पद्मपुराणम्/खण्डः ५ (पातालखण्डः)/अध्यायः ०६६

← अध्यायः ०६५ पद्मपुराणम्
अध्यायः ०६६
वेदव्यासः
अध्यायः ०६७ →

शेष उवाच।
कथितौ वै सुमतिना वाल्मीकेराश्रमे शिशू ।
पुत्रौ स्वीयाविति ज्ञात्वा वाल्मीकिं प्रति संजगौ १।
श्रीराम उवाच।
कौ शिशू मम सारूप्यधारकौ बलिनां वरौ ।
किमर्थं तिष्ठतस्तत्र धनुर्विद्याविशारदौ २।
अमात्यकथितौ श्रुत्वा विस्मयो मम जायते ।
यौ शत्रुघ्नं हनूमंतं लीलयांग बबंधतुः ३।
तस्माच्छंस मुने सर्वं बालयोश्च विचेष्टितम् ।
यथा मे परमा प्रीतिर्भवत्येवमभीप्सिता ४।
इति तत्कथितं श्रुत्वा राजराजस्य धीमतः ।
उवाच परमं वाक्यं स्पष्टाक्षरसमन्वितम् ५।
वाल्मीकिरुवाच।
तवांतर्यामिणो नॄणां कथं ज्ञानं च नो भवेत् ।
तथापि कथयाम्यत्र तव संतोषहेतवे ६।
राजन्यौ बालकौ मह्यमाश्रमे बलिनां वरौ ।
त्वत्सारूप्यधरौ स्वांगमनोहरवपुर्धरौ ७।
त्वया यदा वने त्यक्ता जानकी वै निरागसी ।
अंतर्वत्नी वने घोरे विलपंती मुहुर्मुहुः ८।
कुररीमिव दुःखार्तां वीक्ष्याहं तव वल्लभाम् ।
जनकस्य सुतां पुण्यामाश्रमे त्वानयं तदा ९।
तस्याः पर्णकुटीरम्या रचिता मुनिपुत्रकैः ।
तस्यामसूत पुत्रौ द्वौ भासयंतौ दिशो दश १०।
तयोरकरवं नाम कुशो लव इति स्फुटम् ।
ववृधातेऽनिशं तत्र शुक्लपक्षे यथा शशी ११।
कालेनोपनयाद्यानि सर्वाणि कृतवानहम् ।
वेदान्सांगानहं सर्वान्ग्राहयामास भूपते १२।
सर्वाणि सरहस्यानि शृणुष्व मुखतो मम ।
आयुर्वेदं धनुर्विद्यां शस्त्रविद्यां तथैव च १३।
विद्यां जालंधरीं चाथ संगीतकुशलौ कृतौ ।
गंगाकूले गायमानौ लताकुंजवनेषु च १४।
चंचलौ चलचित्तौ तौ सर्वविद्याविशारदौ ।
तदाहमतिसंतोषं प्राप्तश्चाहं रघूत्तम १५।
दत्त्वा सर्वाणि चास्त्राणि मस्तके निहितः करः ।
अतीवगानकुशलौ दृष्ट्वा लोका विसिष्मिरे ।
षड्जमध्यमगांधारस्वरभेदविशारदौ १६।
तथाविधौ विलोक्याहं गापयामि मनोहरम् ।
भविष्यज्ञानयोगाच्च कृतं रामायणं शुभम् १७।
मृदंगपणवाद्यादि यंत्रवीणाविशारदौ ।
वनेवने च गायंतौ मृगपक्षिविमोहकौ १८।
अद्भुतं गीतमाधुर्यं तव रामकुमारयोः ।
श्रोतुं तौ वरुणो बाला वा निनाय विभावरीम् १९।
मनोहरवयोरूपौ गानविद्याब्धिपारगौ ।
कुमारौ जगदुस्तत्र लोकेशादेशतः कलम् २०।
परमं मधुरं रम्यं पवित्रं चरितं तव ।
शुश्राव वरुणः सार्द्धं कुटुंबेन च गायकैः २१।
शृण्वन्नैव गतस्तृप्तिं मित्रेण वरुणः सह ।
सुधातोऽपि परं स्वादुचरितं रघुनंदन २२।
गानानंदमहालोभ हृतप्राणेंद्रियक्रियः ।
