पद्मपुराणम्/खण्डः ५ (पातालखण्डः)/अध्यायः ०२३

← अध्यायः ०२२ पद्मपुराणम्
अध्यायः ०२३
वेदव्यासः
अध्यायः ०२४ →

शेष उवाच।
क्षणं स्थित्वा तृणान्यत्त्वा ययौ वाजी मनोजवः ।
वीरश्रेणीवृतः पत्रं भाले धृत्वा सचामरः १।
शत्रुघ्नेन सुवीरेण लक्ष्मीनिधि नृपेण च ।
पुष्कलेनोग्रवाहेन प्रतापाग्र्येण रक्षितः २।
ययौ पुरीं स चक्रांकां सुबाहुपरिरक्षिताम् ।
अनेकवीरकोटीभी रक्षितोऽनुगतः प्रभो ३।
तदा पुत्रोस्य दमनो मृगयामास्थितो महान् ।
ददर्शाश्वं भालपत्रं चंदनादिकचर्चितम् ४।
विलोक्य सेवकं प्राह कस्याश्वो मेऽक्षिगोचरः ।
भाले पत्रं धृतं किं नु चामरं किंतु शोभनम् ५।
इति राज्ञोवचः श्रुत्वा सेवकः प्रययौ ततः ।
यत्रासौ वर्तते वाजी भालपत्रः सुशोभनः ६।
गृहीत्वा तं केशसंघे रत्नमालाविभूषितम् ।
निनाय चाग्रे भूपस्य सुबाहुकुलधारिणः ७।
स पत्रं वाचयामास सुंदराक्षरशोभितम् ।
अयोध्याधिपतिश्चासीद्राजा दशरथो बली ८।
तस्यात्मजो रामभद्रः सर्वशूरशिरोमणिः ।
नान्योस्ति तत्समः पृथ्व्यां धनुर्धरणविक्रमः ९।
तेनासौ मोचितो वाजी चंदनादिकचर्चितः ।
तं पालयति धर्मात्मा शत्रुघ्नः परवीरहा १०।
ये च शूरा वयं वीरा धनुर्हस्ता इमे वयम् ।
ते गृह्णंतु बलाद्वाहं रत्नमालाविभूषितम् ११।
तं च मोक्ष्यति शत्रुघ्नः सर्ववीरशिरोमणिः ।
अन्यथा पादयोस्तस्य प्रणतिं यांतु धन्विनः १२।
इत्यभिप्रायमालोक्य जगाद नृपनंदनः ।
राम एव धनुर्धारी न वयं क्षत्त्रियाः स्मृताः १३।
ताते मेऽवस्थिते पृथ्व्यां कोऽयं गर्वो महान्भुवि ।
प्राप्नोतु गर्वस्य फलं मम निर्मुक्तसायकैः १४।
अद्य मे निशिता बाणाः शत्रुघ्नं किंशुकं यथा ।
पुष्पितं विदधत्वद्धा क्षतावृतशरीरकम् १५।
दारयंतु कपोलांश्च सायका मम दंतिनाम् ।
अश्वान्पश्यंतु शतशो रुधिरौघपरिप्लुतान् १६।
पिबंतु योगिनीसंघा रुधिराणि नृमस्तकैः ।
शिवा भवंतु संतुष्टा मद्वैरिक्रव्यभक्षणैः १७।
पश्यंतु सुभटास्तस्य मम बाहुबलं महत् ।
कोदंडदंडनिर्मुक्ताः शरकोटीर्विमुंचतः १८।
इत्थमुक्त्वा महीपस्य तनुजो दमनाभिधः ।
स्वपुरं प्रेषयित्वा तं प्रहृष्टोऽभवदुद्भटः १९।
सेनापतिमुवाचेदं सज्जीकुरु महामते ।
सेनां परिमितां मह्यं वैरिवृंदनिवारणे २०।
सज्जां सेनां विधायाशु संमुखो रणमंडले ।
स्थितवान्या वदत्युग्रस्तावत्प्राप्ता हयानुगाः २१।
क्वासौ हयो महाराज्ञो भालपत्रेण चिह्नितः ।
