पद्मपुराणम्/खण्डः ५ (पातालखण्डः)/अध्यायः ०६९

← अध्यायः ०६८ पद्मपुराणम्
अध्यायः ०६९
वेदव्यासः
अध्यायः ०७० →

ऋषय ऊचुः -
सम्यक्छ्रुतो महाभाग त्वत्तो रामाश्वमेधकः ।
इदानीं वद माहात्म्यं श्रीकृष्णस्य महात्मनः १।
सूत उवाच-।
शृण्वंतु मुनिशार्दूलाः श्रीकृष्णचरितामृतम् ।
शिवा पप्रच्छ भूतेशं यत्तद्वः कीर्तयाम्यहम् २।
एकदा पार्वती देवी शिवं संस्निग्धमानसा ।
प्रणयेन नमस्कृत्य प्रोवाच वचनं त्विदम् ३।
पार्वत्युवाच-।
अनंतकोटिब्रह्मांड तद्बाह्याभ्यंतरस्थितेः ।
विष्णोः स्थानं परं तेषां प्रधानं वरमुत्तमम् ४।
यत्परं नास्ति कृष्णस्य प्रियं स्थानं मनोरमम् ।
तत्सर्वं श्रोतुमिच्छामि कथयस्व महाप्रभो ५।
ईश्वर उवाच-।
गुह्याद्गुह्यतरं गुह्यं परमानंदकारकम् ।
अत्यद्भुतं रहःस्थानमानंदं परमं परम् ६।
दुर्लभानां च परमं दुर्लभं मोहनं परम् ।
सर्वशक्तिमयं देवि सर्वस्थानेषु गोपितम् ७।
सात्वतां स्थानमूर्द्धन्यं विष्णोरत्यंतदुर्लभम् ।
नित्यं वृंदावनं नाम ब्रह्मांडोपरि संस्थितम् ८।
पूर्णब्रह्मसुखैश्वर्यं नित्यमानंदमव्ययम् ।
वैकुंठादि तदंशांशं स्वयं वृंदावनं भुवि ९।
गोलोकैश्वर्यं यत्किंचिद्गोकुले तत्प्रतिष्ठितम् ।
वैकुंठवैभवं यद्वै द्वारिकायां प्रतिष्ठितम् १०।
यद्ब्रह्मपरमैश्वर्यं नित्यं वृंदावनाश्रयम् ।
कृष्णधामपरं तेषां वनमध्ये विशेषतः ११।
तस्मात्त्रैलोक्यमध्ये तु पृथ्वी धन्येति विश्रुता ।
यस्मान्माथुरकं नाम विष्णोरेकांतवल्लभम् १२।
स्वस्थानमधिकं नामधेयं माथुरमंडलम् ।
निगूढं विविधं स्थानं पुर्यभ्यंतरसंस्थितम् १३।
सहस्रपत्रकमलाकारं माथुरमंडलम् ।
विष्णुचक्रपरिभ्रामाद्धाम वैष्णवमद्भुतम् १४।
कर्णिकापर्णविस्तारं रहस्यद्रुममीरितम् ।
प्रधानं द्वादशारण्यं माहात्म्यं कथितं क्रमात् १५।
भद्र श्री लोह भांडीर महाताल खदीरकाः ।
बकुलं कुमुदं काम्यं मधु वृंदावनं तथा १६।
द्वादशैतावती संख्या कालिंद्याः सप्त पश्चिमे ।
पूर्वे पंचवनं प्रोक्तं तत्रास्ति गुह्यमुत्तमम् १७।
महारण्यं गोकुलाख्यं मधु वृंदावनं तथा ।
अन्यच्चोपवनं प्रोक्तं कृष्णक्रीडारसस्थलम् १८।
कदंबखंडनं नंदवनं नंदीश्वरं तथा ।
नंदनंदनखंडं च पलाशाशोककेतकी १९।
सुगंधमानसं कैलममृतं भोजनस्थलम् ।
सुखप्रसाधनं वत्सहरणं शेषशायिकम् २०।
श्यामपूर्वो दधिग्रामश्चक्रभानुपुरं तथा ।
संकेतं द्विपदं चैव बालक्रीडनधूसरम् २१।
कामद्रुमं सुललितमुत्सुकं चापि काननम् ।
नानाविधरसक्रीडा नानालीलारसस्थलम् २२।
नागविस्तारविष्टंभं रहस्यद्रुममीरितम् ।