प्रत्यागंतुं दिदेशासौ कुमारौ न हि तावकौ २३।
रमणीय महाभोगैर्लोभितावपि बालकौ ।
चलितौ न गुरोश्चात्ममातुः पादांबुजस्मृतेः २४।
अहं चापि गतः पश्चाद्वरुणालयमुत्तमम् ।
वरुणः प्रेमसहितः पूजां चक्रे मम प्रभो २५।
पृच्छते जन्मकर्मादि सर्वज्ञायापि बालयोः ।
वरुणायाब्रुवं सर्वं जन्मविद्याद्युपागमम् २६।
श्रुत्वा सीतासुतौ देवः स चक्रेंबरभूषणैः ।
देवदत्तमिति ग्राह्यमिति मद्वाक्यगौरवात् २७।
आहृतं राजपुत्राभ्यां यद्दत्तं वरुणेन तत् ।
प्रसन्नेन तयोर्वाद्यगानविद्यावयोगुणैः ।
ततो मामब्रवीत्सीतामुद्दिश्य वरुणः कृती २८।
सीतापति व्रताधुर्या रूपशीलवयोन्विता ।
वीरपुत्रा महाभागा त्यागं नार्हति कर्हिचित् २९।
महती हानिरेतस्यास्त्यागे हि रघुनंदन ।
सिद्धीनां परमासिद्धिरेषा ते ह्यनपायिनी ३०।
पामरैर्महिमानास्या ज्ञायते यदि दूषितैः ।
का हानिस्तावता राम पुण्यश्रवणकीर्तन ३१।
अस्मत्साक्षिकमेतस्याः पावनं चरितं सदा ।
सद्यस्ते सिद्धिमायांति ये सीतापदचिंतकाः ३२।
यस्याः संकल्पमात्रेण जन्मस्थितिलयादिकाः ।
भवंति जगतां नित्यं व्यापारा ऐश्वरा अमी ३३।
सीता मृत्युःसुधा चेयं तपत्येषा च वर्षति ।
स्वर्गो मोक्षस्तपो योगो दानं च तव जानकी ३४।
ब्रह्माणं शिवमन्यांश्च लोकपालान्मदादिकान् ।
करोत्येषा करोत्येव नान्या सीता तव प्रिया ३५।
त्वं पिता सर्वलोकानां सीता च जननीत्यतः ।
कुदृष्टिरत्र तु क्षेमयोग्या न तव कर्हिचित् ३६।
वेत्ति सीतां सदा शुद्धां सर्वज्ञो भगवान्स्वयम् ।
भवानपि सुतां भूमेः प्राणादपि गरीयसीम् ३७।
आदर्तव्या त्वया तस्मात्प्रिया शुद्धेति जानकी ।
न च शापपराभूतिः सीतायां त्वयि वा विभो ३८।
इमानि मम वाक्यानि वाच्यानि जगतां पतिम् ।
रामं प्रति त्वया साक्षाद्वाल्मीके मुनिसत्तम ३९।
इत्युक्तो वरुणेनाहं सीतासंग्रहकारणात् ।
एवमेव हि सर्वैश्च लोकपालैरपि प्रभो ४०।
श्रुतं रामायणोद्गानं पुत्राभ्यां ते सुरासुरैः ।
गंधर्वैरपि सर्वैश्च कौतुकाविष्टमानसैः ४१।
प्रसन्ना एव सर्वेऽपि प्रशशंसुः सुतौ च ते ।
त्रैलोक्यं मोहितं ताभ्यां रूपगानवयोगुणैः ४२।
दत्तं यल्लोकपालैस्तु सुताभ्यां स्वीकृतं हि तत् ।
ऋषिभिश्च वरा आभ्यामन्येभ्यः कीर्तिरेव च ४३।
एकरामं जगत्सर्वं पूर्वं मुनिविलोकितम् ।
त्रिराममधुना जांतं सुताभ्यां तेखिलेक्षितम् ४४।
एककामपरामूर्तिर्लोके पूर्वमवेक्षिता ।
कामैश्चतुर्भिरद्यायं जायते च यतस्ततः ४५।
सर्वत्रान्यत्र राजेंद्र रामपुत्रौ कुशीलवौ ।