पप्रच्छुस्ते तु चान्योन्यमतिव्याकुलिता मुहुः २२।
तावद्ददर्श पुरतः प्रतापाग्र्यः परंतपः ।
सज्जीभूतं तु कटकं वीरशब्दनिनादितम् २३।
तत्रावदञ्जनाः केचिन्नीतोऽश्वोऽनेन भूपते ।
अन्यथा संमुखस्तिष्ठेत्कथं वीरो बलानुगः २४।
इत्याकर्ण्य प्रतापाग्र्यः प्रेषयामास सेवकम् ।
स गत्वा तत्र पप्रच्छ कुत्राश्वो रामभूपतेः २५।
केन नीतः कुतो नीतो रामं जानाति नो कुधीः ।
यं शक्रप्रमुखा देवा बलिमादाय सन्नताः २६।
तस्य वै धर्मराजस्य कुपितं तु बलं महत् ।
सर्वथा हि ग्रसिष्येत प्रणतिं चेन्न यास्यति २७।
इत्थमुक्तं समाकर्ण्य तदा राजसुतो बली ।
तं वै धिक्कारयामास वाग्जालेन सुदुर्मनाः २८।
मयानीतो यज्ञहयः पत्रचिह्नाद्यलंकृतः ।
ये शूरास्ते तु मां जित्वा मोचयंतु बलादिह २९।
सेवकस्तद्वचः श्रुत्वा रोषपूर्णो हसन्ययौ ।
राज्ञे निवेदयामास यथावदुपवर्णितम् ३०।
तच्छ्रुत्वा रोषताम्राक्षः प्रतापाग्र्यो महाबलः ।
ययौ योद्धुं राजपुत्रं महावीरपुरस्कृतम् ३१।
रथेन कनकांगेन चतुर्वाजिसुशोभिना ।
सुकूबरेण सर्वास्त्रपूरितेन ययौ बली ३२।
धनुष्टंकारयामास महाबलसमन्वितः ।
पुनःपुनर्जहासोच्चैः कोपादुद्गमिताश्रुकः ३३।
अश्ववाहा गजारूढाः खड्गोल्लसितपाणयः ।
अन्वयुस्ते प्रतापाग्र्यं रोषपूर्णाकुलेक्षणम् ३४।
हस्तिनः पत्तयश्चैव कोटिशः प्रधनोद्यताः ।
चिरकालमभीप्संतो रणं वीरेणकारितम् ३५।
तदोद्यतं समाज्ञाय रिपुसैन्यं नृपात्मजः ।
प्रत्युज्जगाम वीराग्र्यो महाबलपरीवृतः ३६।
सन्नद्धः कवची खड्गी शरासनधरो युवा ।
लीलयैव ययौ योद्धुं मृगराड्गजतामिव ३७।
तदा योधाः प्रकुपिताः परस्परवधैषिणः ।
छिंधि भिंधीति भाषंतो रणकार्यविशारदाः ३८।
पत्तयः पत्तिसंघेन गजारूढाश्च सादिभिः ।
रथारूढा रथस्थैश्च वाहारूढाश्वसंस्थितैः ३९।
गजा भिन्ना द्विधा जाता हयाश्च द्विदलीकृताः ।
अनेकनरमस्तिष्कैर्मेदिनीपूरिता ह्यभूत् ४०।
तदा प्रकुपितो राजा प्रतापाग्र्यो महाबलः ।
स्वसैन्यकदनोद्युक्तं राजपुत्रं समीक्ष्य च ४१।
उवाच सारथिं तत्र प्रापयाश्वान्यतो मम ।
सैन्यस्य कदनासक्तो राजपुत्रो महारथः ४२।
अथ वीरशिरोरत्न नमितांघ्रिर्नृपात्मजः ।
ययौ संमुखमेवास्य प्रतापाग्र्यस्य वीर्यवान् ४३।
सारथिः प्रापयामास प्रतापाग्र्यस्य वाजिनः ।
यत्रासौ दमनो वीरः सर्वशूरशिरोमणिः ४४।
गत्वा तमाह्वयामास राजपुत्रं रणोद्यतम् ।
रथे पुरटनिर्णिक्ते तिष्ठन्कोदंडदंडभृत् ४५।
