पद्मपुराणम्/खण्डः ५ (पातालखण्डः)/अध्यायः ०८१

← अध्यायः ०८० पद्मपुराणम्
अध्यायः ०८१
वेदव्यासः
अध्यायः ०८२ →

ऋषय ऊचु-
सूत जीव चिरं साधो श्रीकृष्णचरितामृतम् ।
त्वया प्रकाशितं सर्वं भक्तानां भवतारणम् १।
श्रीकृष्णलीलां निखिलां ब्रूहि दैनंदिनीं प्रभो ।
ययाकर्णितया साधो कृष्णे भक्तिर्विवर्द्धते २।
गुरोः शिष्यस्य मंत्रस्य विधानं लक्षणं पृथक् ।
वदास्माकं महाभाग त्वं हि नः परमः सुहृत् ३।
सूत उवाच-
एकदा यमुनातीरे समासीनं जगद्गुरुम् ।
नारदः प्रणिपत्याह देवदेवं सदाशिवम् ४।
नारद उवाच-
देवदेव महादेव सर्वज्ञ जगदीश्वर ।
भगवद्धर्मतत्त्वज्ञ कृष्णमंत्रविदां वर ५।
कृष्णमंत्रा मया लब्धास्त्वत्तो ये च पितुः परे ।
ते सर्वे साधितास्तत्वान्मंत्रराजादयो मया ६।
बहुवर्षसहस्रैस्तु शाकमूलफलाशिना ।
शुष्कपर्णांबुवाय्वादि भोजिना च निराशिना ७।
स्त्रीणां संदर्शनालापवर्जिना भूमिशायिना ।
कामादिषड्गुणं जित्वा बाह्येंद्रियनियम्यता ८।
एवंकृतेऽपि नैवात्मा संतुष्टो मम शंकर ।
तद्ब्रूहि यत्प्रसिध्येत संस्काराद्यैर्विना प्रभो ९।
सकृदुच्चारणादेव ददाति फलमुत्तमम् ।
यदि योग्योऽस्मि देवेश तदा मे कृपया वद १०।
शिव उवाच-
साधु पृष्टं महाभाग त्वया लोकहितैषिणा ।
सुगोप्यमपि वक्ष्यामि मंत्रचिंतामणिं तव ११।
रहस्यानां रहस्यं यद्गुह्यानां गुह्यमुत्तमम् ।
न मया कथितं देव्यै नाग्रजेभ्यः पुरा तव १२।
वक्ष्यामि युगलं तुभ्यं कृष्णमंत्रमनुत्तमम् ।
मंत्रचिंतामणिर्नाम युगलं द्वयमेव च १३।
पर्याया अस्य मंत्रस्य तथा पंचपदीति च ।
गोपीजनपदं वल्लभां तं तु चरणानिति १४।
शरणं च प्रपद्ये च एष पंचपदात्मकः ।
मंत्रचिंतामणिः प्रोक्तः षोडशार्णो महामनुः १५।
नमो गोपीजनेत्युक्त्वा वल्लभाभ्यां वदेत्ततः ।
पदद्वयात्मको मंत्रो दशार्णः खलु कथ्यते १६।
एतां पंचपदीं जप्त्वा श्रद्धयाश्रद्धया सकृत् ।
कृष्णप्रियाणां सान्निध्यं गच्छत्येव न संशयः १७।
न पुरश्चरणप्रेक्षा नास्य न्यासविधिक्रमः ।
न देशकालनियमो नारिमित्रादिशोधनम् १८।
सर्वेऽधिकारिणश्चात्र चंडालांता मुनीश्वर ।
स्त्रियः शूद्रादयश्चापि जडमूकादि पंगवः १९।
अन्ये हूणाः किराताश्च पुलिंदाः पुष्कसास्तथा ।
आभीराय वनाः कंकाः खसाद्याः पापयोनयः २०।
दंभाहंकारपरमाः पापाः पैशुन्यतत्पराः ।
गोब्राह्मणादि हंतारो महोपपातकान्विताः २१।