गीयते अत्र संकोचः किं कृतो विदुषि त्वयि ४६।
कृतेषु तव सर्वेषु श्रूयते महती स्तुतिः ।
त्यागादन्यत्र सीतायाः पुण्यश्लोकशिरोमणे ४७।
त्वया त्रैलोक्यनाथेन गार्हस्थ्यमनुकुर्वता ।
अंगीकार्यौ सुतौ रामविद्याशीलगुणान्वितौ ४८।
न तौ स्वां मातरं हित्वा स्थास्यतोऽभवदंतिके ।
जनन्या सहितौ तस्मादाकार्यौ भवता सुतौ ४९।
दत्त एव तयेदानीं सेनासंजीवनात्पुनः ।
प्रत्ययः सर्वलोकानां पावनः पततामपि ५०।
नाज्ञातं तेन चास्माकं नामराणां च मानद ।
शुद्धौ तस्यास्तु लोकानां यन्नष्टं तदिह ध्रुवम् ५१।
शेष उवाच।
इति वाल्मीकिना रामः सर्वज्ञोऽप्यवबोधितः ।
स्तुत्वा नत्वा च वाल्मीकिं प्रत्युवाच स लक्ष्मणम् ५२।
गच्छ ताताधुना सीतामानेतुं धर्मचारिणीम् ।
सपुत्रां रथमास्थाय सुमंत्रसहितः सखे ५३।
श्रावयित्वा ममेमानि मुनेश्च वचनान्यपि ।
संबोध्य च पुरीमेतां सीतां प्रत्यानयाशु ताम् ५४।
लक्ष्मण उवाच।
यास्यामि तव संदेशात्सर्वेषां नः प्रभोर्विभो ।
देव्या यास्यति चेद्देव यात्रा मे सफला ततः ५५।
मयि सामाभ्यसूयैव पूर्वदोषवशात्सती ।
अनागतायां तस्यां तु क्षमस्वागंतुकं मम ५६।
इत्युक्त्वा लक्ष्मणो रामं रथे स्थित्वा नृपाज्ञया ।
सुमित्रमुनिशिष्याभ्यां युतोऽगाद्भूमिजाश्रमम् ५७।
कथं प्रसादनीया स्यात्सीता भगवती मया ।
पूर्वदोषं विजानंती रामाधीनस्य मे सदा ५८।
एवं संचिंतयन्नंतर्हर्षसंकोच मध्यगः ।
लक्ष्मणः प्राप सीताया आश्रमं श्रमनाशनम् ५९।
रथात्सोथावरुह्यारादश्रुरुद्धविलोचनः ।
आर्ये पूज्ये भगवति शुभे इति वदन्मुहुः ६०।
पपात पादयोस्तस्या वेपमानाखिलांगकः ।
उत्थापितस्तया देव्या प्रीतिविह्वलया स च ६१।
किमर्थमागतः सौम्य वनं मुनिजनप्रियम् ।
आस्ते स कुशली देवः कौसल्याशुक्तिमौक्तिकः ६२।
अरोषो मयि कश्चित्स कीर्त्या केवलयादृतः ।
कीर्त्यते सर्वलोकैश्च कल्याणगुणसागरः ६३।
अकीर्तिभीतिमापन्नस्त्यक्तुं मां त्वां नियुक्तवान् ।
यदि ततश्च लोकेषु कीर्तिस्तस्यामलाभवत् ६४।
मृत्वापि पतिसत्कीर्तिं कुर्वंत्या मे हि सुस्थिरा ।
पतिसामीप्यमेवाशु भूयादेव हि देवर ६५।
त्यक्तयापि मया तेन नासौ त्यक्तो मनागपि ।
फलं हि साधनायत्तं हेतुः फलवशो न तु ६६।
कौसल्याशल्यशून्यासौ कृपापूर्णा सदा मयि ।
आस्ते कुशलिनी यस्याः पुत्रस्त्रैलोक्यपालकः ६७।
सर्वे कुशलिनः संति भरताद्याश्च बांधवाः ।
सुमित्रा च महाभागा यस्याः प्राणादहं प्रिया ६८।
मद्वत्किं त्वमपि त्यक्तः सर्वलोकेषु कीर्तये ।
