पद्मपुराणम्/खण्डः ५ (पातालखण्डः)/अध्यायः ०९६

← अध्यायः ०९५ पद्मपुराणम्
अध्यायः ०९६
वेदव्यासः
अध्यायः ०९७ →

ऋषय ऊचुः -
सूतसूतमहाप्राज्ञ जीवजीव शतंसमाः ।
यद्वयं पुण्यसमयं श्राविता जगतो हितम् १।
वद भूयोऽपि भूयिष्ठं पिबामस्तावकं वचः ।
पायंपायं न तृप्यामो वयं सूत तदुत्तमम् २।
सूत उवाच-
अत्राप्युदाहरंतीममितिहासं पुरातनम् ।
संवादमादिलोकस्य जगतां जगदीशितुः ३।
षट्सहस्राणिचोच्छ्रायो विस्तारेण पुनस्त्रयम् ।
एवं नवसहस्राणि योजनानां विधाय च ४।
वामया दंष्ट्रया गृह्य उद्धृतादौ वसुंधरा ।
दिव्यवर्षसहस्रं वै दंष्ट्रया धारिता मही ५।
धर्माख्यानप्रसंगेन सोवाच विनयाद्विभुम् ।
पृथिव्युवाच-
एते द्वादश मासा वै षष्टिर्दिनशतत्रयम् ६।
एषां किमुत्तमं पुण्यं प्रियं च तव केशव ।
पवित्रः कार्तिको मासस्तुलासंस्थे दिवाकरे ७।
मकरस्थे रवौ मासः पुराणे पावनः स्मृतः ।
मेषस्थे माधवो मासो भास्करे पठ्यते बुधैः ८।
मार्गशीर्षोऽपि मासानां पावनः परिकीर्तितः ।
एवं मासाः पवित्रास्ते वासराः केपि कीर्तिताः ९।
युगादयो युगांताश्च तथा कल्पादयोऽपि च ।
सर्वेभ्योऽप्यधिकं मासमेतेभ्यो वद पावनम् १०।
सर्वयज्ञमय श्रीमन्नेकं निश्चित्य मे वद ।
वराह उवाच-
विधिनाविधिनाचैव ये यजंति नराधमाः ११।
माधवे मासि मां भक्त्या तैश्च पूज्योऽस्म्यहं सदा ।
हिरण्याक्षो वरारोहे माधवे तु मधुर्हत १२।
आदिदैत्यावुभावेतौ हत्वा त्वं तु समुद्धृता ।
त्रेतायुगे त्रयी धर्मो ज्ञानवर्णव्यवस्थितिः १३।
माधवे मासि संभूता तेन मे माधवःप्रियः ।
त्रेतायुगं तृतीयायां शुक्लायां मासि माधवे १४।
प्रवृत्तं च त्रयी धर्माः प्रवृत्तास्ते प्रवर्द्धिताः ।
अक्षया सोच्यते लोके तृतीया हरिवल्लभा १५।
स्नाने दानार्चने श्राद्धे जपे पूर्वजतर्प्पणे ।
येऽर्चयंति यवैर्विष्णुं श्राद्धं कुर्वंति यत्नतः १६।
तेषां ददाम्यहं सर्वं यन्मनोऽभीष्टमुत्तमम् ।
ये ददंत्यपि दानानि धन्यास्ते धार्मिका नराः १७।
ये यजंति हरेर्नित्यमध्वरैर्विविधैरपि ।
माधवे यजते यो मां तेभ्यस्तदधिकं फलम् १८।
स्नानं दानं जपो होमस्तपो यज्ञ व्रतादिकम् ।
वैशाखे यत्कृतं देवि तस्य पुण्यफलं शृणु १९।
मन्वंतराणां कोट्यस्तु दशपंच च सप्त च ।
मत्सान्निध्यगतास्तेपि तिष्ठंति भयवर्जिताः २०।
यद्यपि स्युर्ग्रहाः सर्वे क्रूरा जन्मव्ययाष्टकाः ।
प्रातःस्नानेन वैशाखे सर्वे सौम्या भवंति ते २१।
वैशाखे मासि यो विप्रान्भोजयेद्भक्तितत्परः ।
सिक्थेसिक्थे भवेत्तृप्तिः पितॄणां युगसंख्यया २२।
यच्छंति तत्र मधुराधिकभोजनानि ये वायवाशन तिलोदक भोजनानि ।