ज्ञानवैराग्यरहिताः श्रवणादिविवर्जिताः ।
एते चान्ये च सर्वे स्युर्मनोरस्याधिकारिणः २२।
यदि भक्तिर्भवेदेषां कृष्णे सर्वेश्वरेश्वरे ।
तदाधिकारिणः सर्वे नान्यथा मुनिसत्तम २३।
याज्ञिको दाननिरतः सर्वतंत्रोपसेवकः ।
सत्यवादी यतिर्वापि वेदवेदांगपारगः २४।
ब्रह्मनिष्ठः कुलीनो वा तपस्वी व्रततत्परः ।
अत्राधिकारी न भवेत्कृष्णभक्तिविवर्जितः २५।
तस्मादकृष्णभक्ताय कृतघ्नाय न मानिने ।
न च श्रद्धाविहीनाय वक्तव्यं नास्तिकाय च २६।
न चाशुश्रूषवे वाच्यं नासंवत्सरसेविने ।
श्रीकृष्णेऽनन्यभक्ताय दंभलोभविवर्जिने २७।
कामक्रोधविमुक्ताय देयमेतत्प्रयत्नतः ।
ऋषिश्चैवाहमेतस्य गायत्रीछंद उच्यते २८।
देवता बल्लवीकांतो मंत्रस्य परिकीर्तितः ।
सप्रियस्य हरेर्दास्ये विनियोग उदाहृतः २९।
आचक्राद्यैस्तथा मंत्रैः पंचांगानि प्रकल्पयेत् ।
अथवापि स्वबीजेन करांगन्यासकौ चरेत् ३०।
मंत्रस्य प्रथमो वर्णो बिंदुना मूर्ध्निभूषितः ।
गमित्येवं भवेद्बीजं नमः शक्तिरिहोदिता ३१।
अंतिमार्णैर्दशांगानि तैरेव च तथार्चनम् ।
गंधपुष्पादिभिस्तच्च जलैरेवाप्यसंभवे ३२।
न्यासपूर्वविधानेन कर्तव्यं हरितुष्टये ।
अतएवास्य मंत्रस्य न्यासाद्यन्ये वदंति च ३३।
सकृदुच्चारणादेव कृतकृत्यत्वदायिनः ।
तथापि दशधा नित्यं जपाद्यर्थं प्रविन्यसेत् ३४।
अथ ध्यानं प्रवक्ष्यामि मंत्रस्यास्य द्विजोत्तम ।
पीतांबरं घनश्यामं द्विभुजं वनमालिनम् ३५।
बर्हिबर्हकृतोत्तंसं शशिकोटिनिभाननम् ।
घूर्णायमाननयनं कर्णिकारावतंसिनम् ३६।
अभितश्चंदनेनाथ मध्ये कुंकुमबिंदुना ।
रचितं तिलकं भाले बिभ्रतं मंडलाकृतिम् ३७।
तरुणादित्यसंकाशं कुंडलाभ्यां विराजितम् ।
घर्माम्बुकणिकाराजद्दर्पणाभकपोलकम् ३८।
प्रियास्य न्यस्तनयनं लीलापांगोन्नतभ्रुवम् ।
अग्रभागन्यस्तमुक्ता विस्फुरत्प्रोच्चनासिकम् ३९।
दशनज्योत्स्नया राजत्पक्वबिंबफलाधरम् ।
केयूरांगदसद्रत्नमुद्रिकाभिर्लसत्करम् ४०।
बिभ्रतं मुरलद्यं वामे पाणौ पद्मं तथैव च ।
कांचीदामस्फुरन्मध्यं नूपुराभ्यां लसत्पदम् ४१।
रतिकेलिरसावेश चपलं चपलेक्षणम् ।
हसंतं प्रियया सार्द्धं हासयंतं च तां मुहुः ४२।
इत्थं कल्पतरोर्मूले रत्नसिंहासनोपरि ।
वृंदारण्ये स्मरेत्कृष्णं संस्थितं प्रियया सह ४३।
वामपार्श्वे स्थितां तस्य राधिकां च स्मरेत्ततः ।
नीलचोलकसंवीतां तप्तहेमसमप्रभाम् ४४।
पट्टांचलेनावृतार्द्ध सुस्मेराननपंकजाम् ।
