पद्मपुराणम्/खण्डः ५ (पातालखण्डः)/अध्यायः ०५३

← अध्यायः ०५२ पद्मपुराणम्
अध्यायः ०५३
वेदव्यासः
अध्यायः ०५४ →

सुग्रीवस्तु तत्कटकं भग्नं वीक्ष्य रणांगणे ।
स्वामिनं मूर्च्छितं वापि ययौ योद्धुं नृपं प्रति १।
आगच्छ भूप सर्वान्नो मूर्च्छयित्वा कुतो भवान् ।
गच्छति क्षिप्रं मां देहि युद्धं रणविशारद २।
एवमुक्त्वा नगं कंचिद्विशालं शाखया युतम् ।
उत्पाट्य प्राहरत्तस्य मस्तके बलसंयुतः ३।
तेन प्रहारेण महाबलो नृपः ।
संवीक्ष्यसु ग्रीवमथो स्वचापे ।
बाणान्समाधाय शितान्सरोषा ।
ज्जघान वक्षस्यतिपौरुषो बली ४।
तान्बाणान्व्यधमत्सर्वान्सुग्रीवः सहसा हसन् ।
ताडयामास हृदये सुरथं सुमहाबलः ५।
पर्वतैः शिखरैश्चैव नगैर्द्विरदवर्ष्मभिः ।
वेगात्संताडयामास दारयन्सुरथं नखैः ६।
तमप्याशु बबंधास्त्राद्रामसंज्ञात्सुदारुणात् ।
बद्धः कपिवरो मेने सुरथं रामसेवकम् ७।
गजो यथायसमयीं शृंखलां पादलंबिताम् ।
प्राप्य किंचिन्न वै कर्तुं शक्नोति स तथा ह्यभूत् ८।
जितं तेन महाराज्ञा सुरथेन सुपुत्रिणा ।
सर्वान्वीरान्रथे स्थाप्य ययौ स्वनगरं प्रति ९।
गत्वा सभायां सुमहान्बद्धं मारुतिमब्रवीत् ।
स्मर श्रीरघुनाथं त्वं दयालुं भक्तपालकम् १०।
यथा त्वां बंधनात्सद्यो मोचयिष्यति सुष्ठुधीः ।
नान्यथायुतवर्षेण मोचयिष्यामि बंधनात् ११।
इत्युक्तमाकर्ण्य समीरजस्तदा ।
सुबद्धमात्मानमवेक्ष्य वीरान् ।
संमूर्च्छिताञ्छत्रुशराभिघात -।
पीडायुतान्बंधनमुक्तये स्मरत् १२।
श्रीरामचंद्रं रघुवंशजातं सीतापतिं पंकजपत्रनेत्रम् ।
स्वमुक्तये बंधनतः कृपालुं सस्मार सर्वैः करणैर्विशोकैः १३।
हनूमानुवाच।
हा नाथ हा नरवरोत्तम हा दयालो ।
सीतापते रुचिरकुंतलशोभिवक्त्र ।
भक्तार्तिदाहक मनोहररूपधारिन् ।
मां बंधनात्सपदि मोचय मा विलंबम् १४।
संमोचितास्तु भवता गजपुंगवाद्याः ।
देवाश्च दानवकुलाग्नि सुदह्यमानाः ।
तत्सुंदरीशिरसिसंस्थितकेशबंधः ।
संमोचितस्तु करुणालय मां स्मरस्व १५।
त्वं यागकर्मनिरतोऽसि मुनीश्वरेंद्रै ।
र्धर्मं विचारयसि भूमिपतीड्यपाद ।
अत्राहमद्य सुरथेन विगाढपाश -।
बद्धोस्मि मोचय महापुरुषाशु देव १६।
नो मोचयस्यथ यदि स्मरणातिरेकात् ।
त्वं सर्वदेववरपूजितपादपद्म ।
लोको भवंतमिदमुल्लसितोऽहसिष्य -।
त्तस्माद्विलंबमिह माचर मोचयाशु १७।
