पद्मपुराणम्/खण्डः ५ (पातालखण्डः)/अध्यायः ०५२

← अध्यायः ०५१ पद्मपुराणम्
अध्यायः ०५२
वेदव्यासः
अध्यायः ०५३ →

शेष उवाच।
चंपकं पतितं दृष्ट्वा सुरथः क्षत्रियो बली ।
पुत्रदुःखपरीतांगो जगाम स्यंदने स्थितः १।
कपींद्रमाजुहावाथ सुरथः कोपसंयुतः ।
निःश्वासवेगं संमुंचन्महाबलसमन्वितः २।
आह्वयानं नृपं दृष्ट्वा निजं वीरः कपीश्वरः ।
जगाम तं महावीरो महावेगसमन्वितः ३।
तमागतं हनूमंतं तृणीकुर्वं तमुद्भटान् ।
उवाच सुरथो राजा मेघगंभीरसुस्वरः ४।
सुरथ उवाच।
धन्योसि कपिवर्य त्वं महाबलपराक्रमः ।
येन राममहत्कृत्यं कृतं राक्षसके पुरे ५।
त्वं रामचरणस्यासि सेवको भक्तिसंयुतः ।
त्वया वीरेण मत्पुत्रः पातितश्चंपको बली ६।
इदानीं त्वां तु संबध्य गंतास्मि नगरेमम ।
यत्नात्तिष्ठ कपीशेशसत्यमुक्तं मया स्मृतम् ७।
इति भाषितमाकर्ण्य सुरथस्य कपीश्वरः ।
उवाच धीरया वाण्या रणे वीरैकभूषिते ८।
हनूमानुवाच।
त्वं रामचरणस्मारी वयं रामस्य सेवकाः ।
बध्नासि चेन्मां प्रसभं मोचयिष्यति मत्प्रभुः ९।
कुरु वीर भवत्स्वांतस्थितं सत्यं प्रतिश्रुतम् ।
रामं स्मरन्वै दुःखांतं याति वेदा वदंत्यदः १०।
शेष उवाच।
इति ब्रुवंतं सुरथः प्रशस्य पवनात्मजम् ।
विव्याध बाणैर्बहुभिः शितैः शाणेन दारुणैः ११।
तान्मुक्तानगणय्याथ बाणाञ्छोणितपातिनः ।
करे जग्राह कोदंडं सज्यं शरसमन्वितम् १२।
गृहीत्वा करयोश्चापं बभंज कुपितः कपिः ।
चीत्कुर्वंस्त्रासयन्वीरान्नखैर्दीर्णान्सृजन्भटान् १३।
तेन भग्नं धनुर्दृष्ट्वा स्वकीयं गुणसंयुतम् ।
अपरं धनुरादत्त महद्गुणविशोभितम् १४।
तच्चापि जगृहे रोषात्कपिश्चापं बभंज तत् ।
अन्यच्चापं समादत्त तद्बभंज महाबलः १५।
तस्मिंश्चापे प्रभग्नेऽपि सोऽन्यद्धनुरुपाददत् ।
सोपि चापं बभंजाशु महावेगसमन्वितः १६।
एवं राज्ञस्तु चापानामशीतिर्विदलीकृता ।
क्षणे क्षणे महारोषात्कुर्वन्नादाननेकधा १७।
तदात्यंतं प्रकुपितः शक्तिमुग्रामथाददे ।
शक्त्या स ताडितो वीरः पपात क्षणमुत्सुकः १८।
उत्थाय स्यंदनं राज्ञो जग्राह कुपितो भृशम् ।
उड्डीनस्तं गृहीत्वा तु समुद्रमतिवेगतः १९।
तमुड्डीनं समालक्ष्य सुरथः परवीरहा ।
ताडयामास परिघैर्हृदि मारुतिमुद्यतम् २०।
मुक्तस्तेन रथो दूराच्चूर्णीभूतोऽभवत्क्षणात् ।
सोऽन्यरथं समारुह्य ययौ वेगात्समीरजम् २१।
हनूमांस्तद्रथं पुच्छे संवेष्ट्य प्रधनांगणे ।
हयसारथिसंयुक्तं बभंज सपताकिनम् २२।
अन्यं रथं समास्थाय ययौ राजा महाबलः ।