छत्रांबराणि चरणोचितरक्षणानि धन्यास्त एव परितोषकराहि विष्णोः २३।
विशेषादिह दातव्यास्तिला मधुसमन्विताः ।
धर्माय बृहते दीर्घ दुरितक्षय हेतवे २४।
एवंकृते तु यत्पुण्यं प्राप्यते मनुजैश्च तैः ।
तत्कैर्गणयितुं शक्यं वर्षकोटिशतैरपि २५।
पुत्रपौत्रादिसंपत्ति दीर्घायूंषि यथेप्सितम् ।
इहाप्नोति परत्रापि मामेव प्रतिपद्यते २६।
अनेकजन्मार्जित पातकावली विलीयते माधव मज्जनेन ।
जनस्य तत्रोषसि पुण्यतीर्थे यथाविधानं श्रयते तथा वा २७।
यः परित्यज्य वैशाखं व्रतमन्यदुपाचरेत् ।
स करस्थं महारत्नं हित्वा लोष्टं हि याचते २८।
सूतउवाच-
एवं स भगवान्पूर्वमादिदेवो वदद्विभुः ।
माधवं मासमुद्दिश्य जगत्यां जगतीधरः २९।
किमत्र बहुनोक्तेन न तदस्ति महीसुराः ।
यदप्राप्यं भवेन्मासि माधवे माधवार्चनात् ३०।
शृणुध्वं च पुरावृत्तमिहार्थे परमाद्भुतम् ।
ब्राह्मणस्य च संवादं यमस्य च महात्मनः ३१।
मध्यदेशे महाग्रामो ब्राह्मणानां बभूव ह ।
गंगायमुनयोर्मध्ये यामुनस्य गिरेरधः ३२।
विद्वांसस्तत्र भूयिष्ठा ब्राह्मणाश्चावसंस्तदा ।
अथ प्राह यमः कंचित्पुरुषं कृष्णपिंगलम् ३३।
रक्ताक्षमूर्द्ध्वरोमाणं काकजंघाक्षिनासिकम् ।
गच्छ त्वं भो महाग्रामं गत्वा ब्राह्मणमानय ३४।
वसिष्ठगोत्रसंभूतं नामतो यज्ञदत्तकम् ।
शमे निविष्टं विद्वांसं यज्ञकर्मविशारदम् ३५।
नचान्यमानयेथास्त्वं सगोत्रं तस्य पार्श्वतः ।
सहितादृग्गुणस्तेन तुल्योऽध्ययन जन्मना ३६।
आकृत्या च तथा चिह्नैः समस्तेनैव सत्तमः ।
तमानय यथोद्दिष्टा पूजा कार्या हि तस्य मे ३७।
स गत्वा प्रतिकूलं तु चकार यमशासनम् ।
तमेव मानयामास प्रतिषिद्धो यमेन यः ३८।
तस्मै यमः समुत्थाय पूजां कृत्वा च धर्मवित् ।
प्रोवाच नीयतामेष सोऽन्य आनीयतामिति ३९।
सूत उवाच-
एवमुक्ते तु वचने धर्मराजेन स द्विजः ।
उवाच धर्मराजं तं निर्विण्णो गमनाय वै ४०।
ब्राह्मण उवाच-
कस्मादहमिहानीतः कस्मात्प्रेरयसे पुनः ।
गंतुं नैवोत्सहे तत्र मर्त्यलोकं पुनः प्रभो ४१।
यम उवाच-
इह क्षीणायुषां पुंसां वासः पुण्यवतां भवेत् ।
अयं वै धर्मराजस्य लोको धर्मः प्रकीर्तितः ४२।
सौख्यभूमिरियं सर्वा धर्मराजोऽहमीश्वरः ।
पुण्यापुण्यानुसारेण जंतूनां सुखदुःखदः ४३।
पापिनां यमरूपोऽस्मि नृणां निरयदायकः ।
तथा पुण्यवतां सौख्य स्वर्गदो धर्म मूर्तिमान् ४४।
गच्छ विप्र त्वमद्यैव निलयं स्वं यथागतः ।
अद्यापि दशवर्षाणामायुस्ते परिवर्तते ४५।
क्षये तवायुषः प्राप्तिर्लोकस्यास्य भविष्यति ।
प्रष्टव्यं च त्वया ह्यन्यत्पृच्छस्व प्रब्रवीमि ते ४६।