कांतवक्त्रे न्यस्तनेत्रां चकोरी चंचलेक्षणाम् ४५।
अंगुष्ठतर्जनीभ्यां च निजकांतमुखांबुजे ।
अर्पयंतीं पूगफलं पर्णचूर्णसमन्वितम् ४६।
मुक्ताहारस्फुरच्चारु पीनोन्नतपयोधराम् ।
क्षीणमध्यां पृथुश्रोणीं किंकिणीजालमंडिताम् ४७।
रत्नताटंककेयूरमुद्रा वलयधारिणीम् ।
रणत्कटकमंजीर रत्नपादांगुलीयकाम् ४८।
लावण्यसारमुग्धांगीं सर्वावयवसुंदरीम् ।
आनंदरससंमग्नां प्रसन्नां नवयौवनाम् ४९।
सख्यश्च तस्या विप्रेंद्र तत्समानवयोगुणाः ।
तत्सेवनपराभाव्याश्चामरव्यजनादिभिः ५०।
अथ तुभ्यं प्रवक्ष्यामि मंत्रार्थं शृणु नारद ।
बहिरंगैः प्रपंचस्य स्वांशैर्मायादि शक्तिभिः ५१।
अंतरंगैस्तथा नित्यविभूतैस्तैश्चिदादिभिः ।
गोपनादुच्यते गोपी राधिका कृष्णवल्लभा ।
देवी कृष्णमयी प्रोक्ता राधिका परदेवता ५२।
सर्वलक्ष्मीस्वरूपा सा कृष्णाह्लादस्वरूपिणी ।
ततः सा प्रोच्यते विप्र ह्लादिनीति मनीषिभिः ५३।
तत्कलाकोटिकोट्यंश दुर्गाद्यास्त्रिगुणात्मिकाः ।
सा तु साक्षान्महालक्ष्मीः कृष्णो नारायणः प्रभुः ५४।
नैतयोर्विद्यते भेदः स्वल्पोऽपि मुनिसत्तम ।
इयं दुर्गा हरी रुद्रः कृष्णः शक्र इयं शची ५५।
सावित्रीयं हरिर्ब्रह्मा धूमोर्णासौ यमो हरिः ।
बहुना किं मुनिश्रेष्ठ विना ताभ्यां न किंचन ५६।
चिदचिल्लक्षणं सर्वं राधाकृष्णमयं जगत् ।
इत्थं सर्वं तयोरेव विभूतिं विद्धि नारद ५७।
न शक्यते मया वक्तुं वर्षकोटिशतैरपि ।
त्रैलोक्ये पृथिवी मान्या जंबूद्वीपं ततोवरम् ५८।
तत्रापि भारतं वर्षं तत्रापि मथुरापुरी ।
तत्र वृंदावनं नाम तत्र गोपीकदंबकम् ५९।
तत्र राधासखीवर्गस्तत्रापि राधिका वरा ।
सांनिध्याधिक्यतस्तस्या आधिक्यं स्याद्यथोत्तरम् ६०।
पृथिवी प्रभृतीनां तु नान्यत्किंचिदिहोदितम् ।
सैषा हि राधिका गोपी जनस्तस्याः सखीगणः ६१।
तस्याः सखीसमूहस्य वल्लभौ प्राणनायकौ ।
राधाकृष्णौ तयोः पादाः शरणं स्यादिहाश्रये ६२।
प्रपद्ये गतवानस्मि जीवोऽहं भृशदुःखितः ।
सोऽहं यः शरणं प्राप्तो मम तस्य यदस्ति च ६३।
सर्वं ताभ्यां तदर्थं हि तद्भोग्यं न ह्यहं मम ।
इत्यसौ कथितो विप्र मंत्रस्यार्थः समासतः ६४।
युगलार्थस्तथा न्यासः प्रपत्तिः शरणागतिः ।
आत्मार्पणमिमे पंच पर्यायास्ते मयोदिताः ६५।
अयमेव चिंतनीयो दिवानक्तमतंद्रितैः ६६।
इति श्रीपद्मपुराणे पातालखंडे वृंदावनमाहात्म्ये एकाशीतितमोऽध्यायः ८१।