पद्मपुराणम्/खण्डः ५ (पातालखण्डः)/अध्यायः ०९८

← अध्यायः ०९७ पद्मपुराणम्
अध्यायः ०९८
वेदव्यासः
अध्यायः ०९९ →

सूत उवाच-
एतच्छ्रुत्वा वचस्तस्य धर्मराजस्य भूसुरः ।
पुनः पप्रच्छ मासस्य माधवस्य विधिं शुभम् १।
ब्राह्मण उवाच-
धर्मराज महाभाग सम्यग्गुह्यं प्रकाशितम् ।
माधवस्नानजं पुण्यं नराणां मुक्तिदं परम् २।
माधवं माधवे मासि स्नात्वा प्रातः समाहितः ।
कथं संपूजयेद्देवं कैः पुष्पैस्तद्विधिं वद ३।
धर्मराज उवाच-
सर्वेषां पत्रजातीनां तुलसी केशवप्रिया ।
पुष्करादीनि तीर्थानि गंगाद्याः सरितस्तथा ४।
वासुदेवादयो देवा वसंति तुलसीदले ।
सर्वदा सर्वकालेषु तुलसी विष्णुवल्लभा ५।
त्यक्त्वा तु मालती पुष्पं मुक्त्वा च सरसीरुहम् ।
गृहीत्वा तुलसीपत्रं भक्त्या माधवमर्चयेत् ६।
तस्य पुण्यफलं वक्तुमलं शेषोऽपि नो भवेत् ।
अस्नात्वा तुलसीं छित्त्वा देवार्थं पितृकर्मणि ७।
तत्सर्वं निष्फलं याति पंचगव्येन शुध्यति ।
दारिद्र्यदुःखभोगादि पापानि सुबहून्यपि ८।
तुलसी हरते क्षिप्रं रोगानिव हरीतकी ।
तुलसी कृष्णगौराख्या तयाभ्यर्च्य मधुद्विषम् ९।
विशेषेण हरेर्भक्तो नरो नारायणो भवेत् ।
माधवं सकलं मासं तुलस्या योऽर्चयेद्यतः १०।
त्रिसंध्यं मधुहंतारं नास्ति तस्य पुनर्भवः ।
अलाभे पुष्पपत्राणामन्नाद्येनापि पूजयेत् ११।
शालितंडुल गोधूमैर्यवैर्वापि हरिं सदा ।
प्रातः स्नात्वा विधानेन माधवे माधवप्रिये १२।
पितृदेवमनुष्यांश्च तर्प्पयेत्सचराचरम् ।
योऽश्वत्थमूलं वै सिंचेत्तोयेन बहुना सदा १३।
कुर्यात्प्रदक्षिणां तं तु सर्वदेवमयं ततः ।
योऽश्वत्थमर्चयेद्देवमुदकेन समंततः ।
कुलानामयुतं तेन तारितं स्यान्नसंशयः १४।
अलक्ष्मीः कालकर्णी च दुःस्वप्नो दुर्विचिंतितम् ।
अश्वत्थ तर्प्पणात्तात सर्वदुःखं विलीयते १५।
तर्पिताः पितरस्तेन तेन विष्णुः समर्चितः ।
योऽश्वत्थमर्चयेद्वीरो ग्रहास्तेनैव पूजिताः १६।
श्वेताश्वपुष्पाणि तथा शमीं च हुताशनं चंदनमर्कबिंबम् ।
अश्वत्थवृक्षं च समालभेत ततश्च कुर्यान्निज जातिधर्मान् १७।
कंडूयनं च गोग्रासं स्नात्वा पिप्पलतर्प्पणम् ।
कृत्वा गोविंदपूजां च न स दुर्गतिमाप्नुयात् १८।
त्रयोदश्यां चतुर्दश्यां वैशाख्यां च दिनत्रयम् ।
सर्वाशक्तोपि विधिना नारी वा पुरुषोपि वा १९।
पूर्वोक्तनियमैर्युक्तः प्रातः स्नात्वा च शक्तितः ।
विमुक्तः पातकैः सर्वैः स्वर्गमक्षयमश्नुते २०।
वैशाख्यामपि शक्त्या वा भोजयेद्ब्राह्मणान्दश ।
त्रिरात्रमुत्थितः स्नात्वा सकृच्च प्रयतः शुचिः २१।
गौरान्वा यदि वा कृष्णांस्तिलान्क्षौद्रेण संयुतान् ।
