पद्मपुराणम्/खण्डः ५ (पातालखण्डः)/अध्यायः ०६३

← अध्यायः ०६२ पद्मपुराणम्
अध्यायः ०६३
वेदव्यासः
अध्यायः ०६४ →

शेष उवाच।
लवं विमूर्च्छितं दृष्ट्वा बलिवैरिविदारणम् ।
शत्रुघ्नो जयमापेदे रणमूर्ध्नि महाबलः १।
लवं बालं रथे स्थाप्य शिरस्त्राणाद्यलंकृतम् ।
रामप्रतिनिधिं मूर्त्या ततो गंतुमियेष सः २।
स्वमित्रं शत्रुणा ग्रस्तमिति दुःखसमन्विताः ।
बालामात्रेऽस्य सीतायै त्वरिताः संन्यवेदयन् ३।
बाला ऊचुः।
मातर्जानकि ते पुत्रो बलाद्वाहमपाहरत् ।
कस्यचिद्भूपवर्यस्य बलयुक्तस्य मानिनः ४।
ततो युद्धमभूद्घोरं तस्य सैन्येन जानकि ।
तदा वीरेण पुत्रेण तव सर्वं निपातितम् ५।
पश्चादपि जयं प्राप्तः सुतस्तव मनोहरः ।
तं भूपं मूर्छितं कृत्वा जयमाप रणांगणे ६।
ततो मूर्च्छां विहायैष राजा परमदारुणः ।
संकुप्य पातयामास तव पुत्रं रणांगणे ७।
अस्माभिर्वारितः पूर्वं मा गृहाण हयोत्तमम् ।
अस्मान्सर्वांश्च धिक्कृत्य ब्राह्मणान्वेदपारगान् ८।
इति वाक्यं शिशूनां सा समाकर्ण्य सुदारुणम् ।
पपात भूतलोपस्थे दुःखयुक्ता रुरोद ह ९।
सीतोवाच।
कथं नृपो दयाहीनो बालेन सह युध्यति ।
अधर्मकृतदुर्बुद्धिर्यो मद्बालं न्यपातयत् १०।
लव वीरभवान्कुत्र वर्ततेऽति बलान्वितः ।
कथं त्वं निष्कृपस्याहो राज्ञोऽहार्षीद्धयोत्तमम् ११।
त्वं बालस्ते दुराक्रांताः सर्वशस्त्रविशारदाः ।
रथस्था विरथस्त्वं वै कथं युद्धं समं भवेत् १२।
ताताहं तु त्वया सार्द्धं रामत्यागासुखं जहौ ।
इदानीं रहिता युष्मत्कथं जीवामि कानने १३।
एहि मां मुंच यज्ञाश्वं गच्छत्वेष महीपतिः ।
मद्दुःखं नाभिजानासि मम दुःखप्रमार्जकः १४।
कुशो यद्यभविष्यत्स रणे वीरशिरोमणिः ।
अमोचयिष्यदधुना भवंतं भूपपार्श्वतः १५।
सोऽपि मद्दैवतो नास्ति समीपे किं करोम्यतः ।
दैवमेव ममाप्यत्र कारणं दुःखसंभवे १६।
एवमादि बहुश्रीमत्येषा वै विललाप ह ।
पादांगुष्ठेन लिखती भूमिं नेत्रद्वयाश्रुभिः १७।
बालान्प्रति जगादासौ पृथुकः स च भूपतिः ।
कथं मत्सुतमापात्य रणे कुत्र गमिष्यति १८।
इति वाक्यं वदत्येषा जानकी पतिदेवता ।
तावत्कुशस्तु संप्राप्त उज्जयिन्या महर्षिभिः १९।
माघासितचतुर्दश्यां महाकालं समर्च्य च ।
प्राप्य भूरिवरांस्तस्मादागमन्मातृसन्निधौ २०।
जानकीं विह्वलां दृष्ट्वा नेत्रोद्भूताश्रु विक्लवाम् ।
शोकविह्वलदीनांगीं बभाषे यावदुत्सुकः २१।
तदा स्वबाहुरवदत्स्फुरद्युद्धाभिशंसनः ।
हृदये चरणोत्साहो बभूवातिरथस्य हि २२।
स प्रत्युवाच जननीं दीनगद्गदभाषिणीम् ।
मातस्तव गतं दुःखं मयि पुत्र उपस्थिते २३।
मयि जीवति ते नेत्रादश्रूणि भुवि नो पतन् ।
प्रसूमुवाचाश्रुखिन्नां दीनगद्गदभाषिणीम् २४।
कुशो दुःखमितः सद्यो दुःखितां धीरमानसः ।
मम भ्राता लवः कुत्र वर्तते वैरिमर्दनः २५।
सदा मामागतं ज्ञात्वा प्रहर्षन्सन्निधावियात् ।
न दृश्यते कथं वीरः कुत्र रंतुं गतो बली २६।
केन वा सह बालत्वाद्गतो मां वै निरीक्षितुम् ।