रे राजपुत्र क शिशो त्वया बद्धोऽश्वसत्तमः ।
न ज्ञातोसि महाराजः सर्ववीरेंद्र सेवितः ४६।
यस्य प्रतापं दैत्येंद्रो न शक्तः सोढुमद्भुतम् ।
तस्य त्वं वाजिनं नीत्वा गतोऽसि पुटभेदनम् ४७।
मां जानीहि पुरः प्राप्तं कालरूपं तु वैरिणम् ।
मुंचाश्वमर्भ गच्छाशु बालक्रीडनकं कुरु ४८।
कस्यात्मजस्त्वं कुत्रत्यः कथं नोऽदीर्घदर्शिना ।
धृतोऽश्वस्त्वथ संजाता घृणा मम शिशो त्वयि ४९।
इत्थमाकर्ण्य दमनः स्मितं चक्रे महामनाः ।
उवाच च प्रतापाग्र्यं तृणीकुर्वंश्च तद्बलम् ५०।
दमन उवाच।
मया बद्धो बलादश्वो नीतः स्वपुटभेदनम् ।
नार्पयिष्येऽद्य सप्राणः कुरु युद्धं महाबल ५१।
त्वया यदुक्तं बालस्त्वं गत्वा क्रीडनकं कुरु ।
तन्मे पश्य महाराज क्रीडनं रणमूर्धनि ५२।
शेष उवाच।
इत्युक्त्वा सगुणं चापं विधाय सुभुजां गजः ।
शराणां शतमाधत्त प्रतापाग्र्यस्य वक्षसि ५३।
संधाय बाणशतकं शंखं दध्मौ प्रतापवान् ।
तेन शंखनिनादेन कातराणां भयं ह्यभूत् ५४।
ताडयामास हृदये बाणानां शतकेन सः ।
प्रतापाग्र्यः प्रचिच्छेद लघुहस्तः सुपर्वणः ५५।
स बाणच्छेदनं दृष्ट्वा कुपितो व्यसृजच्छरान् ।
कंकपक्षान्वितांस्तीक्ष्णभल्लान्राजात्मजो बली ५६।
आकाशे भुवि मध्ये च बाणा ददृशिरेऽञ्चिताः ।
स्वनामचिह्नितास्तीक्ष्णधारापातसुशोभिताः ५७।
शरास्तद्बाहु हृदये लग्ना वह्निकणान्बहून् ।
सृजंतः कुर्वते सैन्यदाहनं तदभून्महत् ५८।
प्रतापाग्र्यः प्रकुपितस्तिष्ठतिष्ठेति च ब्रुवन् ।
शरेण दशसंख्येन ताडयामास मूर्धनि ५९।
ते बाणा राजपुत्रस्य ललाटे परिनिष्ठिताः ।
विराजंते स्म च मुने दशशाखास्तरोरिव ६०।
तेन बाणप्रहारेण विव्यथेन महामनाः ।
यष्टिकाप्रहतो यद्वत्कुंजरः सप्तवर्षकः ६१।
बाणान्धनुषि संधाय मुमोच त्रिशताञ्छुभान् ।
सुवर्णपुंखरचितान्महाकालानलोपमान् ६२।
ते बाणास्तु प्रतापाग्र्य वक्षो भित्त्वा गता ह्यधः ।
शोणिताक्ता यथा रामचंद्र भक्ति पराङ्मुखाः ६३।
प्रतापाग्र्यः प्रकुपितः शरान्मुंचन्सहस्रशः ।
अकरोद्विरथं सूनुं सुबाहोस्तत्क्षणाद्द्रुतम् ६४।
चतुर्भिश्च तुरो वाहान्द्वाभ्यां ध्वजमशातयत् ।
एकेन सारथेः कायाच्छिरो मह्यामपातयत् ६५।
चतुर्भिस्ताडयामास तं सूनुं नृपतेः पुनः ।
तत्क्षणाच्चापमेकेन गुणयुक्तं तु चिच्छिदे ६६।
सोऽन्यरथं समारुह्य हयरत्नसुशोभितम् ।
धनुः करे समादाय सज्यं चक्रे महामनाः ६७।