सहस्रपत्रकमलं गोकुलाख्यं महत्पदम् २३।
कर्णिकातन्महद्धाम गोविंदस्थानमुत्तमम् ।
तत्रोपरि स्वर्णपीठे मणिमंडपमंडितम् २४।
कर्णिकायां क्रमाद्दिक्षु विदिक्षु दलमीरितम् ।
यद्दलं दक्षिणे प्रोक्तं परं गुह्योत्तमोत्तमम् २५।
तस्मिन्दले महापीठं निगमागमदुर्गमम् ।
योगींद्रैरपि दुष्प्रापं सर्वात्मा यच्च गोकुलम् २६।
द्वितीयं दलमाग्नेय्यां तद्रहस्यदलं तथा ।
संकेतं द्विपदं चैव कुटीद्वौ तत्कुले स्थितौ २७।
पूर्वं दलं तृतीयं च प्रधानस्थानमुत्तमम् ।
गंगादिसर्वतीर्थानां स्पर्शाच्छतगुणं स्मृतम् २८।
चतुर्थं दलमैशान्यां सिद्धपीठेऽपि तत्पदम् ।
व्यायामनूतनागोपी तत्र कृष्णं पतिं लभेत् २९।
वस्त्रालंकारहरणं तद्दले समुदाहृतम् ।
उत्तरे पंचमं प्रोक्तं दलं सर्वदलोत्तमम् ३०।
द्वादशादित्यमत्रैव दलं च कर्णिकासमम् ।
वायव्यां तु दलं षष्ठं तत्र कालीह्रदः स्मृतः ३१।
दलोत्तमोत्तमं चैव प्रधानं स्थानमुच्यते ।
सर्वोत्तमदलं चैव पश्चिमे सप्तमं स्मृतम् ३२।
यज्ञपत्नीगणानां च तदीप्सितवरप्रदम् ।
अत्रासुरोऽपि निर्वाणं प्राप त्रिदशदुर्लभम् ३३।
ब्रह्ममोहनमत्रैव दलं ब्रह्मह्रदावहम् ।
नैर्ऋत्यां तु दलं प्रोक्तमष्टमं व्योमघातनम् ३४।
शंखचूडवधस्तत्र नानाकेलिरसस्थलम् ।
श्रुतमष्टदलं प्रोक्तं वृंदारण्यांतरस्थितम् ३५।
श्रीमद्वृंदावनं रम्यं यमुनायाः प्रदक्षिणम् ।
शिवलिंगमधिष्ठानं दृष्टं गोपीश्वराभिधम् ३६।
तद्बाह्ये षोडशदलं श्रियापूर्णं तमीश्वरम् ।
सर्वासु दिक्षु यत्प्रोक्तं प्रादक्षिण्याद्यथाक्रमम् ३७।
महत्पदं महद्धाम स्वधामाधावसंज्ञकम् ।
प्रथमैकदलं श्रेष्ठं माहात्म्यं कर्णिकासमम् ३८।
तत्र गोवर्द्धनगिरौ रम्ये नित्यरसाश्रये ।
कर्णिकायां महालीला तल्लीला रसगह्वरौ ३९।
यत्र कृष्णो नित्यवृंदाकाननस्य पतिर्भवेत् ।
कृष्णो गोविंदतां प्राप्तः किमन्यैर्बहुभाषितैः ४०।
दलं तृतीयमाख्यातं सर्वश्रेष्ठोत्तमोत्तमम् ।
चतुर्थं दलमाख्यातं महाद्भुतरसस्थलम् ४१।
नंदीश्वरवनं रम्यं तत्र नंदालयः स्मृतः ।
कर्णिकादलमाहात्म्यं पंचमं दलमुच्यते ४२।
अधिष्ठाताऽत्र गोपालो धेनुपालनतत्परः ।
षष्ठं दलं यदाख्यातं तत्र नंदवनं स्मृतम् ४३।
सप्तमं बकुलारण्यं दलं रम्यं प्रकीर्तितम् ।
तत्राष्टमं तालवनं तत्र धेनुवधः स्मृतः ४४।
नवमं कुमुदारण्यं दलं रम्यं प्रकीर्तितम् ।
कामारण्यं च दशमं प्रधानं सर्वकारणम् ४५।
ब्रह्मप्रसाधनं तत्र विष्णुच्छद्मप्रदर्शनम् ।
कृष्णक्रीडारसस्थानं प्रधानं दलमुच्यते ४६।
दलमेकादशं प्रोक्तं भक्तानुग्रहकारणम् ।