किं त्वं रोदिषि मे मातर्लवः कुत्र स वर्तते २७।
तन्मे कथय सर्वं यत्तव दुःखस्य कारणम् ।
तच्छ्रुत्वा पुत्रवाक्यं सा दुःखिता कुशमब्रवीत् २८।
लवो धृतो नृपेणात्र केनचिद्धयरक्षिणा ।
बबंध बालको मेत्र हयं यागक्रियोचितम् २९।
तद्रक्षकान्बहूञ्जिग्ये एकोऽनेकान्रिपून्बली ।
राजा तं मूर्च्छितं कृत्वा बबंध रणमूर्धनि ३०।
बालका इति मामूचुः सहगंतार एव हि ।
ततोऽहं दुःखिता जाता निशम्य लवमाधृतम् ३१।
त्वं मोचय बलात्तस्मात्काले प्राप्तो नृपोत्तमात् ।
निशम्य मातुर्वचनं कुशः कोपसमन्वितः ।
जगाद तां दशन्नोष्ठं दंतैर्दंतान्विनिष्पिषन् ३२।
कुश उवाच।
मातर्जानीहि तं मुक्तं लवं पाशस्य बंधनात् ।
इदानीं हन्मि तं बाणैः समग्रबलवाहनम् ३३।
यदि देवोऽमरो वापि यदि शर्वः समागतः ।
तथापि मोचये तस्माद्बाणैर्निशितपर्वभिः ३४।
मा रोदिषि मातरिह वीराणां रणमूर्छितम् ।
कीर्तयेऽत्र भवत्येव पलायनमकीर्तये ३५।
देहि मे कवचं दिव्यं धनुर्गुणसमन्वितम् ।
शिरस्त्राणं च मे मातः करवालं तथाशितम् ३६।
इदानीं यामि समरे पातयामि बलं महत् ।
मोचयामि भ्रातरं स्वं रणमध्याद्विमूर्छितम् ३७।
न मोचयाम्यद्य पुत्रं तव मातर्महारणात् ।
तदा तौ मे भवत्पादौ संरुष्टौ भवतां क्षितौ ३८।
शेष उवाच।
इति वाक्येन संतुष्टा जानकी शुभलक्षणा ।
सर्वं प्रादादस्त्रवृंदं जयाशीर्भिर्नियुज्यतम् ३९।
प्रयाहि पुत्र संग्रामं लवं मोचय मूर्च्छितम् ।
इत्याज्ञप्तः कुशः संख्ये कवची कुंडली बली ४०।
मुकुटी करवाली च चर्मधारी धनुर्धरः ।
अक्षयाविषुधी कृत्वा स्कंधयोः सिंहवीर्ययोः ४१।
जगाम तरसा नत्वा मातृपादौ रथाग्रणीः ।
वेगेन यावद्युद्धाय गच्छति क्षिप्रमाहवे ४२।
तावद्ददर्श स्वलवं वैरिवृंदनिपातकम् ।
आयांतं तं कुशं वीरा ददृशुः सुमहाभटाः ४३।
कृतांतमिव संहर्तुं सर्वं विश्वमुपस्थितम् ।
लवो महाबलं दृष्ट्वा कुशं भ्रातरमागतम् ४४।
अत्यंतं वह्निवद्युद्धे दिदीपे वायुना समम् ।
रथादुन्मुच्य चात्मानं युद्धाय स विनिर्गतः ४५।
कुशः सर्वान्रणस्थान्वै वीरान्पूर्वदिशि क्षिपत् ।
पश्चिमायां दिशि लवः कोपात्सर्वान्समैरयत् ४६।
कुशबाणव्यथाव्याप्ता लवसायकपीडिताः ।
सैन्ये जना मुने सर्वे उत्कल्लोलांबुधिभ्रमाः ४७ उत्कल।
कुशेन च लवेनाथ शरव्रातैः प्रपीडितम् ।
न शर्म लेभे सकलं सैन्यं वीरप्रपूरितम् ४८।
इतस्ततः प्रभग्नं तद्बलं त्रस्तं पुनः पुनः ।
न कुत्रचिद्रणे स्थित्वा युद्धमैच्छद्बलान्वितः ४९।
एतस्मिन्समये राजा शत्रुघ्नः परतापनः ।
कुशं वीरं ययौ योद्धुं तादृशं लवसन्निभम् ५०।
कुशं दृष्ट्वा बलाक्रांतं राममूर्तिसमप्रभम् ।
रथे तिष्ठन्हेममये जगाद परवीरहा ५१।
शत्रुघ्न उवाच।
कोऽसि त्वं सन्निभो भ्रात्रा लवेन सुमहाबलः ।
किं नामासि महावीर कस्ते तातः क्व ते प्रसूः ५२।
कथं वने द्विजैर्जुष्टे तिष्ठसि त्वं नरर्षभ ।
सर्वं शंस यथायुध्ये त्वया सह महाबल ५३।
