पद्मपुराणम्/खण्डः ५ (पातालखण्डः)/अध्यायः ०९७

← अध्यायः ०९६ पद्मपुराणम्
अध्यायः ०९७
वेदव्यासः
अध्यायः ०९८ →

ब्राह्मण उवाच-
एतन्मूर्खोऽपि जानाति शुभकर्मकरः पुमान् ।
न याति नरकं स्वर्गं तथा पापक्रिया रतः १।
क्रतुभिर्विविधैरिष्टैर्व्रत दान जपादिभिः ।
सत्येनाचारकुशलैः स्वर्गसौख्यमवाप्यते २।
विद्याचारधनोपेतैर्ऋषिभिर्वेदपारगैः ।
प्राप्यते पुण्ययोगेन यज्ञैर्नाकस्ततः क्वचित् ३।
वित्तेन च विना दानं बहुदातुं न शक्यते ।
विद्यमान धनेनापि कुटुंबासक्तचेतसा ४।
अग्निहोत्रादयो धर्मा विशेषेण कलौ युगे ।
दुष्करा दानधर्मोऽपि दुष्करो भगवन्मतः ५।
अल्पायासेन धर्मेण लभ्यते धर्मसंचयः ।
तन्मे विशेषतो ब्रूहि धर्माधर्मप्रदर्शक ६।
तदेकं कथ्यतां धर्मं सर्वधर्मोत्तमोत्तमम् ।
कृतेनैकेन येनेह सर्वपापक्षयो भवेत् ७।
धनं धान्यं यशो धर्ममायुर्येनाभि वर्त्तते ।
मर्त्यलोकेऽपि सख्यं स्यात्स्वर्गो येनाक्षयो भवेत् ८।
साक्षान्नारायणो येन भक्तानामभयप्रदः ।
तुष्येदस्यप्रसादेन कामः करतले स्थितः ९।
सर्वयज्ञ तपोदानतीर्थसेवाधिकं फलम् ।
लभ्यते येन यद्यस्ति वैवस्वत तदादिश १०।
अनुग्राह्यो ह्यहं देव यदि धर्मोपदेशतः ।
सर्वधर्मक्रियासारं तदेकं कृपया वद ११।
पापानामनुरूपाणि प्रायश्चित्तानि यद्यथा ।
तथा तथैव संस्मृत्य कथितानि मनीषिभिः १२।
कर्तुं तानि न शक्यंते देव प्रत्येकशो नरैः ।
सर्वपापहरं पुण्यमेकं चेदस्ति तद्वद १३।
सूत उवाच-।
इत्युक्त्वा ब्राह्मणश्रेष्ठो यमं धर्मस्वरूपिणम् ।
तुष्टाव प्रयतो भूत्वा सूक्ष्मधर्माभिकामुकः १४।
ब्राह्मण उवाच-
नमस्ते सर्वशमन नमस्ते जगतांपते ।
नमोऽस्तु देवरूपाय स्वर्गमार्गप्रदायिने १५।
धर्मशास्त्रस्वरूपाय धर्मराज नमोस्तुते ।
त्वया भूः पाल्यते देवाप्यंतरिक्षं च द्यौर्महः १६।
जनस्तपस्तथासत्यं सर्वस्वं पाल्यते त्वया ।
न त्वया रहितं किंचिज्जगत्स्थावर जंगमम् १७।
विद्यते त्वद्गृहीतं तु सद्यो नश्यति वै जगत् ।
त्वमात्मा सर्वभूतानां सतां सत्वस्वरूपवान् १८।
राजसानां रजस्त्वं च तामसानां तमस्तथा ।
चतुष्पदां भवान्देव चतुःशृंगस्त्रिलोचनः १९।
सप्तहस्तस्त्रिधा बद्धो वृषरूप नमोस्तु ते ।
सर्वयज्ञमयो धर्मस्त्वयि विग्रहविग्रहः २०।
साक्षाद्दृष्टोसि लोकेश देव तुभ्यं नमोनमः ।