राज्ञः किं दुस्त्यजं तस्य स्वात्मापि यस्य न प्रियः ६९।
इत्येवं बहुधा पृष्टस्तया रामानुजः सताम् ।
उवाच कुशली देवः कुशलं त्वयि पृच्छति ७०।
कौसल्या च सुमित्रा च याश्चान्या राजयोषितः ।
पप्रच्छुः कुशलं देवि प्रीत्या त्वामाशिषा सह ७१।
कुशलप्रश्नपूर्वं हि तव पादाभिवंदनम् ।
निवेदयामि शत्रुघ्न भरताभ्यां कृतं शुभे ७२।
गुरुभिर्गुरुपत्नीभिः सर्वाभिरपि ते शुभे ।
दत्ताशीः कुशलप्रश्नः कृतश्च त्वयि जानकि ७३।
आकारयति देवस्त्वां निर्व्यलीकेन चात्मवान् ।
अलभ्यान्यरतिस्त्वत्तोऽन्यत्र सर्वत्र भामिनि ७४।
शून्या एव दिशः सर्वास्त्वां विना जनकात्मजे ।
पश्यन्रोदिति नाथो नो रोदयन्नितरानपि ७५।
यत्र देवि स्थितासि त्वं नित्यं स्मरति राघवः ।
अशून्यं तु तमेवासौ मन्यमानो विदेहजे ७६।
धन्योऽयमाश्रमो जातो वाल्मीकेर्यत्र जानकी ।
कालं क्षपति वार्ताभिर्मदीयाभिर्वदन्निति ७७।
उक्तवान्यद्रुदन्किंचित्स्वामी नस्त्वयि तच्छृणु ।
व्यक्तीभवति वक्तुर्यद्धृद्गतं तदसंशयम् ७८।
लोका वदंति मामेव सर्वेषामीश्वरेश्वरम् ।
अहं त्वदृष्टमेवैषां स्वतंत्रं कारणं ब्रुवे ७९।
अदृष्टमेव कार्येषु सर्वेशोऽप्यनुगच्छति ।
ईशनीयाः कुतो नैतदन्वीयुः सुखदुःखयोः ८०।
धनुर्भंगे मतिभ्रंशे कैकय्या मरणे पितुः ।
अरण्यगमने तत्र हरणे तव वारिधेः ८१।
तरणे रक्षसां भर्तुर्मारणेऽपि रणेरणे ।
सहायीभवने मह्यमृक्षवानररक्षसाम् ८२।
लाभे तव प्रतिज्ञायाः सत्यत्वे च सतीमणे ।
पुनः स्वबंधुसंबंधे राज्यप्राप्तौ च भामिनि ८३।
पुनः प्रियावियोगे च कारणं यदवारणम् ।
प्रसीदति तदेवाद्य संयोगे पुनरावयोः ८४।
वेदोऽन्यथा कृतो येन लोकोत्पत्ति लयौ यतः ।
लोकाननुगतस्तस्मात्कारणं प्रथमं त्वहम् ८५।
अदृष्टमनुवर्तंते लोकाः संप्रतिबोधकाः ।
भोगेन जीर्यतेऽदृष्टं तत्तद्भुक्तं त्वया वने ८६।
स्नेहोऽकारणकः सीते वर्धमानो मम त्वयि ।
लोकादृष्टे तिरस्कृत्य त्वामाह्वयत आदरात् ८७।
शङ्कितेनापि दोषेण स्नेहनैर्मल्यमज्जनम् ।
भवतीति स वै शुद्ध आस्वाद्यो विबुधैः सदा ८८।
स्नेहशुद्धिरियं भद्रे कृता मे त्वयि नान्यथा ।
मंतव्यं रक्षितोऽप्येष लोकः शिष्टानुवर्तिना ८९।
आवयोर्निंदया देवि सर्वावस्था सुशुद्धये ।
लोको नश्येद्धि संमूढश्चरितैर्महतामयम् ९०।
आवयोरुज्ज्वला कीर्तिरावयोरुज्ज्वलो रसः ।
आवयोरुज्ज्वलौ वंशावावयोरुज्ज्वलाः क्रियाः ९१।
भवेयुरावयोः कीर्तिर्गायका उज्ज्वला भुवि ।
आवयोर्भक्तिमंतो ये ते यांत्यंते भवांबुधेः ९२।