ब्राह्मण उवाच-
यत्कृत्वा सुमहत्पुण्यं स्वर्गः स्याद्ब्रूहि तन्मम ।
सर्वस्य हि प्रमाणंत्वं धर्माधर्मविनिश्चये ४७।
यदि देव मया सम्यग्गंतव्यं निजमंदिरे ।
तद्ब्रूहि कर्मणा केन पतंति नरके नराः ४८।
व्रजंति केन वै स्वर्गं तत्सर्वं कृपया वद ।
यम उवाच-
कर्मणा मनसा वाचा ये धर्मविमुखा नराः ४९।
विष्णुभक्तिविहीना ये ते वै निरयगामिनः ।
पश्यंति भेदबुद्ध्या ये ब्रह्माणं शंकरं हरिम् ५०।
विरक्ता विष्णुविद्यासु नरा निरयगामिनः ।
कुलदेशोचितं कर्म यस्त्यक्त्वान्यत्समाचरेत् ५१।
कामाद्वा यदि वा मोहात्स याति नरकं नरः ।
अयाज्ययाजकश्चैव याज्यानां च विवर्जकः ५२।
विरतो विष्णुविद्यासु स भुंक्ते नरकान्बहून् ।
अदत्वा पितृदेवेभ्यो विप्रेभ्यो मर्त्यबंधुषु ५३।
सधनो म्रियते पापः स याति नरकान्बहून् ।
सर्वाण्यन्नानि सिद्धानि पाकभेदं करोति यः ५४।
अवैश्वदेवं भुंजीत स याति नरकं चिरम् ।
बहुद्रोहेण भूतानां येऽजयंति धनं द्विज ५५।
धनवंतो निरयगा दांभिका दुःखभागिनः ।
नास्तिक्यादथ वा लोभान्मोहात्काले यथोदिते ५६।
भक्त्या न श्राद्धदा ये स्युः पच्यंते नरकेषु ते ।
दीयमानस्य वित्तस्य ब्राह्मणेभ्यस्तु पापकृत् ५७।
विघ्नमाचरते योऽसौ नरो निरयगो भवेत् ।
सामान्य दक्षिणां लब्ध्वा गृह्णात्येको विमोहतः ५८।
नास्तिक्यभावनिरतो नरः स्यान्नरकालये ।
असहिष्णुतया तस्य गुणानां कारणं भवेत् ५९।
महत्पापं समुत्पन्नं कारणं नरकस्य तत् ।
निर्दोषां सुहृदां भार्यां त्यजन्कालेन याति यः ६०।
न वहेत यशस्तेषां स नरो नरके पतेत् ।
अधर्मं धर्ममिति यो वदन्मोहवशं गतः ६१।
हैतुको नास्तिको यस्तु स नरो निरयालयः ।
मनसा योऽन्यभावेन वचसा चान्यथा वदेत् ६२।
हृदयं कलुषं कुर्यात्स नरो नरके वसेत् ।
अवमन्य च ये यांति भगवत्कीर्तनं नराः ६३।
ते यांति नरकं घोरं तेन पापेन कर्मणा ।
पश्यंतो भगवद्द्वारं नामशास्त्र परिच्छदम् ६४।
अकृत्वा तत्प्रणामादि ते यांति नरकौकसः ।
विनापराधेन नराः कृत्वा पत्न्यधिवेदनम् ६५।
त्यजंति सुकलत्रं ये ते यांति नरके नराः ।
न शृणोति गुरोर्वाक्यं धर्मशास्त्रं च यो नरः ६६।
परेषां चेतसः क्लेशकारी निरयगो भवेत् ।
पश्यतां बंधु बालानां प्रकर्षी मिष्टमश्नुते ६७।
स याति नरकं घोरं केवलोदरपूरकः ।
तुला मकर मेषेषु प्रातः स्नानं न यश्चरेत् ६८।
नद्यादिषु च नास्तिक्यस्तस्य स्यान्नरकालयः ।
वैष्णवं जनमालोक्य नाभ्युत्थानं करोति यः ६९।
प्रणयादरतो विप्र स नरो नरकातिथिः ।
काष्ठैर्वा शंकुभिर्वापि शूलैरश्मभिरेव च ७०।