हृदिस्थः सर्वभूतानां पुण्यपापेक्षिता भवान् २१।
तेन शास्ता च भूतानां दाता देव प्रशासिता ।
प्रवर्त्तको हि धर्मस्य देवदंडधरो भुवि २२।
सर्वधर्ममयं सारमेकं वद सुनिश्चितम् ।
यम उवाच-
परितुष्टोऽस्मि ते विप्र स्तोत्रेण च विशेषतः २३।
तथाप्यागम धर्मेण मान्योसि मम सत्तम ।
यन्न कस्यचिदाख्यातं तद्गोप्यं परमं मम २४।
सारमुद्धृत्य सर्वेषां यदेकं निश्चितं मया ।
महानिरयसंघातान्निर्वासनकरं परम् २५।
अनाख्येयमपि ब्रह्मन्वक्ष्ये विनयतोषितः २६।
स्युर्मोहाय चराचरस्य जगतस्ते ते पुराणागमास्तां तामेव हि देवतां परमिकां जल्पंतु कल्पे विधौ ।
सिद्धांते पुनरेक एव भगवान्विष्णुः समस्तागम-व्यापारेषु विवेकिनां व्यतिकरं नीतेषु निश्चीयते २७।
भवो ब्रह्मा च विष्णुश्च त्रयमेव त्रयी मता ।
दीपोऽग्निर्वर्तिस्नेहैस्तु यथा विप्र तथा हरिः २८।
समाराध्य हरिं भक्त्या गोलोकान्प्राप्नुयाच्छुभान् ।
आराधिते हरौ कामाः सर्वे करतले स्थिताः २९।
दानमेव परं श्रेष्ठं सर्वपुण्येषु वै द्विज ।
दानेन नश्यते पापं सर्वं दानेन लभ्यते ३०।
नित्यं नैमित्तिकं काम्यमन्यदभ्युदयात्मकम् ।
अन्यं च परमं दानमिति पंचविधं स्मृतम् ३१।
प्रातर्मध्यापराह्णेषु त्रिषु कालेषु यत्नतः ।
यत्किंचिदपि दातव्यं नित्यमेव प्रकीर्तितम् ३२।
शून्यं दिनं न कर्तव्यमात्मार्थं हितमिच्छताम् ।
यस्मिन्कुले तु दत्तं यत्तत्रतत्रोपतिष्ठति ३३।
यः स्वयं भक्षयेन्मोहाददत्वा बुद्धिवर्जितः ।
उत्पादयाम्यहं रोगं तस्य भोगनिवारणम् ३४।
तेषु कार्येषु संतुष्टं बहुपीडाप्रदायकम् ।
मंदानलेन संयुक्तं द्वारं संतापकारकम् ३५।
त्रिषु कालेषु नो दत्तं ब्राह्मणेषु सुरेषु यैः ।
स्वयं तु भुंजते मिष्टं पापं तैस्तु महत्कृतम् ३६।
प्रायश्चित्तेन रौद्रेण तानहं परिशोधये ।
उपवासैर्महीदेव कायशोषकरादिकैः ३७।
चर्मकारो यथा चर्मकुंडस्योपरि निर्घृणे ।
शोधयेच्च कशाद्यैश्च कुद्रव्यं स्फोटयेद्यथा ३८।
तथाहं पापकर्तारं शोधयामि न संशयः ।
औषधीनां सुयोगैश्च कषायैः कटुकैर्ध्रुवम् ३९।
उष्णोदकैश्च संतापैर्वैद्यरूपेण नान्यथा ।
अन्ये भुंजंति तस्याग्रे भोगानन्यान्मनोगतान् ४०।
किं करोमि समर्थश्च न दत्तं दानमुत्तमम् ।
महता रोगरूपेण तमेनं परिवारयेत् ४१।
नित्यकालस्य यद्दानमात्मानं पापिभिर्यथा ।
न दत्तं च महीदेव श्रद्धया निजशक्तितः ४२।