इति श्रुत्वा जगन्नाथो रघुवीरः कृपानिधिः ।
भक्तं मोचयितुं प्रागात्पुष्पकेणाशुवेगिना १८।
लक्ष्मणेनानुगेनाथ भरतेन सुशोभितम् ।
मुनिवृंदैर्व्यासमुख्यैः समेतं ददृशे कपिः १९।
तमागतं निजं नाथं वीक्ष्य भूपं समब्रवीत् ।
पश्य राजन्निजं मोक्तुमायातं कृपया हरिम् २०।
अनेके मोचिताः पूर्वं स्मरणात्सेवका निजाः ।
तथा मां पाशतो बद्धं संमोचयितुमागतः २१।
श्रीरामभद्रमायांतं वीक्ष्यासौ सुरथः क्षणात् ।
नतीश्च शतशश्चक्रे भक्तिपूरपरिप्लुतः २२।
श्रीरामस्तं निजैर्दोर्भिः परिरेभे चतुर्भुजः ।
मूर्ध्नि सिंचन्नश्रुजलैर्हर्षाद्भक्तं स्वकं मुहुः २३।
उवाच धन्यदेहोऽसि महत्कर्म कृतं त्वया ।
कपीश्वरस्त्वया बद्धो हनूमान्सर्वतो बलः २४।
श्रीरामः कपिवर्यं तं मोचयामास बंधनात् ।
मूर्छितांस्तान्भटान्सर्वान्वीक्ष्य दृष्ट्या स्वजीवयत् २५।
ते मूर्च्छां तत्यजुर्दृष्टा रामेण सुरसेविना ।
उत्थिता ददृशुः श्रीमद्रामचंद्रं मनोरमम् २६।
प्रणतास्ते रघुपतिं तेन पृष्टा अनामयम् ।
सुखीभूता नृपं प्रोचुः सर्वं स्वकुशलं नृपाः २७।
सुरथो वीक्ष्य रामं च कृपार्थं सेवकात्मनः ।
आगतं सकलं राज्यं सहयं सुमुदार्पयत् २८।
अनेकवरिवस्याभिः श्रीरामं समतोषयत् ।
कथयामास मेऽन्याय्यं कृतं ते क्षम राघव ।
श्रीरामस्तमुवाचाथ कृतं ते वाहरक्षणम् २९।
क्षत्त्रियाणामयं धर्मः स्वामिना सह युद्ध्यते ।
त्वया साधुकृतं कर्म रणे वीराः प्रतोषिताः ३०।
इत्युक्तवंतं नृहरिं पूजयन्ससुतोऽभवत् ।
श्रीरामस्त्रिदिनं स्थित्वा ययौ तमनुमंत्र्य च ३१।
कामगेन विमानेन मुनिभिः सहितो महान् ।
तं दृष्ट्वा विस्मितास्तस्य कथाश्चक्रुर्मनोहराः ३२।
चंपकं स्वपुरे स्थाप्य सुरथः क्षत्रियो बली ।
शत्रुघ्नेन समं यातुं मनश्चक्रे महाबलः ३३।
शत्रुघ्नः स्वहयं प्राप्य भेरीनादानकारयत् ।
शंखनादान्बहुविधान्सर्वत्र समवादयत् ३४।
सुरथेन समं वीरो यज्ञवाहममूमुचत् ।
स बभ्रामापरान्देशान्न कोपि जगृहे बली ३५।
यत्रयत्र गतो वाहस्तत्रतत्र परिभ्रमन् ।
सैन्येन महता यातः शत्रुघ्नः सुरथेन च ३६।
कदाचिज्जाह्नवीतीरे वाल्मीकेराश्रमं वरम् ।
गतो मुनिवरैर्जुष्टं प्रातर्धूमेन चिह्नितम् ३७।
इति श्रीपद्मपुराणे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे रघुनाथसमागमोनाम त्रिपंचाशत्तमोऽध्यायः ५३।