पद्मपुराणम्/खण्डः ५ (पातालखण्डः)/अध्यायः ०५४
← अध्यायः ०५३ | पद्मपुराणम् अध्यायः ०५४ वेदव्यासः |
अध्यायः ०५५ → |
शेष उवाच।
गतः प्रातःक्रियां कर्तुं समिधस्तत्क्रियार्हकाः ।
आनेतुं जानकीसूनुर्वृतो मुनिसुतैर्लवः १।
ददर्श तत्र यज्ञाश्वं स्वर्णपत्रेण चिह्नितम् ।
कुंकुमागरुकस्तूरी दिव्यगंधेन वासितम् २।
विलोक्य जातकुतुको मुनिपुत्रानुवाच सः ।
अर्वा कस्य मनोवेगः प्राप्तो दैवान्मदाश्रमम् ३।
आगच्छंतु मया सार्धं प्रेक्षंतां मा भयं कृथाः ।
इत्युक्त्वा स लवस्तूर्णं वाहस्य निकटे गतः ४।
स रराज समीपस्थो वाहस्य रघुवंशजः ।
धनुर्बाणधरः स्कंधे जयंत इव दुर्जयः ५।
गत्वा मुनिसुतैः सार्धं वाचयामास पत्रकम् ।
भालस्थितं स्पष्टवर्णराजिराजितमुत्तमम् ६।
विवस्वतो महान्वंशः सर्वलोकेषु विश्रुतः ।
यत्र कोपि पराबाधी न परद्रव्यलंपटः ७।
सूर्यवंशध्वजो धन्वी धनुर्दीक्षा गुरुर्गुरुः ।
यं देवाः सामराः सर्वे नमंति मणिमौलिभिः ८।
तस्यात्मजो वीर बलदर्पहारी रघूद्वहः ।
रामचंद्रो महाभागः सर्वशूरशिरोमणिः ९।
तन्माता कोशलनृपपुत्रीरत्नसमुद्भवा ।
तस्याः कुक्षिभवं रत्नं रामः शत्रुक्षयंकरः १०।
करोति हयमेधं स ब्राह्मणेन सुशिक्षितः ।
रावणाभिधविप्रेंद्र वधपापापनुत्तये ११।
मोचितस्तेन वाहानां मुख्योऽसौ याज्ञिको हयः ।
महाबलपरीवारो परिखाभिः सुरक्षितः १२।
तद्रक्षकोऽस्ति मद्भ्राता शत्रुघ्नो लवणांतकः ।
हस्त्यश्वरथपादातसंघसेनासमन्वितः १३।
यस्य राज्ञ इति श्रेष्ठो मानो जायेत्स्वकान्मदात् ।
शूरा वयं धनुर्धारि श्रेष्ठा वयमिहोत्कटाः १४।
ते गृह्णंतु बलाद्वाहं रत्नमालाविभूषितम् ।
मनोवेगं कामजवं सर्वगत्याधिभास्वरम् १५।
ततो मोचयिता भ्राता शत्रुघ्नो लीलया हठात् ।
शरासनविनिर्मुक्त वत्सदंतकृतव्यथात् १६।
ये क्षत्रियाः क्षत्रियकन्यकायां ।
जाताश्च सत्क्षेत्रकुलेषु सत्सु ।
गृह्णंतु ते तद्विपरीतदेहा ।
नमंतु राज्यं रघवे निवेद्य १७।
इति संवाच्य कुपितो लवः शस्त्रधनुर्धरः ।
उवाच मुनिपुत्रांस्तान्रोषगद्गदभाषितः १८।
पश्यत क्षिप्रमेतस्य धृष्टत्वं क्षत्रियस्य वै ।
लिलेख यो भालपत्रे स्वप्रतापबलं नृपः १९।
कोऽसौ रामः कः शत्रुघ्नः कीटाः स्वल्पबलाश्रिताः ।
क्षत्रियाणां कुले जाता एते न वयमुत्तमाः २०।
एतस्य वीरसूर्माता जानकी न कुशप्रसूः ।
या रत्नं कुशसंज्ञं तु दधाराग्निमिवारणिः २१।
इदानीं क्षत्रियत्वादि दर्शयिष्यामि सर्वतः ।
यदि क्षत्रियभूरेष भविष्यति च शत्रुहा २२।
गृहीष्यति मया बद्धं वाहं यज्ञक्रियोचितम् ।
नोचेत्क्षत्रत्वमुन्मुच्य कुशस्य चरणार्चकः २३।
अधुना मद्धनुर्मुक्तैः शरैः सुप्तो भविष्यति ।
अन्ये ये च महावीरा रणमंडलभूषणाः २४।
इत्यादिवाक्यमुच्चार्य लवो जग्राह तं हयम् ।
तृणीकृत्य नृपान्सर्वांश्चापबाणधरो वरः २५।
तदा मुनिसुताः प्रोचुर्लवं हयजिहीर्षकम् ।
अयोध्यानृपती रामो महाबलपराक्रमः २६।
तस्य वाहं न गृह्णाति शक्रोऽपि स्वबलोद्धतः ।
मा गृहाण शृणुष्वेदं मद्वाक्यं हितसंयुतम् २७।
इत्युक्तं स श्रुतौ धृत्वा जगाद स द्विजात्मजान् ।
यूयं बलं न जानीथ क्षत्रियाणां द्विजोत्तमाः २८।
क्षत्रिया वीर्यशौंडीर्या द्विजा भोजनशालिनः ।
तस्माद्यूयं गृहे गत्वा भुंजंतु जननी हृतम् २९।
इत्युक्तास्तेऽभवंस्तूष्णीं प्रेक्षंतस्तत्पराक्रमम् ।
लवस्य मुनिपुत्रास्ते संतस्थुर्दूरतो बहिः ३०।
एवं व्यतिकरे वृत्ते सेवकास्तस्य भूपतेः ।
आयातास्तं हयं बद्धं दृष्ट्वा प्रोचुस्तदा लवम् ३१।
बबंध को हयमहो रुष्टः कस्य च धर्मराट् ।
को बाणव्रजमध्यस्थः प्राप्स्यते परमां व्यथाम् ३२।
तदा लवो जगादाशु मया बद्धोऽश्व उत्तमः ।
यो मोचयति तस्याशु रुष्टो भ्राता कुशो महान् ३३।
यमः करिष्यति किमु ह्यागतोऽपि स्वयं प्रभुः ।
नत्वा गमिष्यति क्षिप्रं शरवृष्ट्या सुतोषितः ३४।
शेष उवाच।
इति वाक्यं समाकर्ण्य बालोयमिति तेब्रुवन् ।
समागता मोचयितुं हयं बद्धं तु ये हरेः ३५।
तान्वैमोचयितुं प्राप्ताञ्छत्रुघ्नस्य च सेवकान् ।
कोदंडं करयोर्धृत्वा क्षुरप्रान्सममूमुचत् ३६।
ते छिन्नबाहवः शोकाच्छत्रुघ्नं प्रतिसंगताः ।
पृष्टास्ते जगदुः सर्वे लवात्स्वभुजकृंतनम् ३७।
इति श्रीपद्मपुराणे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे लवेन हयबंधनंनाम चतुःपंचाशत्तमोऽध्यायः ५४।