इत्युक्ता भवती तेन प्रीयमाणेन ते गुणैः ।
पत्युः पादांबुजे द्रष्टुं करोतु सदयं मनः ९३।
वासांसि रमणीयानि भूषणानि महांति च ।
अंगरागस्तथा गंधा मनोज्ञास्त्वयि योजिताः ९४।
रथो दास्यश्च रामेण प्रेषिता उत्सवायते ।
छत्रं च चामरे शुभ्रे गजा अश्वाश्च शोभने ९५।
स्तूयमाना द्विजश्रेष्ठैः सूतमागधबंदिभिः ।
वंद्यमाना पुरस्त्रीभिः सेव्यमाना च योद्धृभिः ९६।
पुष्पैः संछाद्यमाना च देवीदेवांगनादिभिः ।
धनानि ददती तेभ्यो द्विजातिभ्यो यथेप्सितम् ९७।
गजारूढौ कुमारौ च पुरस्कृत्य जनेश्वरी ।
मयानुगम्यमाना च गच्छायोध्यां निजां पुरीम् ९८।
त्वयि तत्र गतायां तु संगतायां प्रियेण ते ।
सर्वासां राजनारीणामागतानां च सर्वशः ९९।
सर्वासामृषिपत्नीनां कौसलानां तथैव च ।
मंगलैर्वाद्यगीताद्यैर्भवत्वद्य महोत्सवः १००।
शेष उवाच-।
इतिविज्ञापनां देवी श्रुत्वा सीता तमाह सा ।
नाहं कीर्तिकरी राज्ञो ह्यपकीर्तिः स्वयं त्वहम् १०१।
किं मया तस्य साध्यं स्याद्धर्मकामार्थशून्यया ।
सत्येवं भवतां भूपे को विश्वासो निरंकुशे १०२।
प्रत्यक्षा वा परोक्षा वा भर्तुर्दोषा मनःस्थिताः ।
न वाच्या जातु मादृश्या कल्याणकुलजातया १०३।
पाणिग्रहणकाले मे यद्रूपो हृदये स्थितः ।
तद्रूपो हृदयान्नासौ कदाचिदपसर्पति १०४।
लक्ष्मणेमौ कुमारौ मे तत्तेजोंशसमुद्भवौ ।
वंशांकुरौ महाशूरौ धनुर्विद्याविशारदौ १०५।
नीत्वा पितुः समीपं तु लालनीयौ प्रयत्नतः ।
तपसाराधयिष्यामि रामं काममिह स्थिता १०६।
वाच्यं त्वया महाभाग पूज्यपादाभिवंदनम् ।
सर्वेभ्यः कुशलं चापि गत्वेतो मदपेक्षया १०७।
पुत्रौ समादिशत्सीता गच्छतं पितुरंतिकम् ।
शुश्रूषणीय एवासौ भवद्भ्यां स्वपदप्रदः १०८।
आज्ञप्तावप्यनिच्छंतौ तौ कुमारौ कुशीलवौ ।
वाल्मीकिवचनात्तत्र जग्मतुश्च सलक्ष्मणौ १०९।
वाल्मीकेरेव पादाब्जसमीपं तत्सुतौ गतौ ।
लक्ष्मणोऽपि ववंदे तं गत्वा बालकसंयुतः ११०।
वाल्मीकिर्लक्ष्मणस्तौ तु कुमारौ मिलिता अमी ।
सभायां संस्थितं रामं ज्ञात्वा ते जग्मुरुत्सुकाः १११।
लक्ष्मणः प्रणिपत्याथ सीतावाक्यादिसर्वशः ।
कथयामास रामाय हर्षशोकयुतः सुधीः ११२।
सीतासंदेशवाक्येभ्यो रामो मूर्च्छां समन्वभूत् ।
संज्ञामवाप्य चोवाच लक्ष्मणं नयकोविदम् ११३।
गच्छ मित्र पुनस्तत्र यत्नेन महता च ताम् ।
शीघ्रमानय भद्रं ते मद्वाक्यानि निवेद्य च ११४।
अरण्ये किं तपस्यंत्या गतिरन्या विचिंतिता ।
श्रुता दृष्टाथ वा मत्तो यन्नागच्छसि जानकि ११५।
