पद्मपुराणम्/खण्डः ५ (पातालखण्डः)/अध्यायः ०२९

← अध्यायः ०२८ पद्मपुराणम्
अध्यायः ०२९
वेदव्यासः
अध्यायः ०३० →

शेष उवाच।
ते तु तातवचः श्रुत्वा हर्षिताः संप्रहारिणः ।
तथेत्यूचुर्महाराजं रामदर्शनलालसम् १।
पुत्रा ऊचुः।
राजन्भवत्पदांभोजान्नान्यं जानीमहे वयम् ।
यत्तव स्वांततो जातं तद्भवत्वद्य वेगतः २।
अश्वोऽयं नीयतां तत्र सितचामरभूषितः ।
रत्नमालातिशोभाढ्यश्चंदनादिकचर्चितः ३।
राज्यमाज्ञाफलं स्वामिन्कोशा बहुसमृद्धयः ।
वासांसि सुमहार्हाणि सूक्ष्माणि सुगुणानि च ४।
चंदनं चंद्रकं चैव वाजिनः सुमनोहराः ।
हस्तिनस्तु मदोद्धूता रथाः कांचनकूबराः ५।
विचित्रतरवर्णादि नानाभूषणभूषिताः ।
दास्यः शतसहस्रं च दासाश्च सुमनोरमाः ६।
मणयः सूर्यसंकाशा रत्नानि विविधानि च ।
मुक्ताफलानि शुभ्राणि गजकुंभभवानि च ७।
विद्रुमाः शतसाहस्रा यद्यद्वस्तुमहोदयम् ।
तत्सर्वं रामचंद्राय देहि राजन्महामते ८।
सुतानस्मान्किंकरान्नः सर्वानर्पय भूपते ।
कथं न कुरुषेराजंस्तदधीनं नृपासनम् ९।
शेष उवाच।
इति पुत्रवचः श्रुत्वा हर्षितोऽभून्महीपतिः ।
उवाच च सुतान्वीरान्स्ववाक्यकरणोद्यतान् १०।
राजोवाच।
आनयंतु हयं सर्वे सन्नद्धाः शस्त्रपाणयः ।
नानारथपरीवारास्ततो यास्ये नृपं प्रति ११।
शेष उवाच।
इति राज्ञोवचः श्रुत्वा विचित्रो दमनस्तथा ।
सुकेतुः समरे शूरा जग्मुस्तस्याज्ञयोद्यताः १२।
ते गत्वाथ पुरीं शूरा वाजिनं सुमनोरमम् ।
सितचामरसंयुक्तं स्वर्णपत्राद्यलंकृतम् १३।
रत्नमालाविभूषाढ्यं चित्रपत्रेणशोभितम् ।
विचित्रमणिभूषाढ्यं मुक्ताजालस्वलंकृतम् १४।
रज्ज्वा धृतं महावीरैः पूर्वतः पृष्ठतो भटैः ।
महाशस्त्रास्त्रसंयुक्तैः सर्वशोभासमन्वितैः १५।
सितातपत्रमस्योच्चैर्भाति मूर्धनि वाजिनः ।
सुचामरद्वयं यस्य ध्रियते पुरतो मुहुः १६।
कृष्णागर्वादिधूपैश्च धूपितं वायुवेगिनम् ।
राज्ञः पुरो निनायाश्वं हयमेधस्य सत्क्रतोः १७।
तमानीतं हयं दृष्ट्वा रत्नमालाविभूषितम् ।
मनोजवं कामरूपं जहर्ष मतिमान्नृपः १८।
जगाम पद्भ्यां शत्रुघ्नं राजचिह्नाद्यलंकृतः ।
स्वपुत्रपौत्रैः संयुक्तो राजा परमधार्मिकः १९।
ययौ कर्तुं धनानां स सद्व्ययं चलगामिनाम् ।
एतद्विनश्वरं मत्वा दुःखदं सक्तचेतसाम् २०।
शत्रुघ्नं स ददर्शाथ सितच्छत्रेण शोभितम् ।
चामरैर्वीज्यमानञ्च सेवकैः पुरतः स्थितैः २१।
सुमतिं परिपृच्छंतं रामचंद्रकथानकम् ।
भयवार्ताविनिर्मुक्तं वीरशोभास्वलंकृतम् २२।
वीरैः कोटिभिराकीर्णं वाजिपालनकांक्षिभिः ।
वानराणां सहस्रैश्च समंतात्परिवारितम् २३।
दृष्ट्वा शत्रुघ्नचरणौ प्रणनाम सपुत्रकः ।
धन्योऽहमिति संहृष्टो वदन्रामैकमानसः २४।
शत्रुघ्नस्तं प्रणयिनं दृष्ट्वा राजानमुद्भटम् ।
उत्थायासनतः सर्वैर्भटैर्दोर्भ्यां स सस्वजे २५।
दृढं संपूज्य राजा तं शत्रुघ्नं परवीरहा ।
उवाच हर्षमापन्नो गद्गदस्वरया गिरा २६।
सुबाहुरुवाच।
अद्य धन्योस्मि ससुतः सकुटुंबः सवाहनः ।
