पद्मपुराणम्/खण्डः ५ (पातालखण्डः)/अध्यायः ०३०

← अध्यायः ०२९ पद्मपुराणम्
अध्यायः ०३०
वेदव्यासः
अध्यायः ०३१ →

शेष उवाच।
अथ तेजःपुरं प्राप्तस्तुरगः पत्रशोभितः ।
यस्यां पालयते राजा प्रजाः सत्येन सत्यवान् १।
अथ कोटिपरीवारो रघुनाथानुजस्ततः ।
हयानुगो ययौ तस्य पुरतः पुरधर्षणः २।
तद्दृष्ट्वा नगरं रम्यं चित्रप्राकारशोभितम् ।
कांचनैः कलशैस्तत्र परितः प्रतिभासितम् ३।
देवायतनसाहस्रैः सर्वतश्च विराजितम् ।
यतीनां तु मठास्तत्र शोभंते यतिपूरिताः ४।
वहत्यत्र महादेवी शिखिलोचनमूर्धगा ।
हंसकारंडवाकीर्णामुनिवृंदनिषेविता ५।
ब्राह्मणानां प्रत्यगारमग्निहोत्रभवः पुनः ।
धूमस्तत्र पुनात्यंग पातकाप्लुतमानसान् ६।
उवाच सुमतिं राजा शत्रुघ्नः शत्रुतापनः ।
तत्पुरप्रेक्षणोद्भूतहर्षविस्मितमानसः ७।
शत्रुघ्न उवाच।
मंत्रिन्कथय कस्येदं पुरं मे दृष्टिगोचरम् ।
करोति मानसाह्लादं धर्मेण प्रतिपालितम् ८।
शेष उवाच।
इति वाक्यं समाकर्ण्य शत्रुघ्नस्य महीपतेः ।
उवाच सुमतिः सर्वं यथातथमनुद्धतम् ९।
सुमतिरुवाच।
शृणुष्वावहितः स्वामिन्वैष्णवस्य कथाः शुभाः ।
याः श्रुत्वा मुच्यते पापाद्ब्रह्महत्यासमादपि १०।
जीवन्मुक्तो वरीवर्ति रामांघ्र्यंबुजषट्पदः ।
सत्यवान्यज्ञयज्ञांग ज्ञाता कर्ताऽविता महान् ११।
धेनुं प्रसाद्य बहुभिर्व्रतैर्यं प्राप तत्पिता ।
ऋतंभराख्यो जगति ख्यातः परमधार्मिकः १२।
गौः प्रसन्ना ददौ पुत्रमनेकगुणसंस्कृतम् ।
सत्यवंतं सुशोभाढ्यं तं जानीहि नृपोत्तमम् १३।
शत्रुघ्न उवाच।
को वा ऋतंभरो राजा किमर्थं धेनुपूजनम् ।
कथं प्राप्तः सुतस्तस्य वैष्णवो विष्णुसेवकः १४।
सर्वमेतत्समाचक्ष्व वैष्णवस्य कथानकम् ।
श्रुतं हरति जंतूनां महापातकपर्वतम् १५।
शेष उवाच।
इति वाक्यं समाकर्ण्य शत्रुघ्नस्य महार्थकम् ।
कथयामास विशदं तदुत्पत्तिकथानकम् १६।
ऋतंभरो नरपतिरनपत्यः पुराऽभवत् ।
कलत्राणि बहून्यस्य न पुत्रं प्राप तेषु वै १७।
तदा जाबालिनामानं मुनिं दैवादुपागतम् ।
प्रपच्छ कुशलोद्युक्तः सपुत्रोत्पत्तिकारणम् १८।
ऋतंभर उवाच।
स्वामिन्वंध्यस्य मे ब्रूहि पुत्रोत्पत्तिकरं वचः ।
यत्कृत्वा जायतेऽपत्यं मम वंशधरं वरम् १९।
तज्ज्ञात्वा भवतो भव्यं प्रकुर्यां निश्चितं वचः ।
दानं व्रतं वा तीर्थं वा मखं वा मुनिसत्तम २०।
इति राज्ञोवचः श्रुत्वा जगाद मुनिसत्तमः ।
सुतोत्पत्तिकरं वाक्यं प्रणतस्य सुतार्थिनः २१।
अपत्यप्राप्तिकामस्य संत्युपायास्त्रयः प्रभो ।
विष्णोः प्रसादो गोश्चापि शिवस्याप्यथवा पुनः २२।
तस्मात्त्वं कुरु वै पूजां धेनोर्देवतनोर्नृप ।
यस्याः पुच्छे मुखे शृंगे पृष्ठे देवाः प्रतिष्ठिताः २३।
सा तुष्टा दास्यति क्षिप्रं वांछितं धर्मसंयुतम् ।
एवं विदित्वा गोपूजां विधेहि त्वमृतंभर २४।
यो वै नित्यं पूजयति गां गेहे यवसादिभिः ।