इति वाक्यं समाकर्ण्य कुशः प्रोवाच भूमिपम् ।
मेघगंभीरया वाचा नादयन्रणमंडलम् ५४।
केवलं सुषुवे सीता पतिव्रतपरायणा ।
वने वसावो वाल्मीकेश्चरणार्चनतत्परौ ५५।
मातृसेवासमुद्युक्तौ सर्वविद्याविशारदौ ।
कुशो लव इति प्रख्यामागतौ भूपतेऽनघ ५६।
कस्त्वं वीरो रणश्लाघी किमर्थं हयसत्तमः ।
मुक्तोऽस्ति समरे त्वद्य जेतासि बलसंयुतः ५७।
युध्यस्व त्वं मया सार्द्धं यदि वीरोऽसि भूमिप ।
इदानीं पातयिष्यामि भवंतं रणमूर्धनि ५८।
शत्रुघ्नस्तं सुतं ज्ञात्वा सीताया रामसंभवम् ।
विसिष्माय स्वयं चित्ते कोपाद्धनुरुपाददत् ५९।
तमात्तधनुषं दृष्ट्वा कुशः कोपसमन्वितः ।
विस्फारयामास धनुः स्वीयं सुदृढमुत्तमम् ६०।
मुमोच बाणान्निशिताञ्छत्रुघ्नः सर्वशस्त्रवित् ।
तांश्चिच्छेद कुशः सर्वांल्लीलया प्रहसन्रणे ६१।
बाणाश्च शतसाहस्राः कुशस्य च नृपस्य च ।
भुवनं व्याप्नुवन्सर्वं तच्चित्रमभवन्मुने ६२।
अग्न्यस्त्रेण कुशः सर्वान्ददाह तरसा बली ।
शमयामास तं भूपः पर्जन्यास्त्रेण वीर्यवान् ६३।
शमयामास तं भूपो वायव्येनातिविक्रमः ।
तदा वायुरभूत्तीव्रः सर्वतो रणमंडले ।
पर्वतास्त्रेण तं वायुं क्षोभयंतं समावृणोत् ६४।
वज्रास्त्रेण नृपः संख्ये चिच्छेद सनगोपलान् ।
तदा नारायणास्त्रं स मुमोच कुश उद्भटः ।
नारायणं तदा भूपं नाशकत्परिबाधितुम् ६५।
तदा प्रकुपितोऽत्यतं कुशः कोपपरायणः ।
उवाच भूपं शत्रुघ्नं महाबलपराक्रमम् ६६।
जानामि त्वां महावीरं संग्रामे जयकारिणम् ।
यत्त्वां नारायणास्त्रं मे न बबाधे भयानकम् ६७।
इदानीं पातयाम्यद्य भूमौ त्वां नृपते शरैः ।
त्रिभिश्चेन्नकरोम्येतत्प्रतिज्ञां तर्हि मे शृणु ६८।
यो मनुष्यवपुः प्राप्य दुर्लभं पुण्यकोटिभिः ।
तन्नाद्रियेत संमोहात्तस्य मेस्त्वत्र पातकम् ६९।
सावधानो भवानत्र भवतु प्रधनांगणे ।
पातयामि क्षितौ सद्य इत्युक्त्वा स्वशरासने ७०।
शरं संरोपयामास घोरं कालानलप्रभम् ।
लक्षीकृत्य रिपोर्वक्षो विपुलं कठिनं महत् ७१।
तं संधितं शरं दृष्ट्वा शत्रुघ्नः कोपमूर्च्छितः ।
मुमोच बाणान्निशितान्कुशत्वग्भेदकारकान् ७२।
स बाणो हृदयं तस्य भेत्तुं तत्प्रचचाल वै ।
घोररूपो वह्निसमआशीविषवदुच्छ्वसन् ७३।
स बाणो नृपवर्येण रामं स्मृत्वाशुलक्षितः ।
चिच्छेद कुशमुक्तं स सायकं शितपर्वकम् ७४।
तदात्यंतं प्रकुपितः कुशो बाणस्य कृंतनात् ।
अपरं सायकं चापे दधार शितपर्वकम् ७५।
स यावत्तदुरो भेत्तुं करोति च बलोद्धुरः ।
तं तावदच्छिनत्तस्य शरं कालानलप्रभम् ७६।
तदा कुशो मातृपादौ स्मृत्वा रोषसमन्वितः ।
तृतीयं चापके स्वीये दधार शरमद्भुतम् ७७।
शत्रुघ्नस्तमपि क्षिप्रं च्छेत्तुं बाणं समाददे ।
तावद्विद्धः शरेणासौ पपात धरणीतले ७८।
हाहाकारो महानासीच्छत्रुघ्ने विनिपातिते ।
जयमापकुशस्तत्र स्वबाहुबलदर्पितः ७९।
इति श्रीपद्मपुराणे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे।
शत्रुघ्नमूर्च्छने कुशजयोनाम त्रिषष्टितमोऽध्यायः ६३।