पद्मपुराणम्/खण्डः ५ (पातालखण्डः)/अध्यायः ०६५

← अध्यायः ०६४ पद्मपुराणम्
अध्यायः ०६५
वेदव्यासः
अध्यायः ०६६ →

शेष उवाच।
क्षणान्मूर्च्छां जहौ वीरः शत्रुघ्नः समरांगणे ।
अन्येऽपि वीराबलिनो मूर्च्छां प्राप्ताः सुजीविताः १।
शत्रुघ्नो वाजिनां श्रेष्ठं ददर्श पुरतः स्थितम् ।
आत्मानं च शिरस्त्राणरहितं सैन्यजीवितम् २।
वीक्ष्य चित्रमिदं स्वांते चकारच जगाद ह ।
सुमतिं मंत्रिणां श्रेष्ठं मूर्च्छाविरहितं तदा ३।
कृपां कृत्वा हयं प्रादाद्बालो यज्ञस्य पूर्तये ।
गच्छाम रामं तरसा हयागमनकांक्षिणम् ४।
इत्युक्त्वा स रथे स्थित्वा हयमादाय वेगतः ।
ययौ तदाश्रमाद्दूरं भेरीशंखविवर्जितः ५।
तत्पृष्ठतो महासैन्यं चतुरंगसमन्वितम् ।
चचाल कुर्वन्संभग्नं स्वभारेण फणीश्वरम् ६।
जवेन जाह्नवीं तीर्त्वा कल्लोलजलशालिनीम् ।
जगाम विषये स्वीये स्वकीयजनशोभिते ७।
पुष्कलेन युतो राजा सुरथेन समन्वितः ।
रथे मणिमये तिष्ठन्महत्कोदंडधारकः ८।
हयं तं पुरतः कृत्वा रत्नमालाविभूषितम् ।
श्वेतातपत्रं तस्यैव मूर्ध्नि चामरभूषितम् ९।
अनेकरथसाहस्रैः परितो बलिभिर्नृपैः ।
उद्यत्कोदंडललितैर्वीरनादविभूषितैः १०।
क्रमेण नगरीं प्राप सूर्यवंशविभूषिताम् ।
अनेकैः केतुभिः श्रेष्ठैर्भूषितां दुर्गराजिताम् ११।
रामः श्रुत्वा हयं प्राप्तं शत्रुघ्नेन सहामुना ।
पुष्कलेन च वीरेण ययौ हर्षमनेकधा १२।
कटकं निर्दिदेशासौ चतुरंगं महाबलम् ।
लक्ष्मणं प्रेषयामास भ्रातरं बलिनां वरम् १३।
लक्ष्मणः सैन्यसहितो गत्वा भ्रातरमागतम् ।
परिरेभे मुदाक्रांतः क्षतशोभितगात्रकम् १४।
सर्वत्र कुशलं पृष्टो वार्तां चात्र चकार सः ।
परमं हर्षमापन्नः शत्रुघ्नः संगतो मुदा १५।
सौमित्रिः स्वरथे स्थित्वा भ्रात्रा सह महामनाः ।
सैन्येन महता वीरो ययौ स्वनगरीं प्रति १६।
सरयूः पुण्यसलिला पवित्रित जगत्त्रया ।
रामपादरजः पूता शरच्चंद्रसमप्रभा १७।
हंसकारंडवाकीर्णा चक्रवाकोपशोभिता ।
विचित्रतरवर्णैश्च पक्षिभिर्नादिता भृशम् १८।
मंडपास्तत्र बहुशो रामचंद्रेणकारिताः ।
ब्राह्मणानां वेदविदां पृथक्पाठनिनादकाः १९।
क्षत्रियास्तत्र बहवो धनुःपाणि सुशोभिताः ।
ज्याटंकारेण बहुना नादयंतो महीतलम् २०।
भुंजते ब्राह्मणा यत्र विचित्रान्नैर्मनोहरैः ।
परस्परं प्रपश्यंतो वार्तां चक्रुर्मनोहराम् २१।
पायसान्नानि शुभ्राणि चंद्रकांतिसमानि च ।
क्षीराज्यबहुयुक्तानि शर्करामिश्रितानि च २२।
अपूपास्तत्र बहुलाश्चंद्रबिंबसमाः श्रिया ।
कर्पूरादिसुगंधेन वासिताः सुमनोहराः २३।
फेनिकाघटकाः स्निग्धाः शतच्छिद्रा विरंध्रकाः ।
शष्कुल्यो मंडकामृष्टा मधुरान्नसमन्विताः २४।
भक्तं कुमुदसंकाशं मुद्गदालिविमिश्रितम् ।
सुगंधेन समायुक्तमत्यंतं प्रीतिदायकम् २५।
ओदनो दधिना युक्तो भीमसेनसमन्वितः ।
स्वादुपाककरैः सृष्टः पात्रे मुक्तः प्रवेषकैः २६।
तत्र केचिद्द्विजाः पात्रे निक्षिप्तं वीक्ष्य पायसम् ।