बभंज तं रथं वेगान्मारुतिः कुपितांगकः २३।
भग्नं तं स्यंदनं वीक्ष्य सुरथोऽन्यसमाश्रितः ।
भग्नः स तेन सहसा हयसारथिसंयुतः २४।
एवमेकोनपंचाशद्रथा भग्ना हनूमता ।
तत्कर्म वीक्ष्य राजापि विसिस्माय ससैनिकः २५।
कुपितः प्राह कीशेंद्रं धन्योसि पवनात्मज ।
पराक्रमन्निदं कर्म न कर्ता न करिष्यति २६।
क्षणमेकं प्रतीक्षस्व यावत्सज्यं धनुस्त्वहम् ।
करोमि पवनोद्भूत रामपादाब्जषट्पद २७।
इत्युक्त्वा चापमात्तज्यं कृत्वा रोषपरिप्लुतः ।
अस्त्रं पाशुपतं नाम संदधे शर उल्बणे २८।
ततो भूताश्च वेतालाः पिशाचा योगिनीमुखाः ।
प्रादुर्बभूवुः सहसा भीषयंतः समीरजम् २९।
कपिः पाशुपतैरस्त्रैर्बद्धो लोकैरभीक्षितः ।
हाहेति च वदंत्येते यावत्तावत्समीरजः ३०।
स्मृत्वा रामं स्वमनसा त्रोटयामास तत्क्षणात् ।
स मुक्तगात्रः सहसा युयुधे सुरथं नृपम् ३१।
तं मुक्तगात्रं संवीक्ष्य सुरथः परमास्त्रवित् ।
महाबलं मन्यमानो ब्राह्ममस्त्रं समाददे ३२।
मारुतिर्ब्राह्ममस्त्रं तु निजगाल हसन्बली ।
तन्निगीर्णं नृपो दृष्ट्वा रामं सस्मार भूमिपः ३३।
स्मृत्वा दाशरथिं रामं रामास्त्रं स्वशरासने ।
संधाय तं जगादेदं बद्धोसि कपिपुंगव ३४।
श्रुत्वा तत्प्रक्रमेद्यावत्तावद्बद्धो रणांगणे ।
राज्ञा रामास्त्रतो वीरो हनूमान्रामसेवकः ३५।
उवाच भूपं हनुमान्किंकरोमि महीभुज ।
मत्स्वाम्यस्त्रेण संबद्धो नान्येन प्राकृतेन वै ३६।
तन्मानयामिभूपालनयस्वस्वपुरंप्रति ।
मोचयिष्यति मत्स्वामी आगत्य स दयानिधिः ३७।
बद्धे समीरजे क्रुद्धः पुष्कलो भूमिपं ययौ ।
तं पुष्कलं समायांतं विव्याध वसुभिः शरैः ३८।
अनेकबाणसाहस्रैर्निजघान नृपं बली ।
राज्ञानेके शरास्तस्य च्छिन्नाः प्रधनमंडले ३९।
एवं समरसंक्रुद्धे सुरथे पुष्कले तथा ।
बाणैर्व्याप्तं जगत्सर्वं स्थास्नुभूयश्चरिष्णु च ४०।
तेषां रणोद्यमं वीक्ष्य मुमुहुः सुरसैनिकाः ।
मानवानां तु का वार्ता क्षणात्त्रासं समीयुषाम् ४१।
अस्त्रप्रत्यस्त्रविगमैर्महामंत्रपरिस्तुतैः ।
बभूव तुमुलं युद्धं वीराणां रोमहर्षणम् ४२।
तदा प्रकुपितो राजा नाराचं तु समाददे ।
छिन्नः स तु क्रुधा मुक्तैर्वत्सदंतैः सभारतैः ४३।
छिन्ने तस्मिञ्छरे राजा कोपादन्यं समाददे ।
छिनत्ति यावत्स शरं तावल्लग्नो हृदि क्षतः ४४।
मूर्च्छां प्राप महातेजाः पुष्कलो महदद्भुतम् ।
युद्धं विधाय सुमहद्राज्ञा सह महामतिः ४५।
पुष्कले पतिते राजा शत्रुघ्नः शत्रुतापनः ।
सुरथं प्रति संक्रुद्धो जगाम स्यंदनस्थितः ४६।