दत्वा द्वादशविप्रेभ्यस्तेनैव स्वस्ति वाचयेत् २२।
प्रीयतां धर्मराजो मे पितॄन्देवांश्च तर्प्पयेत् ।
यावज्जीवकृतं पापं तत्क्षणादेव नश्यति २३।
अयुतायुतं च तिष्ठेत्स स्वर्गलोके यथासुखम् ।
मामेव तु न पश्येत्स पूजितोऽखिल दैवतैः २४।
पाकान्नोदक कुंभादि पितृदैवत तुष्टये ।
त्रयोदश्यां चतुर्दश्यां पूर्णायां च दिनत्रयम् २५।
यो दद्याद्भक्तितो विप्र महापापैः प्रमुच्यते ।
सुवर्णतिलपात्रैस्तु ब्राह्मणाञ्छक्तितोऽन्वहम् २६।
तर्प्पयेदुदपात्रैस्तु ब्रह्महत्यां व्यपोहति ।
वैशाख्यां पौर्णमास्यां च सृष्टाः कमलयोनिना २७।
तिला देयाश्च भक्त्या च श्रेयः संतति हेतवे ।
इहार्थे च पुरावृत्तं तदाकर्णय सुव्रत २८।
फलं माधवमासस्य पूर्णायां परमाद्भुतम् ।
मेषसंक्रममारभ्य तिथयस्त्रिंशदुत्तमाः २९।
सर्वयज्ञाधिकाः पुण्याः पुराणेषु प्रकीर्तिताः ।
विशेषतोऽपि तास्तिस्रः पवित्राः पापिदुर्लभाः ३०।
ततोपि पूर्णिमा पुण्या माधवी माधवप्रिया ।
एषा वाराहकल्पादि तिथिराद्या महाफला ३१।
पुरा नारायणेनास्यामादिदैत्यौ विमोहितौ ।
हिरण्याक्ष मधू विप्र पृथिवी च समुद्धृता ३२।
त्रयोदश्यां चतुर्दश्यां पौर्णमास्यामयं विभुः ।
क्रमादेतत्त्रयं चक्रे शुक्लेऽस्मिन्मासि माधवे ३३।
ततः प्रभृति विप्रेंद्र विशेषादेव पूर्णिमा ।
कल्पादिः पावना ख्याता कर्मणः कल्पसाक्षिणी ३४।
येन स्नानं न वैशाखे प्रातर्नियमशालिना ।
किं तस्य जन्मना विप्र नूनमात्मापकारिणा ३५।
त्रयोदश्यां चतुर्दश्यां पौर्णमास्यां विशेषतः ।
अपिसम्यग्विधानेन नारी वा पुरुषोऽपि च ३६।
प्रातः स्नातः सनियमः सर्वपापैः प्रमुच्यते ।
स्नानदानार्चनश्राद्धक्रियापुण्यादिवर्जिता ३७।
यस्यातीता च वैशाखी स नूनं निरयालयः ।
न वेदेन समं शास्त्रं न तीर्थं गंगया समम् ३८।
न दानं जलगोतुल्यं न वैशाखी समा तिथिः ।
जलधेनुं च यो दद्याद्वैशाख्यां विष्णुतत्परः ३९।
त्रयाणामपि देवानां चतुर्थोऽयं विशेषतः ।
मातृहा पितृहा चैव भ्रूणहा गुरुतल्पगः ४०।
जलधेनुं समालोक्य मुच्यते सर्वपातकैः ।
दशपूर्वान्परान्वंश्यान्नरकात्तारयंतिते ४१।
जलधेनुं प्रयच्छंति वैशाख्यां विधिनात्र ये ।
शर्करा फल तांबूलमुपानत्करपत्रिकाः ४२।
प्रयच्छंति द्विजाग्र्येभ्यो धन्यास्ते चात्र कीर्तिताः ।
मणिकोदककुंभांश्च पक्वान्नं हैमदक्षिणाम् ४३।
यः प्रयच्छति वैशाख्यां सोऽश्वमेधफलं लभेत् ।
अत्राप्युदाहरंतीममितिहासं पुरातनम् ४४।
ब्राह्मणस्य च संवादं प्रेतैः सार्द्धं महावने ।
ब्राह्मणो धनशर्मासीन्मध्यदेशे पुरानघ ४५।
कुशाद्यर्थं वनं यातो ददर्शेदमथाद्भुतम् ।