परस्परं ते प्रत्यूचुः किमिदं दृश्यतेऽद्भुतम् २७।
किं चंद्रबिंबं नभसः पतितं तमसो भयात् ।
अमृतं तु भवत्यत्र मृत्युनाशकमद्भुतम् २८।
तच्छ्रुत्वा रोषताम्राक्षः प्रोवाचान्यो द्विजोत्तमः ।
नभवत्येव चंद्रस्य बिंबं त्वमृतविप्लुतम् २९।
एकमिंदोर्वपुस्त्वेतद्दृश्यते सदृशं कथम् ।
ब्राह्मणानां सहस्रस्य पात्रे पात्रे पृथक्पृथक् ३०।
ततो जानीहि कुमुदं कर्पूरं वा भविष्यति ।
मा जानीहि मृगांकस्य बिंबं शुभ्रश्रियान्वितम् ३१।
तावदन्यो रुषाक्रांतो धुन्वन्स्वं मस्तकं तथा ।
न जानंति द्विजा मूढाः स्वादुज्ञाना विचक्षणाः ३२।
इदं तु क्षौद्रकंदस्यरसेन परिपाचितम् ।
जानीहि शतपत्रस्य पुष्पाणि मधुराणि च ३३।
एवं परस्परं विप्राः कंदमूलफलाशिनः ।
तर्कयंति मुने प्रीता रसज्ञानेऽतिलोलुपाः ३४।
तावदन्यो द्विजः प्राह क्षत्त्रियाणां वरं जनुः ।
भोक्ष्यंते तादृशं त्वन्नं महत्पुण्यैरुपस्कृतम् ३५।
तदा तं प्राब्रवीद्विप्रो दत्तस्य फलमीदृशम् ।
ये ददत्यग्रजन्मभ्यः प्राप्नुवंति त ईप्सितम् ३६।
यैरर्चितो नैव हरिर्नैवेद्यैर्विविधैर्मुहुः ।
तेषामेतादृशं भोज्यं न भवेदक्षिगोचरम् ३७।
यैर्नरैरग्रजन्मानो भोजिता विविधै रसैः ।
भुंजते ते स्वादुरसं पापिनां चक्षुरुज्झितम् ३८।
एवंविधैरसैर्मिष्टैर्भोजिता द्विजसत्तमाः ।
मंडपे विपठंतस्ते शब्दब्रह्मविचक्षणाः ३९।
नृत्यंत्येके हसन्त्येके नदन्त्येके प्रहर्षिताः ।
उत्सवो बहुरुद्भाति तत्र शत्रुघ्न आगमत् ४०।
रामः शत्रुघ्नमायांतं पुष्कलेन समन्वितम् ।
निरीक्ष्यमुदमुद्भूतां रक्षितुं नाशकत्तदा ४१।
यावदुत्तिष्ठते रामो भ्रातरं हयपालकम् ।
तावद्रामपदेलग्नः शत्रुघ्नो भ्रातृवत्सलः ४२।
पादयोः पतितं वीक्ष्य भ्रातरं विनयान्वितम् ।
परिरेभे दृढं प्रीतः क्षतसंशोभितांगकम् ४३।
अश्रूणि बहुधा मुंचन्हर्षाच्छिरसि राघवः ।
अत्यंतं परमां प्राप मुदं वचनदूरगाम् ४४।
पुष्कलं स्वीयपदयोर्नम्रं विनयविह्वलः ।
सुदृढं भुजयोर्मध्ये विनीयापीडयद्भृशम् ४५।
हनूमंतं तथा वीरं सुग्रीवं चांगदं तथा ।
लक्ष्मीनिधिं जनकजं प्रतापाग्र्यं रिपुंजयम् ४६।
सुबाहुं सुमदं वीरं विमलं नीलरत्नकम् ।
सत्यवंतं वीरमणिं सुरथं रामसेवकम् ४७।
अन्यानपि महाभागान्रघुनाथः स्वयं तदा ।
परिरेभे दृढं स्निग्धान्पादयोः प्रणतान्नृपान् ४८।
सुमतिः श्रीरघुपतिं भक्तानुग्रहकारकम् ।
परिरभ्य दृढं प्रीतः संमुखे तिष्ठदुन्नतः ४९।
तदा रामो निजामात्यं वीक्ष्य सान्निध्यमागतम् ।
उवाच परमप्रीत्या मंत्रिणं वदतां वरः ५०।
सुमते मंत्रिणां श्रेष्ठ शंश मे वाग्मिनां वर ।
क एते भूमिपाः सर्वे कथमत्र समागताः ५१।
कुत्रकुत्र हयः प्राप्तः केनकेन नियंत्रितः ।
कथं वै मोचितो भ्रात्रा महाबलसुशालिना ५२।
शेष उवाच।
इत्युक्तो मंत्रिणां श्रेष्ठः सुमतिः प्राह राघवम् ।
प्रहसन्मेघगंभीर नादेन च सुबुद्धिमान् ५३।
सुमतिरुवाच।
सर्वज्ञस्य पुरस्तेऽद्य मया कथमुदीर्यते ।