ये मार्गांश्चैव रुंधंति ते वै निरयगामिनः ।
आद्यं पुरुषमीशानं सर्वलोकमहेश्वरम् ७१।
न चिन्तयंति ये विष्णुं ते वै निरयगामिनः ।
क्षेत्रवृत्ति गृहच्छेदं प्रीतिच्छेदं च ये नराः ७२।
आशाच्छेदं च कुर्वंति ते नरा नरकौकसः ।
आगतान्भोजनार्थं च ब्राह्मणान्वृत्तिकर्शितान् ७३।
यः परीक्षेत मूढात्मा स ज्ञेयो नरकातिथिः ।
अनाथं वैष्णवं दीनं रोगार्तं वृद्धमेव च ७४।
नानुकंपंति ये मूढास्ते वै निरयगामिनः ।
नियमांस्तु समादाय ये पश्चादजितेंद्रियाः ७५।
विलोपयंति तान्भूयस्ते वै निरयगामिनः ।
शृणु विप्र यथा यांति नराः स्वर्गं दयालवः ७६।
समासेनैव वक्ष्यामि किंचित्ते गौरवादहम् ।
येऽर्चयंति हरिं देवंजिष्णुं विष्णुं सनातनम् ७७।
नारायणमजं कृष्णं विष्वक्सेनं चतुर्भुजम् ।
ध्यायंति पुरुषं दिव्यमच्युतं ये स्मरंति च ७८।
लभंते तेऽच्युतस्थानं श्रुतिरेषा पुरातनी ।
इदमेवहि मांगल्यमिदमेव धनार्जनम् ७९।
जीवितस्य फलं चैतद्यद्दामोदरकीर्तनम् ।
कीर्तनाद्देवदेवस्य विष्णोरमिततेजसः ८०।
दुरितानि विलीयंते तमांसीव दिनोदये ।
गाथां गायंति ये नित्यं वैष्णवीं श्रद्धयान्विताः ८१।
स्वाध्यायनिरता नित्यं ते नराः स्वर्गगामिनः ।
सर्वान्क्लेशान्परित्यज्य विष्णुमेव स्तुवंति ये ८२।
स्वधर्मनिरता धीरास्ते नराः स्वर्गगामिनः ।
वासुदेवजपासक्तानपि पापकृतो जनान् ८३।
नोपसर्पन्ति तान्विप्र यमदूताश्च दारुणाः ।
नान्यत्पश्यन्ति जंतूनां विहाय हरिकीर्तनम् ८४।
सर्वपापप्रशमनं प्रायश्चित्तं द्विजोत्तम ।
ये याचिताः प्रहृष्यंति प्रियं दत्वा वदंति च ८५।
त्यक्तदानफला ये च ते नराःस्वर्गगामिनः ।
वर्जयंति दिवास्वापं नराः सर्वसहाश्च ये ८६।
पर्वण्याश्रयभूता ये ते मर्त्याः स्वर्गगामिनः ।
द्विषतामपि ये दोषान्न वदंति कदाचन ८७।
कीर्तयंति गुणांश्चैव ते नराः स्वर्गगामिनः ।
ये परेषां श्रियं दृष्ट्वा न वितप्यंति मत्सरात् ८८।
प्रहृष्टाश्चाभिनंदंति ते नराः स्वर्गगामिनः ।
प्रवृत्तौ च निवृत्तौ च श्रुतिशास्त्रोक्तमेव च ८९।
आदरंति प्रतीता ये ते नराः स्वर्गगामिनः ।
यस्मिन्कस्मिन्कुले जाता दयावंतो यशस्विनः ९०।
सानुक्रोशाः सदाचारास्ते नराः स्वर्गगामिनः ।
ये पूताः परदारांश्च कर्मणा मनसा गिरा ९१।
रमयंति न सत्वस्थास्तेनराः स्वर्गगामिनः ।
सदा कर्मयथोक्तेन कुर्वंति विहितानि च ९२।
आत्मशक्तिं च विज्ञाय ते नराः स्वर्गगामिनः ।
मनो वाक्कायिके धर्मे श्रद्धां यः कुरुते सदा ९३।
साधूनां संमतो यश्च स भवेद्देवतातिथिः ।
वचोवेगं मनोवेगं यो वेगमुदरोद्भवम् ९४।