भीतोऽपश्यदसौ प्रेतान्दुष्टांस्त्रीनति दारुणान् ४६।
ऊर्ध्वकेशान्सरक्ताक्षान्कृष्णदंतान्कृशोदरान् ।
कुर्वतो विविधा रावान्धावतोपि यतस्ततः ४७।
तान्दृष्ट्वा भयसंत्रस्तो ब्राह्मणो विद्रुतो जवात् ।
क्रंदमानास्ततस्तेपि तमेवानु ययुस्तदा ४८।
सधर्ष्यमाणस्तैः प्रेतैरुवाच मधुरं वचः ।
धनशर्मोवाच-
के यूयं वः कुतोऽवस्था जातेति निरयोचिता ४९।
भयार्त्तमनुकंप्यं मां दुःखितं त्रातुमर्हथ ।
वैष्णवं बहुभृत्यं च निःस्वं विप्रं वनागतम् ५०।
भवतामपि सश्रेयो नूनं दास्यति केशवः ।
ब्रह्मण्यो भगवान्विष्णुस्तुष्टोमय्यनुकंपया ५१।
अतसीपुष्पसंकाशो विष्णुः पीतांबरो हरिः ।
यस्य श्रवणमात्रेण नाम्नो याति महा तमः ५२।
अनादिनिधनो देवः शंख चक्र गदाधरः ।
अक्षयः पुंडरीकाक्षः प्रेतमोक्षप्रदायकः ५३।
यम उवाच-
नामश्रवण मात्रेण विष्णोस्ते परितोषिताः ।
पिशाचाः पुण्यभावस्था दया दाक्षिण्य यंत्रिताः ५४।
प्रीणितास्तस्यवचसा तदादिष्टेन नोदिताः ।
इदमूचुर्द्विजं प्रेताः क्षुत्तृष्णापूरपीडिताः ५५।
प्रेता ऊचु-
दर्शनेनैव ते विप्र नामश्रवणतो हरेः ।
भावमन्यमनुप्राप्ता वयं जाता दयालवः ५६।
अपाकरोति दुरितं श्रेयश्च योजयत्यपि ।
यशो विस्तारयत्याशु नूनं वैष्णवसंगमः ५७।
रसायनमयी शीता परमानंददायिनी ।
नानंदयति कं नाम वैष्णवामृतचंद्रिका ५८।
अयं कृतघ्न नामास्ति द्वितीयोऽयं विदैवतः ।
अवैशाखस्तृतीयोऽयं त्रयाणामपि पापकृत् ५९।
सदैवानुष्ठितानेन पापेनाति कृतघ्नता ।
तेनास्य कर्मजं नाम कृतघ्नाख्यं व्यवस्थितम् ६०।
सुदास इति नाम्नायं शूद्रो ऽभूत्पूर्वजन्मनि ।
कृतघ्नस्तेन पापेन प्राप्तोऽवस्थामिमां द्विज ६१।
अतिपापिनि धूर्ते च गुरुस्वाम्यहितेऽपि च ।
निष्कृतिर्विद्यते विप्र कृतघ्ने नास्ति निष्कृतिः ६२।
नानानिरयसंघातं शरीरैर्यातना क्षमैः ।
अनुभूयतांत्ववस्थामंत्यामेतां गतो द्विज ६३।
अनेनान्नं सदा भुक्तमकृत्वा देवतार्चनम् ।
अदत्वा गुरुविप्रेभ्यस्तेनैवायं विदैवतः ६४।
अयं दशसहस्राणां ग्रामाणामीश्वरो नृपः ।
हरिवीर इति ख्यातो नाम्नासीत्पूर्वजन्मनि ६५।
रोषाहंकारनास्तिक्यैर्गुर्वाज्ञालंघनोद्यतः ।
अकृत्वैव महायज्ञान्भुक्तवान्विप्र निंदकः ६६।
कर्मणा तेन पापेन महानरकसंकटम् ।
अनुभूय ततः प्रेतो जातो नाम्ना विदैवतः ६७।
अवैशाखस्तृतीयोऽहं त्रयाणामपि पापकृत् ।
तेन मे कर्मजं नाम ब्राह्मणोऽहं व्यवस्थितः ६८।
मध्यदेशे भवं नाम्ना गौतमो गोत्रतोऽप्यहम् ।
विप्रो वासपुरेवासी यज्वाऽऽसं पूर्वजन्मनि ६९।
मया केवलमेवैकं श्रौतमार्गानुसारिणा ।
उद्दिश्य माधवं देवं न स्नातं मासि माधवे ७०।
