तव जगत्पते ।
वृद्धिक्षयपरीणामास्त्वयि संत्येव नो विभो ३१।
तथापि भक्तरक्षार्थं धर्मस्थापनहेतवे ।
करोषि जन्मकर्माणि ह्यनुरूपगुणानि च ३२।
त्वया मात्स्यं वपुर्धृत्वा शंखस्तु निहतोसुरः ।
वेदाः सुरक्षिता ब्रह्मन्महापुरुषपूर्वज ३३।
शेषो न वेत्ति महि ते भारत्यपि महेश्वरी ।
किमुतान्ये महाविष्णो मादृशास्तु कुबुद्धयः ३४।
मनसा त्वां न चाप्नोति वागियं परमेश्वरी ।
तस्मादहं कथं त्वां वै स्तोतुं स्यामीश्वरः प्रभो ३५।
इति स्तुत्वा स शिरसा प्रणाममकरोन्मुहुः ।
गद्गदस्वरसंयुक्तो रोमहर्षांकितांगकः ३६।
इति स्तुत्या प्रहृष्टात्मा भगवान्पुरुषोत्तमः ।
उवाच वचनं सत्यं राजानं प्रति सार्थकम् ३७।
श्रीभगवानुवाच।
तव स्तुत्या प्रहर्षोऽभून्मम राजन्महामते ।
जानीहि त्वं महाराज मां च प्रकृतितः परम् ३८।
नैवेद्यभक्षणं त्वं हि शीघ्रं कुरु मनोहरम् ।
चतुर्भुजत्वमाप्तः सन्गंतासि परमं पदम् ३९।
त्वत्कृत्स्तुतिरत्नेन यो मां स्तोष्यति मानवः ।
तस्यापि दर्शनं दास्ये भुक्तिमुक्तिवरप्रदम् ४०।
इत्येवं वचनं राजा श्रुत्वा भगवतोदितम् ।
नैवेद्यभक्षणं चक्रे चतुर्भिः सह सेवकैः ४१।
ततो विमानं संप्राप्तं किंकिणीजालमंडितम् ।
अप्सरोवृंदसंसेव्यं सर्वभोगसमन्वितम् ४२।
पुरुषोत्तमसंज्ञं च पश्यन्राजा स धार्मिकः ।
ववंदे चरणौ तस्य कृपापात्रकृतात्मकः ४३।
तदाज्ञया विमाने स आरुह्य महिलायुतः ।
जगाम पश्यतस्तस्य दिवि वैकुंठमद्भुतम् ४४।
मंत्री धर्मपरो राज्ञः सर्वधर्मविदुत्तमः ।
ययौ साकं विमानेन ललनावृन्दसेवितः ४५।
तापसब्राह्मणस्तत्र सर्वतीर्थावगाहकः ।
चतुर्भुजत्वं संप्राप्तो ययौ देवैर्विमानिभिः ४६।
करंबोऽपि महाराज गानपुण्येन दर्शनम् ।
प्राप्तो ययौ सुरावासं सर्वदेवादिदुर्ल्लभम् ४७।
सर्वे प्रचलिता विष्णुलोकं परममद्भुतम् ।
चतुर्भुजाः शंखचक्रगदापाथोजधारिणः ४८।
सर्वे मेघश्रियः शुद्धा लसदंभोजपाणयः ।
हारकेयूरकटकैर्भूषितांगा ययुर्दिवम् ४९।
तद्विमानावलीर्दृष्ट्वा लोकैः प्रकृतिभिस्तदा ।
दुंदुभीनां तु निर्घोषस्तैः कृतः कर्णगोचरः ५०।
तदैको ब्राह्मणो ह्यासीद्विष्णुपादाब्जवल्लभः ।
गतस्तद्विरहाकृष्टचेता जातश्चतुर्भुजः ५१।
तच्चित्रं वीक्ष्य लोकास्ते प्रशंसंतो महोदयम् ।
गंगासागरसंयोगे स्नात्वाऽगुस्तं पुरं प्रति ५२।
अहो भाग्यं भूमिपते रत्नग्रीवस्य सन्मतेः ।
जगामानेन देहेन तद्विष्णोः परमं पदम् ५३।
राजन्नसौ नीलगिरिः पुरुषोत्तमसत्कृतः ।
यं वीक्ष्यैव व्रजंत्यद्धा वैकुंठं परमायनम् ५४।
एतन्नीलस्य माहात्म्यं यः शृणोति स भाग्यवान् ।
यः श्रावयति लोकान्वै तौ गच्छेतां परं पदम् ५५।
एतच्छ्रुत्वा तु दुःस्वप्नो नश्यति स्मृतिमात्रतः ।
प्रांते संसारनिस्तारं ददाति पुरुषोत्तमः ५६।
योऽसौ नीलाधिवासी च स रामः पुरुषोत्तमः ।
सीतासाक्षान्महालक्ष्मीः सर्वकारणकारणम् ५७।
हयमेधं चरित्वा स लोकान्वै पावयिष्यति ।
यन्नामब्रह्महत्यायाः प्रायश्चित्ते प्रदिश्यते ५८।
इदानीं त्वद्धयः प्राप्तो नीलेपर्वतसत्तमे ।
पुरुषोत्तमदेवं त्वं नमस्कुरु महामते ५९।
तत्र निष्पापिनो भूत्वा यास्यामः परमं पदम् ।
यस्य प्रसादाद्बहवो निस्तीर्णा भवसागरात् ६०।
एवं प्रवदतस्तस्य प्राप्तोऽश्वो नीलपर्वतम् ।
वायुवेगेन पृथिवीं कुर्वन्संक्षुण्णमंडलाम् ६१।
तदा राजापि तत्पृष्ठचारी नीलाभिधं गिरिम् ।
प्राप्तो गंगाब्धिसंयोगे स्नात्वागात्पुरुषोत्तमम् ६२।
स्तुत्वा नत्वा च देवेशं सुरासुरनमस्कृतम् ।
जातं कृतार्थमात्मानममन्यत स शत्रुहा ६३।
इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे नीलगिरिमहिमवर्णनंनाम द्वाविंशोऽध्यायः २२ ।