यद्युष्मच्चरणौ द्रक्ष्ये नृपकोटिभिरीडितौ २७।
अज्ञानिना सुतेनायं गृहीतो वाजिनां वरः ।
दमनेनानयं त्वस्य क्षमस्व करुणानिधे २८।
न जानाति रघूत्तंसं सर्वदेवाधिदैवतम् ।
लीलया विश्वस्रष्टारं हंतारमपि पालकम् २९।
इदं राज्यं समृद्धांगं समृद्धबलवाहनम् ।
इमे कोशा धनैः पूर्णा इमे पुत्रा इमे वयम् ३०।
सर्वे वयं रामनाथास्त्वदाज्ञा प्रतिपालकाः ।
गृहाण सर्वं सफलं न मेऽस्ति क्वचिदुन्मतम् ३१।
क्वासौ हनूमान्रामस्य चरणांभोजषट्पदः ।
यत्प्रसादादहं प्राप्स्ये राजराजस्य दर्शनम् ३२।
साधूनां संगमे किं किं प्राप्यते न महीतले ।
यत्प्रसादादहं मूढो ब्रह्मशापमतीतरम् ३३।
दृष्ट्वा त्वद्य महाराजं पद्मपत्रनिभेक्षणम् ।
प्राप्स्यामि जन्मनः सर्वं फलं दुर्लभमत्र च ३४।
मम तावद्गतं चायुर्बहुरामवियोगिनः ।
स्वल्पमुर्वरितं तत्र कथं द्रक्ष्ये रघूत्तमम् ३५।
मह्यं दर्शयतं रामं यज्ञकर्मविचक्षणम् ।
यदंघ्रिरजसापूता शिलाभूता मुनिप्रिया ३६।
काकः परं पदं प्राप्तो यद्बाणस्पर्शनात्खगः ।
अनेके यस्य वक्त्राब्जं वीक्ष्य संख्ये पदं गताः ३७।
ये त्वस्य रघुनाथस्य नाम गृह्णंति सादराः ।
ते यांति परमं स्थानं योगिभिर्यद्विचिंत्यते ३८।
धन्यायोध्याभवा लोका ये राममुखपंजम् ।
स्वलोचनपुटैः पीत्वा सुखं यांति महोदयम् ३९।
इति संभाष्य नृपतिं वाहं राज्यं धनानि च ।
सर्वं समर्प्य चावोचत्किंकरोस्मि महीपते ४०।
इति वाक्यं समाकर्ण्य राज्ञः परपुरंजयः ।
प्रत्युवाचेति तं भूपं वाग्मी वाक्यविशारदः ४१।
शत्रुघ्न उवाच।
कथं राजन्निदं ब्रूषे त्वं वृद्धो मम पूजितः ।
सर्वं त्वदीयं त्वद्राज्यं दमनो विदधात्वयम् ४२।
क्षत्त्रियाणामिदं कृत्यं यत्संग्रामविधायकम् ।
सर्वं राज्यं धनं चेदं प्रतियातु ममाज्ञया ४३।
यथा मे रघुनाथस्तु पूज्यो वाङ्मनसा सदा ।
तथा त्वमपि मत्पूज्यो भविष्यसि महीपते ४४।
भवान्सज्जो भवत्वद्य हयस्यानुगमं प्रति ।
सन्नद्धः कवची खड्गी गजाश्वरथसंयुतः ४५।
इति वाक्यं समाकर्ण्य शत्रुघ्नस्य महीपतिः ।
पुत्रं राज्येऽभिषेच्यैव शत्रुघ्नेन सुपूजितः ४६।
महारथैः परिवृतो निजं पुत्रं रणांगणे ।
पुष्कलेन हतं भूपः संस्कृत्य विधिपूर्वकम् ४७।
क्षणं शुशोच तत्त्वज्ञो लोकदृष्ट्या महारथः ।
ज्ञानेनानाशयच्छोकं रघुनाथमनुस्मरन् ४८।
सज्जीभूतो रथे तिष्ठन्महासैन्यसमावृतः ।
आजगाम स शत्रुघ्नं महारथिपुरस्कृतः ४९।
राजा तमागतं दृष्ट्वा सर्वसैन्यसमन्वितम् ।
गंतुं चकार धिषणां हयवर्यस्य पालने ५०।
सोऽश्वो विमोचितस्तेन भाले पत्रेण चिह्नितः ।
वामावर्तं भ्रमन्प्रायात्पौर्वाञ्जनपदान्बहून् ५१।
तत्रतत्रत्य भूपालैर्महाशूराभिपूजितैः ।
प्रणतिः क्रियते तस्य न कोपि तमगृह्णत ५२।
केचिद्वासांसि चित्राणि केचिद्राज्यं स्वकं महत् ।
केचिद्धनं जनं केचिदानीय प्रणमंति तम् ५३।
इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे शत्रुघ्नस्य सुबाहुना सह निर्याणंनाम एकोनत्रिंशत्तमोऽध्यायः २९ ।