तस्य देवाश्च पितरो नित्यं तृप्ता भवंति हि २५।
यो वै गवाह्निकं दद्यान्नियमेन शुभव्रतः ।
तेन सत्येन तस्य स्युः सर्वे पूर्णा मनोरथाः २६।
तृषिता गौर्गृहे बद्धा गेहे कन्या रजस्वला ।
देवता च सनिर्माल्या हंति पुण्यं पुराकृतम् २७।
यो वै गां प्रतिषिद्ध्येत चरंतीं स्वं तृणं नरः ।
तस्य पूर्वे च पितरः कंपंते पतनोन्मुखाः २८।
यो वै यष्ट्या ताडयति धेनुं मर्त्यो विमूढधीः ।
धर्मराजस्य नगरं स याति करवर्जितः २९।
यो वै दंशान्वारयति तस्य पूर्वे ह्यधोगताः ।
नृत्यंति मत्सुतो ह्यस्मांस्तारयिष्यति भाग्यवान् ३०।
अत्रैवोदाहरंतीममितिहासं पुरातनम् ।
जनकस्य पुरावृत्तं धर्मराजपुरेऽद्भुतम् ३१।
एकदा जनको राजा योगेनासून्समत्यजत् ।
तदा विमानं संप्राप्तं किंकिणीजालभूषितम् ३२।
तदारुह्य गतो राजा सेवकैरूढदेहवान् ।
मार्गे जगाम धर्मस्य संयमिन्याः पुरोंऽतिके ३३।
तदा नरककोटीषु पीड्यंते पापकारिणः ।
जनकस्यांगपवनं प्राप्य सौख्यं प्रपेदिरे ३४।
निरये दाहजापीडा जातैषां सुखकारिणी ।
महादुःखं तदा नष्टं जनकस्यांगवायुना ३५।
तदा तं निर्गतं दृष्ट्वा जंतवः पापपीडिताः ।
अत्यंतं चुक्रुशुर्भीतास्तद्वियोगमनिच्छवः ३६।
ऊचुस्ते करुणां वाचं मा गच्छ सुकृतिन्नितः ।
त्वदंगवायुसंस्पर्शात्सुखिनः स्यामपीडिताः ३७।
इति वाक्यं समाकर्ण्य राजा परमधार्मिकः ।
मानसे चिंतयामास करुणापूरपूरितः ३८।
चेन्मत्तः प्राणिनां सौख्यं भवेदिह तदा पुनः ।
अत्रैव च पुरे स्थास्ये स्वर्ग एष मनोरमः ३९।
एवं कृत्वा नृपस्तस्थौ तत्रैव निरयाग्रतः ।
विदधत्प्राणिनां सौख्यमनुकंपितमानसः ४०।
तत्र धर्मस्तु संप्राप्तो निरयद्वारि दुःखदे ।
कारयन्यातनास्तीव्रा नानापातककारिणाम् ४१।
तदा ददर्श राजानं जनकं द्वारिसंस्थितम् ।
विमानेन महापुण्यकारिणं दययायुतम् ४२।
तमुवाच प्रेतपतिर्जनकं सहसन्गिरा ।
राजन्कुतस्त्वं संप्राप्तः सर्वधर्मशिरोमणिः ४३।
एतत्स्थानं पातकिनां दुष्टानां प्राणघातिनाम् ।
नायांति पुरुषा भूप त्वादृशाः पुण्यकारिणः ४४।
अत्रायांति नरास्ते वै ये परद्रोहतत्पराः ।
परापवादनिरताः परद्रव्यपरायणाः ४५।
यो वै कलत्रं धर्मिष्ठं निजसेवापरायणम् ।
अपराधादृते जह्यात्सनरोऽत्र समाव्रजेत् ४६।
मित्रं वञ्चयते यस्तु धनलोभेन लोभितः ।
आगत्यात्र नरः पीडां मत्तः प्राप्नोति दारुणाम् ४७।
यो रामं मनसा वाचा कर्मणा दंभतोऽपि वा ।
द्वेषाद्वाचोपहासाद्वा न स्मरत्येव मूढधीः ४८।
तं बध्नामि पुनस्त्वेषु निक्षिप्य श्रपयामि च ।
यैः स्मृतो न रमानाथो नरकक्लेशवारकः ४९।
तावत्पापं मनुष्याणामंगेषु नृप तिष्ठति ।
यावद्रामं न रसना गृणाति कलि दुर्मतेः ५०।
महापापकरा राजन्ये भवंति महामते ।
तानानयंति मद्भृत्यास्त्वादृशान्द्रष्टुमक्षमाः ५१।
तस्माद्गच्छ महाराज भुंक्ष्व भोगाननेकशः ।
विमानवरमारुह्य भुंक्ष्व पुण्यमुपार्जितम् ५२।