निर्माणं सेतुबंधस्य नानावनमयस्थलम् ४७।
भांडीरं द्वादशदलं वनं रम्यं मनोहरम् ।
कृष्णः क्रीडारतस्तत्र श्रीदामादिभिरावृतः ४८।
त्रयोदशं दलं श्रेष्ठं तत्र भद्रवनं(रं) स्मृतम् ।
चतुर्दशदलं प्रोक्तं सर्वसिद्धिप्रदस्थलम् ४९।
श्रीवनं तत्र रुचिरं सर्वैश्वर्यस्य कारणम् ।
कृष्णक्रीडादलमयं श्रीकांतिकीर्तिवर्द्धनम् ५०।
दलं पंचदशं श्रेष्ठं तत्र लोहवनं स्मृतम् ।
कथितं षोडशदलं माहात्म्यं कर्णिकासमम् ५१।
महावनं तत्र गीतं तत्रास्ति गुह्यमुत्तमम् ।
बालक्रीडारतस्तत्र वत्सपालैः समावृतः ५२।
पूतनादिवधस्तत्र यमलार्जुनभंजनम् ।
अधिष्ठाता तत्र बालगोपालः पंचमाब्दिकः ५३।
नाम्ना दामोदरः प्रोक्तः प्रेमानंदरसार्णवः ।
दलं प्रसिद्धमाख्यातं सर्वश्रेष्ठदलोत्तमम् ५४।
कृष्णक्रीडा च किंजल्की विहारदलमुच्यते ।
सिद्धप्रधानकिंजल्क दलं च समुदाहृतम् ५५।
पार्वत्युवाच-।
वृंदारण्यस्य माहात्म्यं रहस्यं वा किमद्भुतम् ।
तदहं श्रोतुमिच्छामि कथयस्व महाप्रभो ५६।
ईश्वर उवाच-।
कथितं ते प्रियतमे गुह्याद्गुह्योत्तमोत्तमम् ।
रहस्यानां रहस्यं यद्दुर्लभानां च दुर्लभम् ५७।
त्रैलोक्यगोपितं देवि देवेश्वरसुपूजितम् ।
ब्रह्मादिवांछितं स्थानं सुरसिद्धादिसेवितम् ५८।
योगींद्रा हि सदा भक्त्या तस्य ध्यानैकतत्पराः ।
अप्सरोभिश्च गंधर्वैर्नृत्यगीतनिरंतरम् ५९।
श्रीमद्वृंदावनं रम्यं पूर्णानंदरसाश्रयम् ।
भूरिचिंतामणिस्तोयममृतं रसपूरितम् ६०।
वृक्षं गुरुद्रुमं तत्र सुरभीवृंदसेवितम् ।
स्त्रीं लक्ष्मीं पुरुषं विष्णुं तद्दशांशसमुद्भवम् ६१।
तत्र कैशोरवयसं नित्यमानंदविग्रहम् ।
गतिनाट्यं कलालापस्मितवक्त्रं निरंतरम् ६२।
शुद्धसत्वैः प्रेमपूर्णैर्वैष्णवैस्तद्वनाश्रितम् ।
पूर्णब्रह्मसुखेमग्नं स्फुरत्तन्मूर्तितन्मयम् ६३।
मत्तकोकिलभृंगाद्यैः कूजत्कलमनोहरम् ।
कपोलशुकसंगीतमुन्मत्तालि सहस्रकम् ६४।
भुजंगशत्रुनृत्याढ्यं सकलामोदविभ्रमम् ।
नानावर्णैश्च कुसुमैस्तद्रेणुपरिपूरितम् ६५।
पूर्णेंदुनित्याभ्युदयं सूर्यमंदांशुसेवितम् ।
अदुःखं दुःखविच्छेदं जरामरणवर्जितम् ६६।
अक्रोधं गतमात्सर्यमभिन्नमनहंकृतम् ।
पूर्णानंदामृतरसं पूर्णप्रेमसुखार्णवम् ६७।
गुणातीतं महद्धाम पूर्णप्रेमस्वरूपकम् ।
वृक्षादिपुलकैर्यत्र प्रेमानंदाश्रुवर्षितम् ६८।
किं पुनश्चेतनायुक्तैर्विष्णुभक्तैः किमुच्यते ।
गोविंदांघ्रिरजः स्पर्शान्नित्यं वृंदावनं भुवि ६९।
सहस्रदलपद्मस्य वृंदारण्यं वराटकम् ।
यस्य स्पर्शनमात्रेण पृथ्वी धन्या जगत्त्रये ७०।
गुह्याद्गुह्यतरं रम्यं मध्ये वृंदावनं भुवि ।