पृच्छसि त्वं लोकरीत्या सर्वं जानासि सर्वदृक् ५४।
तथापि तव निर्देशं शिरस्याधाय सर्वदा ।
ब्रवीमि तच्छृणुष्वाद्य सर्वराजशिरोमणे ५५।
त्वत्प्रसादादहो स्वामिन्सर्वत्र जगतीतले ।
परिबभ्राम ते वाहो भालपत्रसुशोभितः ५६।
न कश्चित्तं निजग्राह स्वनामबलदर्पितः ।
स्वं स्वं राज्यं समर्प्याथ प्रणेमुस्ते पदांबुजम् ५७।
को वा रावण दैत्येंद्र निहंतुर्वाजिसत्तमम् ।
गृह्णाति विजयाकांक्षी जरामरणवर्जितः ५८।
अहिच्छत्रां गतस्तावत्तव वाजी मनोरमः ।
तद्राजा सुमदः श्रुत्वा हयं प्राप्तं तव प्रभो ५९।
सपुत्रः प्रबलः सर्वसैन्येन बलिना वृतः ।
सर्वं समर्पयामास राज्यं निहतकंटकम् ६०।
यो राजा जगतां नेत्रीं मातरं जगदंबिकाम् ।
प्रसाद्य चिरमायुष्यं लेभे राज्यमकंटकम् ६१।
स एष त्वां प्रणमति सुमदः प्रभुसेवितम् ।
तं गृहाण कृपादृष्ट्या चिराद्दर्शनकांक्षकम् ६२।
ततः सुबाहुभूपस्य नगरे बलपूरिते ।
दमनस्तस्य वै पुत्रः प्रजग्राह हयोत्तमम् ६३।
तेन साकं महद्युद्धं बभूव दमनेन च ।
पुष्कलो जयमापेदे संमूर्छ्य सुभुजात्मजम् ६४।
ततः सुबाहुः संक्रुद्धो रणे पवनजं बलात् ।
युयुधे तव पादाब्जसेवकं बलिनां वरम् ६५।
तस्य पादाहतो ज्ञानं प्राप्य शापतिरस्कृतम् ।
तुभ्यं समर्प्य सकलं वाजिनः पालकोऽभवत् ६६।
एष त्वां सुभुजो राजा प्रणमत्युन्नतांगकः ।
कृपादृष्ट्याभिषिंच त्वं सुबाहुं नयकोविदम् ६७।
ततो मुक्तो हयो रेवाह्रदे स निममज्ज ह ।
तत्र प्राप्तं मोहनास्त्रं शत्रुघ्नेन बलीयसा ६८।
ततो देवपुरे प्रागाच्छिववासविभूषिते ।
तत्रत्यं तु विजानासि यतस्त्वं तत्र चागतः ६९।
विद्युन्माली हतो दैत्यः सत्यवान्संगतस्ततः ।
सुरथेन समं युद्धं जानासि त्वं महामते ७०।
ततः कुंडलकान्मुक्तो हयो बभ्राम सर्वतः ।
न कश्चित्तं निजग्राह स्ववीर्यबलदर्पितः ७१।
वाल्मीकेराश्रमे रम्ये हयः प्राप्तो मनोरमः ।
तत्र यत्कुतुकं जातं तच्छृणुष्व नरोत्तम ७२।
तत्रार्भस्तव सारूप्यं बिभ्रत्षोडशवार्षिकः ।
जग्राह वीक्ष्य पत्रांकं वाजिनं बलवत्तमः ७३।
तत्र कालजिता युद्धं महज्जातं नरोत्तम ।
निहतस्तेन वीरेण शितधारेण हेतिना ७४।
अनेके निहताः संख्ये पुष्कलाद्या महाबलाः ।
मूर्च्छितं चापि शत्रुघ्नं चक्रे वीरशिरोमणिः ७५।
तदा राजा महद्दुःखं विचार्य हृदिसंयुगे ।
कोपेन मूर्च्छितं चक्रे वीरो हि बलिनां वरः ७६।
स यावन्मूर्च्छितो राज्ञा तावदन्यः समागतः ।
तेनैतेन च संजीव्य नाशितं कटकं तव ७७।
सर्वेषां मूर्च्छितानां तु शस्त्राण्याभरणानि च ।
गृहीत्वा वानरौ बद्धौ जग्मतुः स्वाश्रमं प्रति ७८।
कृपां कृत्वा पुनस्तेन दत्तोऽश्वो यज्ञियो महान् ।
जीवनं प्रापितं सर्वं कटकं नष्टजीवितम् ७९।
वयं गृहीत्वा तं वाहं प्राप्तास्तव समीपतः ।
एतदेव मया ज्ञातं तदुक्तं ते पुरोवचः ८०।
इति श्रीपद्मपुराणे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे।
सुमतिनिवेदनंनाम पंचषष्टितमोऽध्यायः ६५।