इति वाक्यं समाकर्ण्यध र्मराजस्य तत्पतेः ।
उवाच धर्मराजानं करुणापूरपूरितः ५३।
जनक उवाच।
अहं गच्छामि नो नाथ जीवानामनुकम्पया ।
मदंगवायुना ह्येते सुखं प्राप्ताः स्म संस्थिताः ५४।
एतान्मुंचसि चेद्राजन्सर्वान्वै निरयस्थितान् ।
ततो गच्छामि सुखितः स्वर्गं पुण्यजनाश्रितम् ५५।
जाबालिरुवाच।
इति वाक्यमथाश्रुत्य जनकं प्रत्युवाच सः ।
प्रत्येकं निर्दिशञ्जीवान्निरयस्थाननेकशः ५६।
धर्म उवाच।
अयं मित्र कलत्रं वै विश्वस्तमनुजग्मिवान् ।
तस्मादेनं लोहशंकौ वर्षायुतमपीपचम् ५७।
पश्चादेनं सूकराणां योनौ निक्षिप्य दोषिणम् ।
मानुषेष्ववतार्योऽयं षंढचिह्नेन चिह्नितः ५८।
अनेन परदाराश्च बलादालिगिता मुहुः ।
तस्मादयं पच्यतेऽत्र रौरवे शतहायनम् ५९।
अयं तु परकीयं स्वं मुषित्वा बुभुजे कुधीः ।
तस्मादस्य करौ छित्त्वा पचेयं पूयशोणिते ६०।
अयं सायंतने प्राप्तमतिथिं क्षुधयार्दितम् ।
वाण्यापि नाकरोत्तस्य पूजनं स्वागतं न च ६१।
तस्मादयं पातनीयस्तामिस्रेंधनपूरिते ।
भ्रमरैः पीडितो यातु यातनां शतहायनम् ६२।
अयं तावत्परस्योच्चैर्निंदां कुर्वन्नलज्जितः ।
अयमप्यशृणोत्कर्णौ प्रेरयन्बहुशस्तु ताम् ६३।
तस्मादिमावंधकूपे पतितौ दुःखदुःखितौ ।
अयं मित्रध्रुगुद्विग्नः पच्यते रौरवे भृशम् ६४।
तस्मादेतान्पापभोगान्कारयित्वा विमोचये ।
त्वं गच्छ नरशार्दूल पुण्यराशिविधायकः ६५।
जाबालिरुवाच।
एवं स निर्दिशञ्जीवांस्तूष्णीमासाघकारिणः ।
प्रोवाच रामभक्तोऽसौ करुणापूरितेक्षणः ६६।
जनक उवाच।
कथं निरयनिर्मुक्तिर्जीवानां दुःखिनां भवेत् ।
तदाशु कथय त्वं वै यत्कृत्वा सुखमाप्नुयुः ६७।
धर्म उवाच।
नैभिराराधितो विष्णुर्नैभिस्तस्य कथाः श्रुताः ।
कथं निरयनिर्मुक्तिर्भवेद्वै पापकारिणाम् ६८।
यदि त्वं मोचयस्येतान्महापापकरानपि ।
तर्ह्यर्पय महाराज पुण्यं तत्कथयामि यत् ६९।
एकदा प्रातरुत्थाय शुद्धभावेन चेतसा ।
ध्यातः श्रीरघुनाथोऽसौ महापापहराभिधः ७०।
रामरामेति यच्चोक्तं त्वया शुद्धेन चेतसा ।
तत्पुण्यमर्पयैतेभ्यो येन स्यान्निरयाच्च्युतिः ७१।
जाबालिरुवाच।
एतच्छ्रुत्वा वचस्तस्य धर्मराजस्य धीमतः ।
पुण्यं ददौ महाराज आजन्मसमुपार्जितम् ७२।
यदा जन्मकृतैः पुण्यै रघुनाथार्चनोद्भवैः ।
एतेषां निरयान्मुक्तिर्भवत्वत्र मनोरमा ७३।
एवं कथयतस्तस्य जीवा निरयसंस्थिताः ।
तत्क्षणान्निरयान्मुक्ता जाता दिव्यवपुर्धराः ७४।
ऊचुस्ते जनकं राजंस्त्वत्प्रसादाद्वयं क्षणात् ।
दुःखदान्निरयान्मुक्ता यास्यामः परमं पदम् ७५।
तान्दृष्ट्वा सूर्यसंकाशान्नरान्निरयनिःसृतान् ।
तुतोष चित्ते सुभृशं सर्वभूतदयापरः ७६।
ते सर्वे प्रययुर्लोकं दिवं देवैरलंकृतम् ।
जनकं तु प्रशंसंतो महाराजं दयानिधिम् ७७।
इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे सत्यवदाख्याने जनकेन नरकस्थप्राणिमोचनंनाम त्रिंशोऽध्यायः ३० ।