त्वदिच्छया त्वमेवेतो गतारण्यं मुनिप्रियम् ।
पूजिता मुनिपत्न्यस्ता दृष्टा मुनिगणास्त्वया ११६।
पूर्णो मनोरथस्तेऽद्य किं नागच्छसि भामिनि ।
न दोषं मयि पश्येस्त्वं स्वात्मेच्छाया विलोकनात् ११७।
गत्वा गत्वाथ वामोरु पतिरेव गतिः स्त्रियाः ।
निर्गुणोपि गुणांभोधिः किंपुनर्मनसेप्सितः ११८।
याया क्रियाकुलस्त्रीणां सासा पत्युः प्रतुष्टये ।
पूर्वमेवप्रतुष्टोऽहमिदानीं सुतरां त्वयि ११९।
यागो जपस्तपोदानं व्रतं तीर्थं दयादिकम् ।
देवाश्च मयि संतुष्टे तुष्टमेतदसंशयम् १२०।
शेष उवाच-।
इति संदेशमादाय सीतां प्रति जगत्पतेः ।
आह लक्ष्मण आत्मेशमानतः प्रणयाद्धरौ १२१।
सीतानयनमुद्दिश्य प्रसन्नस्त्वं यदूचिवान् ।
कथयिष्यामि तद्वाक्यं विनयेन समन्वितम् १२२।
इत्युक्त्वा पादयोर्नत्वा रघुनाथस्य लक्ष्मणः ।
जगाम त्वरितः सीतां रथे तिष्ठन्महाजवे १२३।
वाल्मीकिः श्रीयुतौ वीक्ष्य रामपुत्रौ महौजसौ ।
उवाच स्मितमाधाय मुखं कृत्वा मनोहरम् १२४।
युवां प्रगायतां पुत्रौ रामचारित्रमद्भुतम् ।
वीणां प्रवादयंतौ च कलगानेन शोभितम् १२५।
इत्यक्तौ तौ सुतौ रामचारित्रं बहुपुण्यदम् ।
अगायतां महाभागौ सुवाक्यपदचित्रितम् १२६।
यस्मिन्धर्मविधिः साक्षात्पातिव्रत्यं तु यत्स्थितम् ।
भ्रातृस्नेहो महान्यत्र गुरुभक्तिस्तथैव च १२७।
स्वामिसेवकयोर्यत्र नीतिर्मूर्तिमती किल ।
अधर्मकरशास्तिं वै यत्र साक्षाद्रघूद्वहात् १२८।
तद्गानेन जगद्व्याप्तं दिवि देवा अपि स्थिताः ।
किन्नरा अपि यद्गानं श्रुत्वा मूर्च्छामिताः क्षणात् १२९।
वीणायारणितं श्रुत्वा तालमानेन शोभितम् ।
निखिला परिषत्तत्र शालभं जीवचित्रिता १३०।
हर्षादश्रूणिमुंचंतो रामाद्या भूमिपास्तथा ।
तद्गानपंचमालापमोहिताश्चित्रितोपमाः १३१।
तत्र रामः सुतौ दृष्ट्वा महागानविमोहकौ ।
अदात्ताभ्यां सुवर्णस्य लक्षं लक्षं पृथक्पृथक् १३२।
तदा दानपरं दृष्ट्वा वाल्मीकिं मुनिसत्तमम् ।
अब्रूतां प्रहसंतौ तौ किंचिद्वक्रभ्रुवौ ततः १३३।
मुने महानयोनेन क्रियते भूमिपेन वै ।
यदावाभ्यां सुवर्णानि दातुमिच्छति लोभयन् १३४।
प्रतिग्रहो ब्राह्मणानां शस्यते नेतरेषु वै ।
प्रतिग्रहपरो राजा नरकायैव कल्पते १३५।
आवयोः कृपया मुक्तं राज्यं भुंक्ते महीपतिः ।
कथं दातुं सुवर्णानि वांछति श्रेयसांचितः १३६।
इत्युक्तवंतौ तौ दृष्ट्वा वाल्मीकिः कृपयायुतः ।
अशंसद्युष्मत्पितरं जानीथां नीतिवित्तमौ १३७।
इति श्रुत्वा मुनेर्वाक्यं बालकौ नृपपादयोः ।
