पद्मपुराणम्/खण्डः ५ (पातालखण्डः)/अध्यायः ०६२

← अध्यायः ०६१ पद्मपुराणम्
अध्यायः ०६२
वेदव्यासः
अध्यायः ०६३ →

शेष उवाच।
मूर्च्छितं मारुतिं श्रुत्वा शत्रुघ्नः शोकमाययौ ।
किंकर्तव्यं मया संख्ये बालकोऽयं महाबलः १।
स्वयं रथे हेममये तिष्ठन्वीरवरैः सह ।
योद्धुं प्रागाल्लवो यत्र विचित्ररणकोविदः २।
लवं ददर्श शिशुतां प्राप्तं राममिव क्षितौ ।
धनुर्बाणकरं वीरान्क्षिपंतं रणमूर्धनि ३।
विचारयामास तदा कोऽयं रामस्वरूपधृक् ।
नीलोत्पलदलश्यामं वपुर्बिभ्रन्मनोहरम् ४।
एष वै देहतनुजा सुतो भवति नान्यथा ।
अस्मान्विजित्य समरे यास्यते मृगराडिव ५।
अस्माकं नो जयो भाव्यः शक्त्या विरहितात्मनाम् ।
अशक्ताः किं करिष्यामः समरे रणकोविदाः ६।
इत्येवं स विचार्याथ बालकं तु वचोऽब्रवीत् ।
रणे कुतुककर्तारं वीरकोटिनिपातकम् ७।
कस्त्वं बाल रणेऽस्माकं वीरान्पातयसि क्षितौ ।
न जानीषे बलं राज्ञो रामस्य दनुजार्दिनः ८।
का ते माता पिता कस्ते सुभाग्यो जयमाप्तवान् ।
नाम किं विश्रुतं लोके जानीयां ते महाबल ९।
मुञ्च वाहः कथं बद्धः शिशुत्वात्तत्क्षमामि ते ।
आयाहि रामं वीक्षस्व दास्यते बहुलं तव १०।
इत्युक्तो बालको वीरो वचः शत्रुघ्नमावदत् ।
किं ते नाम्नाथ पित्रा वा कुलेन वयसा तथा ११।
युध्यस्व समरे वीर चेत्त्वं बलयुतो भवेः ।
कुशं वीरं नमस्कृत्य पादयोर्याहि नान्यथा १२।
भ्राता रामस्य वीरो भूर्नावयोर्बलिनां वरः ।
वाहं विमोचय बलाच्छक्तिस्ते विद्यते यदि १३।
इत्युक्त्वा शरसंधानं कृत्वा प्राहरदुद्भटः ।
हृदये मस्तके चैव भुजयो रणमंडले १४।
तदा प्रकुपितो राजा धनुः सज्यमथाकरोत् ।
नादयन्मेघगंभीरं त्रासयन्निव बालकम् १५।
बाणानपरिसंख्यातान्मुमोच बलिनां वरः ।
बालो बलेन चिच्छेद सर्वांस्तान्सायकव्रजान् १६।
लवस्यानेकधा मुक्तैर्बाणैर्व्याप्तं महीतलम् ।
व्यतीपाते प्रदत्तस्य दानस्येवाक्षयं गताः १७।
ते बाणा व्योमसकलं व्याप्नुवँल्लवसंधिताः ।
सूर्यमंडलमासाद्य प्रवर्तंते समंततः १८।
मारुतो नाविशद्यत्र बाणपंजरगोचरे ।
मनुष्याणां तु का वार्ता क्षणजीवितशंसिनाम् १९।
तद्बाणान्विस्तृतान्दृष्ट्वा शत्रुघ्नो विस्मयं गतः ।
अच्छिनच्छतसाहस्रं बाणमोचनकोविदः २०।
ताञ्छिन्नान्सायकान्सर्वान्स्वीयान्दृष्ट्वा कुशानुजः ।
धनुश्चिच्छेद तरसा शत्रुघ्नस्य महीपतेः २१।
सोऽन्यद्धनुरुपादाय यावन्मुंचति सायकान् ।
तावद्बभंज सरथं सायकैः शितपर्वभिः २२।
करस्थमच्छिनच्चापं सुदृढं गुणपूरितम् ।
तत्कर्मापूजयन्वीरा रणमंडलवर्तिनः २३।
सच्छिन्नधन्वा विरथो हताश्वो हतसारथिः ।