तथायातान्प्रधक्ष्येतानुपायैर्दारुणैः किल ।
नैमित्तिकं प्रवक्ष्यामि दानकालं तवाग्रतः ४३।
महापर्वणि संप्राप्ते तीर्थप्राप्तौ तथैव च ।
पितुः क्षयाहदिवसे वैशाखादिषु यत्नतः ४४।
मासेषु पुण्यकालेषु दानं नैमित्तिकं स्मृतम् ।
काम्यकालं प्रवक्ष्यामि यद्दानं फलदायकम् ४५।
व्रतादिकं समुद्दिश्य कामनाफलकल्पितम् ।
यत्कामं कथितं सम्यक्सर्वांगैरेव संगतम् ४६।
तस्य दानप्रभावेण भावनापरिभावितः ।
तादृक्फलं समश्नाति मानुषस्तत्प्रसादनात् ४७।
आभ्युदयं प्रवक्ष्यामि यच्च यज्ञादिषु स्मृतम् ।
जातकर्मादिकार्येषु मौञ्ज्याद्युद्वाहकर्मसु ४८।
प्रासादध्वजदेवानां प्रतिष्ठासु प्रयत्नतः ।
इत्यादिकं महीदेव दानमभ्युदयात्मकम् ४९।
प्रजावृद्धिकरं भोगयशःस्वर्गसुखप्रदम् ।
अंत्यं चैव प्रवक्ष्यामि शृणु दानं द्विजोत्तम ५०।
कामस्य संक्षयं ज्ञात्वा जरया परिपीडितः ।
दद्याद्दानानि यत्नेन कुर्यादाशां न कस्यचित् ५१।
मृते च मयि मे पुत्रा जायाबांधवसोदराः ।
कथमेते भविष्यंति मां विना सुहृदो मम ५२।
अहं वित्तविहीनो वा कथं जीवन्पुनस्तथा ।
भविष्यामीति विज्ञाय न ददाति हि किंचन ५३।
आशापाशशतैर्बद्धो भाग्यादेव कुमायया ।
मृत्युं प्रयाति मूढात्मा रुदंति च ततः सुताः ५४।
दुःखेन पीडिताः किचिंन्मोहेनाकुलचेतसः ।
स्वल्पमल्पं च वा दानं कथंचित्कल्पयंति ते ५५।
न तत्रास्मिन्गते काले महादुःखगते सति ।
विस्मरंति तदा दानं लोभाद्वा न ददत्यपि ५६।
मृतोऽयं च पिता ज्ञात्वा स्नेहपाशो निवर्त्तते ।
योऽसौ मृतो महीदेव मम पाशैर्नियंत्रितः ५७।
तृष्णा क्षुधा समाक्रांतो बहुदुःखैः प्रपीडितः ।
पच्यते नरके घोरे चिरकालं न संशयः ५८।
तस्माद्दानं प्रदातव्यं स्वयमेव न संशयः ।
कस्य पुत्राश्च पौत्राश्च कस्य भार्या धनं च वा ५९।
संसारे नास्तिकः कस्य स्वयं तस्मात्प्रदीयते ।
पानमन्नं च तांबूलमुदकं कांचनं तथा ६०।
वसनं गां च भूमिं च च्छत्रपात्राण्यनेकधा ।
फलानि भूमिदानानि विविधानि स्वशक्तितः ६१।
दातव्यानि महीदेव नात्र कार्या विचारणा ।
तीर्थानां लक्षणं विप्र प्रवक्ष्यामि तवाग्रतः ६२।
सुतीर्थानि इयं गंगा भाति पुण्या सरस्वती ।
रेवा च यमुना तापी नदी चर्मण्वती तथा ६३।
सरयू च वरा वेणी पूर्णा पापप्रणाशिनी ।
कावेरी कपिला चान्या विशल्या विश्वतारिणी ६४।