प्रत्युवाच प्रतापाग्र्यं त्वया विक्रांतमद्भुतम् ।
पश्येदानीं पराक्रांतिं धनुषो मम सद्भट ६८।
एवमुक्त्वा तु दमनो बाणान्दश समाददे ।
चतुर्भिश्चतुरो वाहान्निनाय यमसादनम् ६९।
चतुर्भिस्तिलशः कृत्तो रथश्चक्रसमन्वितः ।
एकेन हृदि विव्याध बाणेनैकेन सारथिम् ७०।
जगर्ज शंखमापूर्य शंखशब्दसमन्वितः ।
तत्कर्म पूजयामास साधु वीर महाबल ७१।
इति विक्रांतमालोक्य प्रतापाग्र्यो रुषान्वितः ।
अन्यं रथं समास्थाय ययौ योद्धुं नृपात्मजम् ७२।
उवाच वीर पश्य त्वं मम विक्रांतमद्भुतम् ।
इत्युक्त्वाशु मुमोचौघाञ्छराणां शितपर्वणाम् ७३।
शराः सर्वत्र दृश्यंते कुंजरेषु हयेषु च ।
परब्रह्मेव सर्वत्र व्याप्ताश्चांतरगोचराः ७४।
तं राजपुत्रं शितबाणकोटिभि -।
र्व्याप्तं विधायाशु जगर्ज विक्रमी ।
संहर्षयन्स्वीयगणान्परान्महान् ।
कुर्वन्हृदा शून्यतमान्गतासुकान् ७५।
स राजपुत्रः शितसायकव्रजैः ।
संपूर्णमात्मानमवेक्ष्य रोषितः ।
जग्राह शस्त्राणि दुरंतविक्रमो ।
धनुश्च धुन्वन्भुजदंडयोर्महान् ७६।
चकर्त सर्वाण्यस्त्राणि शस्त्राणि च महाबलः ।
रोषताम्रेक्षणो मुंचञ्छरान्वैरिविदारिणः ७७।
तच्छस्त्रजालं निर्धूय राजपुत्रो जगाद तम् ।
क्षमस्वैकं प्रहारं मे यदि शूरोसि मारिष ७८।
यद्यनेन भवंतं वै रथाच्चेत्पातयामि न ।
प्रतिज्ञां शृणु मे वीर मम गर्वेण निर्मिताम् ७९।
वेदं निंदंति ये मत्ता हेतुवादविचक्षणाः ।
तेषां पापं ममैवास्तु नरकार्णवमज्जकम् ८०।
इत्युक्त्वा बाणमासाद्य कोदंडे कालसन्निभम् ।
ज्वालामालाकुलं तीक्ष्णं निषंगादुद्धृतं वरम् ८१।
स मुक्तो नृपवर्येण हृदि लक्ष्यीकृतः शरः ।
जगाम तरसा तं वै कालानलसमप्रभः ८२।
प्रतापाग्र्यः शरं दृष्ट्वा स्वपातनसमुद्यतम् ।
बाणान्धनुष्यथाधत्त शरच्छेदायवै शितान् ८३।
स बाणः सर्वबाणांस्तांश्छिंदन्मध्यत एव हि ।
जगाम वै प्रतापाग्र्यहृदयं धैर्यसंयुतम् ८४।
संलग्नो हृदि नालीकः प्रविवेश तदंतरम् ।
राजाकृतप्रहारस्तु पपात धरणीतले ८५।
मूर्च्छितं चेतनाहीनं रथोपस्थाद्गतं भुवि ।
सारथिस्तं समादायापोवाह रणमंडलात् ८६।
हाहाकारोमहानासीद्बलं भग्नं गतं ततः ।
यत्र शत्रुघ्ननामासौ वीरकोटिपरीवृतः ८७।
राजात्मजो जयं प्राप्य प्रतापाग्र्यं विजित्य सः ।
प्रतीक्षां तु चकारास्य शत्रुघ्नस्य च भूपतेः ८८।
इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे राजपुत्रयुद्धकथनंनाम त्रयोविंशोऽध्यायः २३ ।