लग्नौ विनयसंयुक्तौ मातृभक्त्यातिनिर्मलौ १३८।
रामो बालौ दृढं स्वांगे परिरभ्य मुदान्वितः ।
मेने स्त्रियास्तदा धर्मौ मूर्तिमंतावुपस्थितौ १३९।
सभापि रामसुतयोर्वीक्ष्य वक्त्रे मनोरमे ।
जानकीपतिभक्तित्वं सत्यं मेने मुनीश्वर १४०।
इति शेषमुखप्रोक्तं श्रुत्वा वात्स्यायनोऽब्रवीत् ।
रामायणं श्रोतुमनाः सर्वधर्मसमन्वितम् १४१।
वात्स्यायन उवाच।
कस्मिन्काले कृतं स्वामिन्रामायणमिदं महत् ।
कस्माच्चकार किन्तत्र वर्णनं तद्वदस्व मे १४२।
शेष उवाच-।
एकदा गतवान्विप्रो वाल्मीकिर्विपिनं महत् ।
यत्र तालास्तमालाश्च किंशुका यत्र पुष्पिताः १४३।
केतकी यत्र रजसा कुर्वती सौरभं वनम् ।
शशिप्रभेव महती दृश्यते शुभ्रकर्णभृत् ।
चंपकोबकुलश्चापि कोविदारः कुरंटकः १४४।
अनेके पुष्पिता यत्र पादपाः शोभने वने ।
कोकिलानां विरावेण षट्पदानां च शब्दितैः १४५।
संघुष्टं सर्वतो रम्यं मनोहरवयोन्वितम् ।
तत्र क्रौंचयुगं रम्यं कामबाणप्रपीडितम् १४६।
परस्परं प्रहृषितं रेमे स्निग्धतया स्थितम् ।
तदा व्याधः समागत्य तयोरेकं मनोहरम् १४७।
अवधीन्निर्दयः कश्चिन्मांसास्वादनलोलुपः ।
तदा क्रौंची व्याधहतं स्वपतिं वीक्ष्य दुःखिता १४८।
विललाप भृशं दुःखान्मुंचंती रावमुच्चकैः ।
तदा मुनिः प्रकुपितो निषादं क्रौंचघातकम् १४९।
शशाप वार्युपस्पृश्य सरितः पावनं शुभम् ।
मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः १५०।
यत्क्रौंचपक्षिणोरेकमवधीः काममोहितम् ।
तदा प्रबंधं श्लोकस्य जातं मत्वा ह्यनुद्विजाः १५१।
ऊचुर्मुनिं प्रहृष्टास्ते शंसंतः साधुसाध्विति ।
स्वामिञ्छापोदिते वाक्ये भारतीश्लोकमातनोत् १५२।
अत्यंतं मोहनो जातः श्लोकोऽयं मुनिसत्तम ।
तदा मुनिः प्रहृष्टात्मा बभूव वाडवर्षभ ।
तस्मिन्काले समागत्य ब्रह्मा पुत्रैः समन्वितः १५३।
वचो जगाद वाल्मीकिं धन्योसि त्वं मुनीश्वर ।
भारती त्वन्मुखे स्थित्वा श्लोकत्वं समपद्यत १५४।
तस्माद्रामायणं रम्यं कुरुष्व मधुराक्षरम् ।
येन ते विमला कीर्तिराकल्पांतं भविष्यति १५५।
धन्या सैव मुखे वाणी रामनाम्ना समन्विता ।
अन्या कामकथा नॄणां जनयत्येव पातकम् १५६।
तस्मात्कुरुष्व रामस्य चरितं लोकविश्रुतम् ।
येन स्यात्पापिनां पापहानिरेव पदेपदे १५७।
इत्युक्त्वांतर्दधे स्रष्टा सर्वदेवैः समन्वितः ।
ततः सचिंतयामास कथं रामायणं भवेत् १५८।
तदा ध्यानपरो जातो नदीतीरे मनोरमे ।
तस्य चेतस्यथो रामः प्रादुर्भूतो मनोहरः १५९।
नीलोत्पलदलश्यामं रामं राजीवलोचनम् ।
