पद्मपुराणम्/खण्डः ५ (पातालखण्डः)/अध्यायः ०६८

← अध्यायः ०६७ पद्मपुराणम्
अध्यायः ०६८
वेदव्यासः
अध्यायः ०६९ →

शेष उवाच-
परिस्वादन्क्रतौ तृप्तिं न प्राप सुरसंयुतः १।
नारायणो महादेवो ब्रह्मा तत्र चतुर्मुखः ।
वरुणश्च कुबेरश्च तथान्ये लोकपालकाः २।
तत्रास्वाद्य हविः स्निग्धं वसिष्ठेन परिष्कृतम् ।
तत्र पुनर्हि विप्रेंद्राः क्षुधार्ताइव भोजनात् ३।
सर्वान्देवांश्च संतर्प्य हविषा करुणानिधिः ।
वसिष्ठप्रेरितः सर्वमिति कर्तव्यमाचरत् ४।
ब्राह्मणादानसंतुष्टा हविस्तुष्टाः सुरावराः ।
तृप्ताः सर्वे स्वकं भागं गृहीत्वा स्वालयं ययुः ५।
ऋषिभ्यो होतृमुख्येभ्यः प्रादाद्राज्यं चतुर्दिशम् ।
संतुष्टास्ते द्विजाराममाशीर्भिरददुः शुभम् ६।
पूर्णाहुतिं ततः कृत्वा वसिष्ठः प्राह सुस्त्रियः ।
वर्धापयंतु भूमीशं यागपूर्तिकरं परम् ७।
तद्वाक्यं ताः स्त्रियः श्रुत्वा लाजैरवाकिरन्मुदा ।
लावण्यजितकंदर्पं महामणिविभूषितम् ८।
ततोऽवभृथस्नानार्थं प्रेरयामास भूमिपम् ।
ययौ रामः सहस्वीयैः सरयूतीरमुत्तमम् ९।
अनेकराजकोटीभिः परीतः पादचारिभिः ।
जगाम स सरिच्छ्रेष्ठां पक्षिवृंदसमाकुलाम् १०।
तारापतिरिव स्वाभिर्भार्याभिर्वृत उत्प्रभः ।
विरोचते तथा तद्वद्रामो राजगणैर्वृतः ११।
तदुत्सवं समाज्ञाय ययुर्लोकास्त्वरायुताः ।
सीतापतिमुखालोकनिश्चलीभूतलोचनाः १२।
राजेंद्रं सीतया साकं गच्छंतं सरितं प्रति ।
विलोक्य मुदिता लोकाश्चिरं दर्शनलालसाः १३।
अनेक नटगंधर्वा गायंतो यश उज्ज्वलम् ।
अनुजग्मुर्महीशानं सर्वलोकनमस्कृतम् १४।
नर्तक्यस्तत्र नृत्यंत्यः क्षोभयंत्यः पतेर्मनः ।
जलयंत्रैश्च सिंचंत्यो ययुः श्रीरामसेवनम् १५।
महाराजं विलिपंत्यो हरिद्रा कुंकुमादिभिः ।
परस्परं प्रलिपंत्यो मुदं प्रापुर्महत्तराम् १६।
कुचयुग्मोपरिन्यस्तमुक्ताहारसुशोभिताः ।
श्रवणद्वंद्वसंमृष्टस्वर्णकुंडललक्षिताः १७।
अनेकनरनारीभिः संकीर्णं मार्गमाचरन् ।
यथावत्सरितं प्राप शिवपुण्यजलाप्लुताम् १८।
तत्र गत्वा स वैदेह्या रामः कमललोचनः ।
प्रविवेश जलं पुण्यं वसिष्ठादिभिरन्वितः १९।
अनुप्रविविशुः सर्वे राजानो जनतास्तथा ।
तत्पादरजसा पूतजलं लोकैकवंदितम् २०।
परस्परं प्रसिंचंतो जलयंत्रैर्मनोरमैः ।
सुशोणनयनाः सर्वे हर्षं प्रापुर्मनोधिकम् २१।
स रामः सीतया सार्धं चिरं पुण्यजलप्लवे ।
क्रीडित्वा जलकल्लोलैर्निरगाद्धर्मसंयुतः २२।
दुकूलवासाः सकिरीटकुंडलः केयूरशोभावरकंकणान्वितः ।
कंदर्पकोटिश्रियमुद्वहन्नृपो राजाग्र्यवर्यैरुपसंस्तुतो बभौ २३।
सयागयूपं वरवर्णशोभितं कृत्वा सरित्तीरवरे महामनाः ।
त्रैलोक्यलोकश्रियमाप ह्यद्भुतामन्यैर्दुरापां नृपतिर्भुजैर्निजैः २४।
एवं जनकपुत्र्यासौ हयमेधत्रयं चरन् ।
त्रैलोक्ये कीर्तिमतुलां प्राप देवैः सुदुर्लभाम् २५।
एवं ते वर्णितं तात यत्पृष्टो रामसत्कथाम् ।
विस्तृतः कथितो मेधो भूयः किं पृच्छसे द्विज २६।
यः शृणोति हरेर्भक्त्या रामचंद्रस्य सन्मखम् ।
ब्रह्महत्यां क्षणात्तीर्त्वा ब्रह्मशाश्वतमाप्नुयात् २७।
अपुत्रो लभते पुत्रान्निर्धनो धनमाप्नुयात् ।
रोगार्तो मुच्यते रोगाद्बद्धो मुच्येत बंधनात् २८।
यत्कथाश्रवणाद्दुष्टः श्वपचोऽपि परं पदम् ।
प्राप्नोति किमु विप्राग्र्यो रामभक्तिपरायणः २९।
रामं स्मृत्वा महाभागं पापिनः परमं पदम् ।
प्राप्नुयुः परमं स्वर्गं शक्रदेवादिदुर्लभम् ३०।
ते धन्या मानवा लोके ये स्मरंति रघूत्तमम् ।
ते क्षणात्संसृतिं तीर्त्वा गच्छंति सुखमव्ययम् ३१।
प्रत्येकमक्षरं ब्रह्महत्यावंशदवानलः ।
तं यः श्रावयते धीमांस्तं गुरुं संप्रपूजयेत् ३२।
श्रुत्वा कथां वाचकाय गवां द्वंद्वं प्रदापयेत् ।
सपत्नीकाय संपूज्य वस्त्रालंकारभोजनैः ३३।
कुंडलाभ्यां विराजंत्यौ मुद्रिकाभिरलंकृते ।
रामसीते स्वर्णमय्यौ प्रतिमे शोभने वरे ३४।
कृत्वा तु वाचकायैव दीयते भो द्विजोत्तम ।
तस्य देवाश्च पितरो वैकुंठं प्राप्नुयुस्तदा ३५।
त्वया पृष्टा रामकथा मया ते कथिता पुरा ।
किमन्यत्कथ्यतां ब्रह्मन्पुरतस्तव धीमतः ३६।
शृण्वंति ये कथामेतां ब्रह्महत्यौघनाशिनीम् ।
ते यांति परमं स्थानं यच्च देवैः सुदुर्लभम् ३७।
गोघ्नश्चापि सुतघ्नश्च सुरापो गुरुतल्पगः ।
क्षणात्पूतो भवत्येव नात्र संशयितुं क्षमम् ३८।
इति श्रीपद्मपुराणे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे श्रवणपठनपुण्यवर्णनं नामाष्टषष्टितमोऽध्यायः ६८।
इति रामाश्वमेधप्रकरणं समाप्तम् ।