गोदावरी समाख्याता तुंगभद्रा च गंडकी ।
पापानां भीतिदा नित्यं नदी भीमरथी स्मृता ६५।
देविका कृष्णगंगा च अन्या याः सरितांवराः ।
एतास्तु पुण्यकालेषु संति तीर्थान्यनेकशः ६६।
ग्रामे वा यदि वारण्ये नद्यः सर्वत्र पावनाः ।
तत्र तत्रैव कर्त्तव्याः स्नानदानादिकाः क्रियाः ६७।
यदा न ज्ञायते नाम तस्य तीर्थस्य भो द्विज ।
तत्रेत्युच्चारणं कार्यं विष्णुतीर्थमिदं महत् ६८।
तीर्थस्य देवता विष्णुःस र्वत्रापि न संशयः ।
नारायणेति यन्नाम स्मरेत्तीर्थेषु साधकः ६९।
तस्य तीर्थफलं सम्यग्विष्णुनाम्नैव जायते ।
अज्ञातानां च तीर्थानां देवतानां न संशयः ७०।
विष्णुनाम्नैव नामानि मानवः परिकीर्तयेत् ।
सर्वास्तु सिद्धयः पुण्यास्तीर्थभूतास्तु सागरः ७१।
सरांसि मानसादीनि निर्झराः पल्वलादयः ।
स्वल्पा नद्योऽपि सर्वास्तास्तीर्थानि हरिनामतः ७२।
पर्वतास्तीर्थरूपाश्च यज्ञो यज्ञमही तथा ।
ब्राह्मणा यत्र विद्वांसः कौतुकेनाप्यवस्थिताः ७३।
तदेव तीर्थं सुमहत्सर्वपापहरं स्मृतम् ।
श्राद्धं च श्राद्धभूमिश्च देवशाला च होमभूः ७४।
यत्र वेदध्वनिः सम्यग्यत्र विष्णुकथाः शुभाः ।
स्वगृहं पुण्यसंयुक्तं गोस्थानमपि पावनम् ७५।
यत्राश्वत्थ तरु वने यत्रागारोपि पावनः ।
एवमादीनि तीर्थानि पिता माता तथैव च ७६।
पच्यते यत्र धर्मार्थं स्वयं तत्र गुरुः स्थितः ।
साध्वी यत्रास्ति वै भार्या तत्र तीर्थं न संशयः ७७।
यत्र धर्मरतिर्नित्यं विद्वान्पुत्रः प्रवर्तते ।
तत्र तस्य हि तत्तीर्थं तारणाय प्रतिष्ठितम् ७८।
इत्येवमादि तीर्थानि राजवेश्म तथैव च ।
एवमादिषु तीर्थेषु पर्वयोगाद्विशेषतः ७९।
अनाराध्य हृषीकेशं सर्वदं सर्वदेहिनाम् ।
कोपि क्वापि किमप्यत्र न लभेतेति निश्चितम् ८०।
अपत्यं द्रविणं दारास्तारहर्म्यं हया गजाः ।
सुखानि स्वर्गमोक्षौ च न दूरे हरिभक्तितः ८१।
नारायणः परो देवः सत्यरूपो जनार्दनः ।
त्रिधात्मानंसभगवान्ससर्जपरमेश्वरः ८२।
रजस्तमोभ्यांयुक्तोऽभूद्रजःसत्वाधिकंविभुः ।
ससर्जनाभिकमलेब्रह्माणंकमलासनम् ८३।
रजसा तमसा जुष्टं स रुद्रमसृजद्विभुः ।
सत्वं रजस्तमश्चैव त्रितयं चैतदुच्यते ८४।
सत्वेन मुच्यते जंतुः सत्वं नारायणात्मकम् ।
रजसा सत्वयुक्तेन भवेच्छ्रीमान्यशोधिकः ८५।
यद्वेदवाक्यं धर्मस्य समुद्दिश्योपसेवते ।
तद्रुद्रमिति विख्यातं विशिष्टं गदितं नृणाम् ८६।