निरीक्ष्य तस्य चरितं भूतंभाविभवच्च यत् १६०।
तदात्यंतं मुदं प्राप्तो रामायणमथासृजत् ।
मनोरमपदैर्युक्तं वृत्तैर्बहुविधैरपि १६१।
षट्कांडानि सुरम्याणि यत्र रामायणेऽनघ ।
बालमारण्यकं चान्यत्किष्किंधा सुंदरं तथा १६२।
युद्धमुत्तरमन्यच्च षडेतानि महामते ।
शृणुयाद्यो नरः पुण्यात्सर्वपापैः प्रमुच्यते १६३।
तत्र बाले तु संतुष्टः पुत्रेष्ट्या चतुरस्सुतान् ।
प्राप पंक्तिरथः साक्षाद्धरिं ब्रह्मसनातनम् १६४।
स कौशिकमखं गत्वा सीतामुद्वाह्य भार्गवम् ।
आगत्य पुरमुत्कृष्टो यौवराज्यप्रकल्पनम् १६५।
मातृवाक्याद्वनं प्रागाद्गंगामुत्तीर्य पर्वतम् ।
चित्रकूटं महिलया लक्ष्मणेन समन्वितः १६६।
भरतस्तं वने श्रुत्वा जगाम भ्रातरं नयी ।
तमप्राप्य स्वयं नंदिग्रामे वासमचीकरत् १६७।
बालमेतच्छृणुष्वान्यदारण्यकसमुद्भवम् ।
मुनीनामाश्रमे वासस्तत्र तत्रोपवर्णनम् १६८।
नासाच्छेदः शूर्पणख्याः खरदूषणनाशनम् ।
मायामारीचहननं दैत्याद्रामापहारणम् १६९।
वने विरहिणा भ्रांतं मनुष्यचरितं भृतम् ।
कबंधप्रेक्षणं तत्र पम्पायां गमनं तथा १७०।
हनूमता संगमनमित्येतद्वनसंज्ञितम् ।
अपरं च शृणु मुने संक्षिप्य कथयाम्यहम् १७१।
सप्ततालप्रभेदश्च वालेर्मारणमद्भुतम् ।
सुग्रीवे राज्यदानं च नगवर्णनमित्युत १७२।
लक्ष्मणात्कर्मसंदेशः सुग्रीवस्य विवासनम् ।
तथा सैन्यसमुद्देशः सीतान्वेषणमप्युत १७३।
संपातिप्रेक्षणं तत्र वारिधेर्लंघनं तथा ।
परतीरे कपिप्राप्तिः कैष्किंधं कांडमद्भुतम् १७४।
सुंदरं शृणु कांडं वै यत्र रामकथाद्भुता ।
प्रतिगेहे प्रति भ्रांतिः कपेश्चित्रस्य दर्शनम् १७५।
सीतासंदर्शनं तत्र जानक्याभाषणं तथा ।
वनभंगः प्रकुपितैर्बंधनं वानरस्य च १७६।
ततो लंकाप्रज्वलनं वानरैः संगतिस्ततः ।
रामाभिज्ञानदानं च सैन्यप्रस्थानमेव च १७७।
समुद्रे सेतुकरणं शुकसारणसंगतिः ।
इति सुंदरमाख्यातं युद्धे सीतासमागमः १७८।
उत्तरे ऋषिसंवादो यज्ञप्रारंभ एव च ।
तत्रानेका रामकथाः शृण्वतां पापनाशकाः १७९।
इति षट्कांडमाख्यातं ब्रह्महत्यापनोदनम् ।
संक्षेपतो मया तुभ्यमाख्यातं सुमनोहरम् १८०।
चतुर्विंशतिसाहस्रं षट्कांडपरिचिह्नितम् ।
तद्वै रामायणं प्रोक्तं महापातकनाशनम् १८१।
तच्छ्रुत्वा राघवः प्रीतः पुत्रावाधाय चासने ।
दृढं तौ परिरभ्याथ सीतां सस्मार वल्लभाम् १८२।
इति श्रीपद्मपुराणे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे।
रामायणगानंनाम षट्षष्टितमोऽध्यायः ६६।