उपस्थवेगं सहते स स्वर्गी जायते नरः ।
येषां गुणेषु संतोषो वाणी येषां श्रुतं प्रति ९५।
परमार्थे मतिर्येषां ते शिष्टाः स्वर्गगामिनः ।
व्रतं रक्षंति ये कोपाच्छ्रियं रक्षंति मत्सरात् ९६।
विद्यां मानापमानाभ्यामात्मानं तु प्रमादतः ।
मतिं रक्षंति ये लोभान्मनो रक्षंति कामतः ९७।
धर्मं रक्षंति दुःसंगात्ते नराः स्वर्गगामिनः ।
एकादश्यां च विधिवदुपवासपरायणाः ९८।
शुक्लेऽसिते च ये विप्र ते नराः स्वर्गगामिनः ।
मातेव सर्वबालानामौषधं रोगिणा मिव ९९।
रक्षार्थं सर्वलोकानां निर्मितैकादशी तिथिः ।
एकादशी समं किंचित्पादत्राणं न विद्यते 5.96.१०० ।
तामुपोष्य विधानेन पुरुषाः स्वर्गगामिनः ।
एकादशेन्द्रियैः पापं यत्कृतं भवति द्विज १०१।
नरो निर्द्धूय तत्तूर्णं प्रीतः स्वर्गतिमान्भवेत् ।
अश्वमेधसहस्राणि राजसूयशतानि च १०२।
एकादश्युपवासस्य कलां नार्हंति षोडशीम् ।
एकतः क्रतवः सर्वे सर्वतीर्थतपांसि च १०३।
महादानादिदानानि व्रतं वैष्णवमेकतः ।
वैष्णवव्रतजो धर्मो धर्मो यज्ञादिसंभवः १०४।
एकत्र तुलितौ धात्रा तत्र पूर्वो भवेद्गुरुः ।
हरिवासर भक्तानामच्युतानंतभाषिणाम् १०५।
नाहं शास्ता विशेषेण तेभ्यो विप्र बिभेम्यहम् ।
येषां पुत्रश्च पौत्रश्च एकादश्यामुपोषितः १०६।
सहात्मना स पुरुषाञ्छतमुद्धरते बलात् ।
उपोषणं ततः कुर्यात्पक्षयोरुभयोरपि १०७।
एकादश्यां स पुरुषो भुक्तिमुक्त्येकभाजनम् ।
जया च विजया चैव जयंती पापनाशिनी १०८।
त्रिस्पृशा वंजुली चैव पक्षसंवर्धिनी वरा ।
तिलदुग्धा परा ज्ञेया अखंडद्वादशी तथा १०९।
मनोरथाख्या च परा भीमद्वादशिका तथा ।
इत्येवमादयो भेदा द्वादश्याः संत्यनेकशः ११०।
व्रतेष्वेतेषु ये शक्ता ज्ञेयास्ते ब्रह्मणि स्थिताः ।
श्रोतारो धर्मशास्त्राणां धर्मप्रत्यय संगताः १११।
प्रियंकराश्च बालानां स्वर्गलोकं व्रजंति ते ।
मासिमास्येकदिवसे दर्शे श्राद्धव्रता नराः ११२।
तृप्यंति पितरो येषां ते धन्याः स्वर्गगामिनः ।
भोजनेषूपपन्नेषु भोज्यं यच्छंति सादरात् ११३।
अभिन्नमुखरागेण शिष्टास्ते स्वर्गगामिनः ११४।
ये भक्तिमंतो मधुसूदनस्य नारायणस्याखिलनायकस्य ।
सत्येन हीना रजसापि युक्ता गच्छंति ते नाकमनंतपुण्याः ११५।
वितस्तां यमुनां सीतां पुण्यां गोदावरीं नदीम् ।
सेवंते ये शुभाचाराः स्नानदानपरायणाः ११६।
न ते पश्यंति पंथानं नरकस्य कदाचन ।
ये नर्मदायामिह शर्मदायां मज्जंति तुष्यंत्यपि दर्शनेन ११७।
विधूय पापानि महेशलोकं गच्छंति ते तत्र चिरं रमंते ११८।
स्नाताश्चर्मनदी तीरे त्रिरात्रं नियता नराः ।
व्यासाश्रमे विशेषेण ते नरा नाकिनः स्मृताः ११९।