तेन राजा भवेल्लोके रजसा तमसा पुनः ।
यद्धीनं रजसा धर्मं केवलं तामसं च यत् ८७।
तच्च दुर्गतिदं नॄणामिहलोके परत्र च ।
यो विष्णुः स स्वयं ब्रह्मा यो ब्रह्मा स स्वयं हरः ८८।
देवास्त्रयोपि यज्ञेऽस्मिन्निज्या देवेषु नित्यशः ।
यो भेदं कुरुते तेषां त्रयाणां द्विजसत्तमः ८९।
स पापकारी पापात्मा अनिष्टां गतिमाप्नुयात् ।
विष्णुरेव परं ब्रह्म विष्णुरेव जगद्द्विज ९०।
तस्यायं माधवो मासः प्रियः सर्वेषु कर्मसु ।
कीर्त्यते हयमेधादि महाक्रतुफलप्रदः ९१।
तीर्थस्नान तपो दान जप यज्ञफलाधिकः ९२।
स्नानं विभाते नियमेन नद्यामनारतं मेषगते रवौ ये ।
कुर्वंति येऽस्मिन्नपि विप्रपूजां मद्दंडभाजो न हि ते भवंति ९३।
हत्वा हत्वा किंकरौघं पुरो मे लुप्त्वा लुप्त्वा चित्रगुप्तस्य लेख्यम् ।
स्नात्वा स्नात्वा माधवे मासि तीर्थे पूर्वान्पूर्वानुद्धरंतीह पापात् ९४।
इदं भयच्छेदकरं न तस्मात्प्रकाशनीयं परमं रहस्यम् ।
निर्वासहेतुर्नरकालयस्य ममाधिकारक्षयकारणं तत् ९५।
भागीरथीनर्मदा च यमुना च सरस्वती ।
विशोका च वितस्ता च विंध्यस्योत्तरतः स्थिताः ९६।
गोदावरी भीमरथी तुंगभद्रा च देविका ।
तापी पयोष्णी विंध्यस्य दक्षिणास्तु प्रकीर्तिताः ९७।
द्वादशैता महानद्यो नित्यं तेनावगाहिताः ।
वैशाखे विधिना स्नानं नद्यां यः प्रातराचरेत् ९८।
सर्वाः समुद्रगाः पुण्याः सर्वे पुण्या नगोत्तमाः ।
सर्वे चायतनाः पुण्याः सर्वे पुण्या वनाश्रयाः ९९।
तेनावगाहिता दृष्टाः प्रणता बहुसेविताः ।
स्नानमर्द्धोदिते सूर्ये वैशाखे नियतश्चरेत् १००।
तस्य पुण्यं महीदेव कश्चिद्वक्तुं न शक्यते ।
यदि वक्त्रसहस्राणां सहस्राणि भवंति हि १०१।
आयुश्च ब्रह्मणा स्वल्पं यदि स्याद्द्विजसत्तम ।
तदा माधवमासस्य फलं कथयितुं भवेत् १०२।
महानिरयकर्षाग्नि माधवो माधवो यथा ।
ब्रह्महत्यादिकं पापमगम्यागमनादिकम् १०३।
कामाकामकृतं पापमेति पातकमेव च ।
उपपापरहस्यं च संकरीकरणं परम् १०४।
जातिभ्रंशकरं घोरमपात्रीकरणं तथा ।
मलावहं प्रकीर्णं च वाङ्मनः काय संभवम् १०५।
माधवो निर्दहेन्मासो विधिना समुपासितः ।
कल्पकोटिसहस्राणि कल्पकोटि शतानि च १०६।
वसेद्विष्णुपुरे श्रीमान्माधवे योऽर्चयेद्धरिम् १०७।
इति श्रीपद्मपुराणे पातालखंडे वैशाखमाहात्म्ये सप्तनवतितमोऽध्यायः ९७।