अक्षरं परमानंदं गोविंदस्थानमव्ययम् ७१।
गोविंददेहतोऽभिन्नं पूर्णब्रह्मसुखाश्रयम् ।
मुक्तिस्तत्र रजःस्पर्शात्तन्माहात्म्यं किमुच्यते ७२।
तस्मात्सर्वात्मना देवि हृदिस्थं तद्वनं कुरु ।
वृंदावनविहारेषु कृष्णं कैशोरविग्रहम् ७३।
कालिंदी चाकरोद्यस्य कर्णिकायां प्रदक्षिणाम् ।
लीलानिर्वाणगंभीरं जलं सौरभमोहनम् ७४।
आनंदामृत तन्मिश्रमकरंदघनालयम् ।
पद्मोत्पलाद्यैः कुसुमैर्नानावर्णसमुज्जवलम् ७५।
चक्रवाकादिविहगैर्मंजुनानाकलस्वनैः ।
शोभमानं जलं रम्यं तरंगातिमनोरमम् ७६।
तस्योभयतटी रम्या शुद्धकांचननिर्मिता ।
गंगाकोटिगुणा प्रोक्ता यत्र स्पर्शवराटकः ७७।
कर्णिकायां कोटिगुणो यत्र क्रीडारतो हरिः ।
कालिंदीकर्णिका कृष्णमभिन्नमेकविग्रहम् ७८।
पार्वत्युवाच।
गोविंदस्य किमाश्चर्यं सौंदर्याकृतविग्रह ।
तदहं श्रोतुमिच्छामि कथयस्व दयानिधे ७९।
ईश्वर उवाच।
मध्ये वृंदावने रम्ये मंजुमंजीरशोभिते ।
योजनाश्रितसद्वृक्ष शाखापल्लवमंडिते ८०।
तन्मध्ये मंजुभवने योगपीठं समुज्जवलम् ।
तदष्टकोणनिर्माणं नानादीप्तिमनोहरम् ८१।
तस्योपरि च माणिक्यरत्नसिंहासनं शुभम् ।
तस्मिन्नष्टदलं पद्मं कर्णिकायां सुखाश्रयम् ८२।
गोविंदस्य परं स्थानं किमस्य महिमोच्यते ।
श्रीमद्गोविंदमंत्रस्थ बल्लवीवृंदसेवितम् ८३।
दिव्यव्रजवयोरूपं कृष्णं वृंदावनेश्वरम् ।
व्रजेंद्रं संततैश्वर्यं व्रजबालैकवल्लभम् ८४।
यौवनोद्भिन्नकैशोरं वयसाद्भुतविग्रहम् ।
अनादिमादिं सर्वेषां नंदगोपप्रियात्मजम् ८५।
श्रुतिमृग्यमजं नित्यं गोपीजनमनोहरम् ।
परंधाम परं रूपं द्विभुजं गोकुलेश्वरम् ८६।
बल्लवीनंदनं ध्यायेन्निर्गुणस्यैककारणम् ।
सुश्रीमंतं नवं स्वच्छं श्यामधाममनोहरम् ८७।
नवीननीरदश्रेणी सुस्निग्धं मंजुकुंडलम् ।
फुल्लेंदीवरसत्कांति सुखस्पर्शं सुखावहम् ८८।
दलितांजनपुंजाभ चिक्कणं श्याममोहनम् ।
सुस्निग्धनीलकुटिलाशेषसौरभकुंतलम् ८९।
तदूर्ध्वं दक्षिणे काले श्यामचूडामनोहरम् ।
नानावर्णोज्ज्वलं राजच्छिखंडिदलमंडितम् ९०।
मंदारमंजुगोपुच्छाचूडं चारुविभूषणम् ।
क्वचिद्बृहद्दलश्रेणी मुकुटेनाभिमंडितम् ९१।
अनेकमणिमाणिक्यकिरीटभूषणं क्वचित् ।
लोलालकवृतं राजत्कोटिचंद्रसमाननम् ९२।
कस्तूरीतिलकं भ्राजन्मंजुगोरोचनान्वितम् ।
नीलेंदीवरसुस्निग्ध सुदीर्घदललोचनम् ९३।
आनृत्यद्भ्रूलताश्लेषस्मितं साचि निरीक्षणम् ।
सुचारून्नतसौंदर्य नासाग्राति मनोहरम् ९४।
नासाग्रगजमुक्तांशु मुग्धीकृत जगत्त्रयम् ।
सिंदूरारुणसुस्निग्धाधरौष्ठसुमनोहरम् ९५।