अन्यं रथं समास्थाय ययौ योद्धुं लवं बलात् २४।
अनेकबाणनिर्भिन्नः स्रवद्रक्तकलेवरः ।
पुष्पितः किंशुक इव शुशुभे रणमध्यगः २५।
शत्रुघ्नबाणप्रहतः परं कोपमुपागमत् ।
बाणसंधानचतुरः कुंडलीकृत चापवान् २६।
विशीर्णकवचं देहं शिरोमुकुटवर्जितम् ।
स्रवद्रक्तपरिप्लुष्टं शत्रुघ्नस्य चकार सः २७।
तदा रामानुजः क्रुद्धो दशबाणाञ्छिताग्रकान् ।
मुमोच प्राणसंहारकारकान्कुपितो भृशम् २८।
स तांस्तांस्तिलशः कृत्वा बाणैर्निशितपर्वभिः ।
ताडयामास हृदये शत्रुघ्नस्याष्टभिः शरैः २९।
अत्यंतं बाणपीडार्तो लवं बलिनमुत्स्मरन् ।
दुःसहं मन्यमानस्तं शरान्मुंचन्नभूत्तदा ३०।
तदा लवेन तीक्ष्णेन हृदि भिन्नो विशालके ।
अर्धचंद्रसमानेन तीक्ष्णपर्वसुशोभिना ३१।
स विद्धो हृदि बाणेन पीडां प्राप्तः सुदारुणाम् ।
पपात स्यंदनोपस्थे धनुःपाणिः सुशोभितः ३२।
शत्रुघ्नं मूर्छितं दृष्ट्वा नृपाश्च सुरथादयः ।
दुद्रुवुर्लवमुद्युक्ता जयप्राप्त्यै रणे तदा ३३।
सुरथो विमलो वीरो राजा वीरमणिस्तथा ।
सुमदो रिपुतापाद्याः परिवव्रुश्च संयुगे ३४।
केचित्क्षुरप्रैर्मुसलैः केचिद्बाणैः सुदारुणैः ।
प्रासैः परशुभिः केचित्सर्वतः प्राहरन्नृपाः ३५।
तानधर्मेण युद्धोत्कान्दृष्ट्वा वीरशिरोमणिः ।
दशभिर्दशभिर्बाणैस्ताडयामास संयुगे ३६।
ते बाणवर्षविहता रणमध्ये सुकोपनाः ।
केचित्पलायिताः केचिन्मुमुहुर्युद्धमंडले ३७।
तावत्स राजा शत्रुघ्नो मूर्च्छां संत्यज्य संगरे ।
लवं प्रायान्महावीरं योद्धुं बलसमन्वितः ३८।
आगत्य तं लवं प्राह धन्योसि शिशुसन्निभः ।
न बालस्त्वं सुरः कश्चिच्छलितुं मां समागतः ३९।
केनापि नहि वीरेण पातितो रणमंडले ।
त्वयाहं प्रापितो मूर्च्छां समक्षं मम पश्यतः ४०।
इदानीं पश्य मे वीर्यं त्वां संख्ये पातयाम्यहम् ।
सहस्व बाणमेकं त्वं मापलायस्व बालक ४१।
इत्युक्त्वा समरे बालं शरमेकं समाददे ।
यमवक्त्रसमं घोरं लवणो येन घातितः ४२।
संधाय बाणं जाज्वल्यं हृदि भेत्तुं मनो दधत् ।
लवं वीरसहस्राणां वह्निवत्सर्वदाहकम् ४३।
तं बाणं प्रज्वलंतं स द्योतयंतं दिशो दश ।
दृष्ट्वा सस्मार बलिनं कुशं वैरिनिपातिनम् ४४।
यद्यस्मिन्समये वीरो भ्राता स्याद्बलवान्मम ।
तदा शत्रुघ्नवशता न मे स्याद्भयमुल्बणम् ४५।
एवं तर्कयतस्तस्य लवस्य च महात्मनः ।
हृदि लग्नो महाबाणो घोरः कालानलोपमः ४६।
मूर्च्छां प्राप तदा वीरो भूपसायकसंहतः ।
संगरे सर्ववीराणां शिरोभिः समलंकृते ४७।
इति श्रीपद्मपुराणे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे लवमूर्च्छानाम द्विषष्टितमोऽध्यायः ६२।