गंगाजले प्रयागे च केदारे पुष्करे तथा ।
व्यासाश्रमे प्रभासे च मृतास्ते विष्णुगामिनः १२०।
द्वारवत्यां कुरुक्षेत्रे योगाभ्यासेन वा मृताः ।
हरिरित्यक्षरं वक्त्रे येषां ते न पुनर्भवाः १२१।
त्रिरात्रमपि ये विप्र द्वारवत्यां पुरि स्थिताः ।
मज्जंति गोमती तीरे धन्यास्ते केशवप्रियाः १२२।
नरनारायणावासे त्रिरात्रं ये समाश्रिताः ।
मर्त्यलोके च नंदायां धन्यास्ते केशवप्रियाः १२३।
षण्मासमुषिता विप्र पुरुषोत्तमसंनिधौ ।
ते नूनमच्युतात्मानो दृष्ट्वा स्युरघहारिणः १२४।
अनेक जन्मार्जितपुण्यतोये मज्जंति तोये मणिकर्णिकायाः ।
नमंति विश्वेशमवाप्यकाशीं ते वै मयापीह भवंति वंद्याः १२५।
पूजयित्वा हरिं ये तु भूमौ दर्भ तिलैः सह ।
तिलान्विकीर्य लोहं च दत्वा धेनुं पयस्विनीम् १२६।
ये मृता विधिवद्विप्र ते नराः स्वर्गगामिनः ।
उत्पाद्य पुत्रान्संस्थाप्य पितृपैतामहे पदे १२७।
निर्ममा निरहंकारा ये मृतास्तेऽपि नाकिनः ।
स्तैन्यान्निवृत्ताः सततं संतुष्टाः स्वधनेन च १२८।
स्वभाग्येनोपजीवंति ते नराः स्वर्गगामिनः ।
श्लक्ष्णां वाणीं निराबाधां मधुरोपाय वर्जिताम् १२९।
स्वागतेनाभिभाषंते ते नराः स्वर्गगामिनः ।
शुभानामशुभानां च कर्मणां फलसंचये १३०।
विपाकज्ञाश्च ये विप्र ते नराः स्वर्गगामिनः ।
धनधर्मप्रवृत्तानां धर्ममार्गानुयायिनाम् १३१।
प्रोत्साहं वर्धयंते ये मोदंते दिवि ते नराः ।
हेमंते वह्निदो यश्च तथा ग्रीष्मे जलप्रदः १३२।
वर्षा स्वाश्रमदाता च स स्वर्गे मोदते चिरम् ।
पुण्यकालेषु सर्वेषु नित्य नैमित्तिकादिषु १३३।
भक्त्या यः कुरुते श्राद्धं स नूनं सुरलोकभाक् १३४।
दानं दरिद्रस्य विभोः क्षमित्वं यूनां तपो ज्ञानवतां च मौनम् ।
इच्छानिवृत्तिश्च सुखोचितानां दया च भूतेषु दिवं नयंति १३५।
द्विविधः कर्मसंबंधः पापपुण्यसमुद्भवः ।
सत्यमेव समाश्रित्य क्रियते ह्यत्र निर्णयः १३६।
तपोध्यानसमायुक्तं तारणाय भवांबुधेः ।
पापं तु पतनायोक्तं सत्यमेव न संशयः १३७।
बलेन परिचारेण शौर्येणाभियुतस्य च ।
पुण्यहीनस्य वै पुंसस्तद्बलादिव लीयते १३८।
उन्नता गिरि दुर्गेषु वृक्षाः संति सुपुष्टकाः ।
पतंति वातवेगेन समूलास्तु घना अपि १३९।
सत्यधर्मविहीनास्ते तथा यांति यमालयम् ।
सामान्यं सर्वजंतूंनां बलं धर्मस्तु केवलः १४०।
येन संतरते जंतुरिहलोके परत्र च ।
मया सर्वमिदं सम्यक्स्वर्गमार्ग प्रदायकम् १४१।
समासेन समाख्यातं किं भूयः श्रोतुमिच्छसि १४२।
इति श्रीपद्मपुराणे पातालखंडे वैशाखमाहात्म्ये षण्णवतितमोऽध्यायः ९६।