उवाच सुरथं भूपं रामभ्राता महाबलः ।
त्वया महत्कृतं कर्म यद्बद्धः पवनात्मजः ४७।
पुष्कलोऽपि महावीरस्तथान्ये मम सैनिकाः ।
पातिताः प्रधने घोरे महाबलपराक्रमाः ४८।
इदानीं तिष्ठ मद्वीरान्पातयित्वा रणांगणे ।
कुत्र यास्यसि भूमीश सहस्व मम सायकान् ४९।
इत्थमाश्रुत्य वीरस्य भाषितं सुरथो बली ।
जगाद रामपादाब्जं दधच्चेतसि शोभनम् ५०।
मया ते पातिताः संख्ये वीरा मारुतजोन्मुखाः ।
इदानीं पातयिष्यामि त्वामपि प्रधनांगणे ५१।
स्मरस्व रामं यो वीरः स्वमागत्य प्ररक्षति ।
अन्यथा जीवितं नास्ति मत्पुरः शत्रुतापन ५२।
इत्युक्त्वा बाणसाहस्रैस्तं जघान महीपतिः ।
शत्रुघ्नं शरसंघातपंजरे न्यदधात्परम् ५३।
शत्रुघ्नः शरसंघातं मुंचंतं वह्निदैवतम् ।
अस्त्रं मुमोच दाहार्थं शराणां नतपर्वणाम् ५४।
तदस्त्रं मुक्तमालोक्य राजा वै सुरथो महान् ।
वारुणास्त्रेण शमयन्विव्याध शरकोटिभिः ५५।
तदा तद्योगिनीदत्तमस्त्रं धनुषि संदधे ।
मोहनं सर्ववीराणां निद्राप्रापकमद्भुतम् ५६।
तन्मोहनं महास्त्रं स वीक्ष्य राजा हरिंस्मरन् ।
जगाद शत्रुघ्नमयं सर्वशस्त्रास्त्रकोविदः ५७।
मोहितस्य मम श्रीमद्रामस्य स्मरणेन ह ।
नान्यन्मोहनमाभाति ममापि भयतापदम् ५८।
इत्युक्तवति वीरे तु मुमोच स महास्त्रकम् ।
तेन बाणेन संछिन्नं पपात रणमंडले ५९।
तन्मोहनं महास्त्रं तु निष्फलं वीक्ष्य भूमिपे ।
अत्यंतं विस्मयं प्राप्य बाणं धनुषि संदधे ६०।
लवणो येन निहतो महासुरविमर्दनः ।
तं बाणं चाप आधत्त घोरं कान्त्यानलप्रभम् ६१।
तं वीक्ष्य राजा प्रोवाच बाणोऽयमसतां हृदि ।
लगते रामभक्तस्य संमुखेऽपि न भात्यसौ ६२।
इत्येवं भाषमाणं तु बाणेनानेन शत्रुहा ।
विव्याध हृदये क्षिप्रं वह्निज्वालासमप्रभम् ६३।
तेन बाणेन दुःखार्तो महापीडासमन्वितः ।
रथोपस्थे क्षणं मूर्च्छामवाप परतापनः ६४।
स क्षणात्तां व्यथां तीर्त्वा जगाद रिपुमग्रतः ।
सहस्वैकं प्रहारं मे कुत्र यासि ममाग्रतः ६५।
एवमुक्त्वा महासंख्ये बाणमाधत्त सायके ।
ज्वालामालापरीतांगं स्वर्णपुंखसमन्वितम् ६६।
स बाणो धनुषो मुक्तः शत्रुघ्नेन पथिस्थितः ।
छिन्नोऽप्यग्रफलेनाशु हृदये समपद्यत ६७।
तेन बाणेन संमूर्छ्य पपात स्यंदनोपरि ।
ततो हाहाकृतं सैन्यं भग्नं सर्वं पराद्रवत् ६८।
सुरथो जयमापेदे संग्रामे रामसेवकः ।
दशवीरा दशसुतैर्मूर्च्छिताः पतिताः क्वचित् ६९।
इति श्रीपद्मपुराणे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे सुरथविजयोनाम द्विपंचाशत्तमोऽध्यायः ५२।