नानावर्णोल्लसत्स्वर्णमकराकृतिकुंडलम् ।
तद्रश्मिपुंजसद्गंड मुकुराभलसद्द्युतिम् ९६।
कर्णोत्पलसुमंदारमकरोत्तंस भूषितम् ।
श्रीवत्सकौस्तुभोरस्कं मुक्ताहारस्फुरद्गलम् ९७।
विलसद्दिव्यमाणिक्यं मंजुकांचन मिश्रितम् ।
करे कंकणकेयूरं किंकिणीकटिशोभितम् ९८।
मंजुमंजीरसौंदर्य्यश्रीमदंघ्रि विराजितम् ।
कर्पूरागुरुकस्तूरीविलसच्चंदनादिकम् ९९।
गोरोचनादिसंमिश्र दिव्यांगरागचित्रितम् ।
स्निग्धपीतपटी राजत्प्रपदांदोलितांजनम् १००।
गंभीरनाभिकमलं रोमराजीनतस्रजम् ।
सुवृत्तजानुयुगलं पादपद्ममनोहरम् १०१।
ध्वजवज्रांकुशांभोज करांघ्रि तलशोभितम् ।
नखेंदु किरणश्रेणी पूर्णब्रह्मैककारणम् १०२।
केचिद्वदंति तस्यांशं ब्रह्मचिद्रूपमद्वयम् ।
तद्दशांशं महाविष्णुं प्रवदंति मनीषिणः १०३।
योगींद्रैः सनकाद्यैश्च तदेव हृदि चिंत्यते ।
त्रिभंगं ललिताशेष निर्माणसारनिर्मितम् १०४।
तिर्यग्ग्रीवजितानंतकोटिकंदर्पसुंदरम् ।
वामांसार्पित सद्गण्डस्फुरत्कांचनकुंडलम् १०५।
सहापांगेक्षणस्मेरं कोटिमन्मथसुंदरम् ।
कुंचिताधरविन्यस्त वंशीमंजुकलस्वनैः १०६।
जगत्त्रयं मोहयंतं मग्नं प्रेमसुधार्णवे ।
श्रीपार्वत्युवाच-।
परमं कारणं कृष्णं गोविंदाख्यं महत्पदम् १०७।
वृंदावनेश्वरं नित्यं निर्गुणस्यैककारणम् ।
तत्तद्रहस्यमाहात्म्यं किमाश्चर्यं च सुंदरम् १०८।
तद्ब्रूहि देवदेवेश श्रोतुमिच्छाम्यहं प्रभो ।
ईश्वर उवाच-।
यदंघ्रिनखचंद्रांशु महिमांतो न गम्यते १०९।
तन्माहात्म्यं कियद्देवि प्रोच्यते त्वं मुदा शृणु ।
अनंतकोटिब्रह्मांडे अनंतत्रिगुणोच्छ्रये ११०।
तत्कलाकोटिकोट्यंशा ब्रह्मविष्णुमहेश्वराः ।
सृष्टिस्थित्यादिना युक्तास्तिष्ठंति तस्य वैभवाः १११।
तद्रूपकोटिकोट्यंशाः कलाः कंदर्पविग्रहाः ।
जगन्मोहं प्रकुर्वंति तदंडांतरसंस्थिताः ११२।
तद्देहविलसत्कांतिकोटिकोट्यंशको विभुः ।
तत्प्रकाशस्य कोट्यंश रश्मयो रविविग्रहाः ११३।
तस्य स्वदेहकिरणैः परानंद रसामृतैः ।
परमामोदचिद्रूपैर्निर्गुणस्यैककारणैः ११४।
तदंशकोटिकोट्यंशा जीवंति किरणात्मकाः ।
तदंघ्रिपंकजद्वंद्व नखचंद्र मणिप्रभाः ११५।
आहुः पूर्णब्रह्मणोऽपि कारणं वेददुर्गमम् ।
तदंशसौरभानंतकोट्यंशो विश्वमोहनः ११६।
तत्स्पर्शपुष्पगंधादि नानासौरभसंभवः ।
तत्प्रिया प्रकृतिस्त्वाद्या राधिका कृष्णवल्लभा ११७।
तत्कलाकोटिकोट्यंशा दुर्गाद्यास्त्रिगुणात्मिकाः ।
तस्या अंघ्रिरजः स्पर्शात्कोटिविष्णुः प्रजायते ११८।
इति श्रीपद्मपुराणे पातालखंडे वृंदावनमाहात्म्ये कृष्णचरित्रे।
एकोनसप्ततितमोऽध्यायः ६९।