न दत्तं न हुतं किंचिद्वैशाख्यां चाविशेषतः ।
नार्चितो मधुहा तत्र तोषिता न मनीषिणः ७१।
मणिकोदककुंभैश्च न दानैः पितृदेवताः ।
तर्पिता न तिला दत्ताः सक्षौद्राः श्रोत्रियेषु च ७२।
न पुष्पफलतांबूल चंदन व्यजनांबरैः ।
विद्वांसो नार्चितास्तत्र पितृदैवततुष्टये ७३।
मया नैकापि वैशाखी पूर्णा पूर्णफल प्रदा ।
स्नानदानक्रियापूजा सुकृतैः परिपालिता ७४।
तेन मे वैदिकं कर्म सर्वं चैव तु निष्फलम् ।
ततोऽवैशाखनामाहं प्रेतो जातोऽस्मि सर्वतः ७५।
एतत्ते सर्वमाख्यातं त्रयाणामपि कारणम् ।
त्वं नो भव समुद्धर्ता पापाद्विप्रोसि वै यतः ७६।
विमुक्तं ब्रह्मतीर्थं च साधवः परमं यतः ।
तारयंति महापापान्निरयेभ्योऽपि संश्रितान् ७७।
गंगादि पुण्यतीर्थेषु यो नरः स्नाति सर्वदा ।
यः करोति सतां संगं तयोः सत्संगमो वरः ७८।
अथवा मम पुत्रोऽस्ति धनशर्मेति विश्रुतः ।
तं गत्वा बोधय स्वामिन्नस्मदर्थे कृतोद्यमः ७९।
कार्ये समुद्यमं कृत्वा परेषां समुपस्थिते ।
पुष्कलं फलमाप्नोति यज्ञदानक्रियाधिकम् ८०।
यम उवाच-
प्रेतवाक्यं तदाकर्ण्य धनशर्माति दुःखितः ।
स तं जनकमाज्ञाय पतितं निरये निजम् ८१।
आत्मानमभितो निंदन्निदं वचनमब्रवीत् ।
धनशर्मोवाच-
अहं तव सुतः स्वामिन्गौतमस्य निरर्थकः ८२।
यस्तु पुत्रो न निस्तारं पितुः कुर्यादतंद्रितः ।
आत्मानं पावयेन्नासावदाता द्रव्यवानिति ८३।
धर्मो हि गहनो ज्ञेयः प्रयत्नेनापि धीमता ।
यथा मम पिता च त्वमिमां प्राप्तोसि दुर्गतिम् ८४।
यदा च सुखसंतानं न मत्तः प्राप्तवानसि ।
लोकयोः सुखसंताने तथा स तनयो मतः ८५।
द्वौ गुरू पुरुषस्येह पिता माता च धर्मतः ।
तयोरपि पिता श्रेयान्बीजप्राधान्यदर्शनात् ८६।
किं करोमि क्व गच्छामि कथं तातगतिस्तव ।
धर्मतत्त्वं न जानामि संश्रयामि भवद्वचः ८७।
प्रेत उवाच-
शृणु पुत्र वचः सत्यं भाविनोऽर्थस्य मे बलात् ।
अथ पुण्येन केनापि भवित्री सुगतिर्मम ८८।
मया श्रौतानि कर्माणि कुर्वता किल गर्वतः ।
अनादृतं गुरुवचो गुरुस्तत्रावमानितः ८९।
गुरूणामपमानेन प्रहर्षक्रोधविस्मयैः ।
पुण्यानि क्षयमायांति यशांसीव हि दुर्नयैः ९०।
पौराणिक विधानेन कर्म श्रौताविरोधि यत् ।
केवलं वैदिकं कर्म कृतमज्ञानतो मया ९१।
पापेंधन दवज्वाला पापद्रुमकुठारिका ।
कृता नैकापि वैशाखी विधिना पुत्र पूर्णिमा ९२।
अव्रता यस्य वैशाखी सोऽवैशाखो भवेन्नरः ।
दशजन्मानि च ततस्तिर्यग्योनिषु जायते ९३।
चिरं भुक्त्वा दुःखमंते प्रेतः पर्यायतो भवेत् ।
लभते मानुषं जन्म कथंचिदपि दुर्लभम् ९४।
उपायं ते वदिष्यामि प्रेतमोक्षकरं परम् ।
श्रुतवान्यदहंपूर्वजन्मनिस्वगुरोर्मुखात् ९५।
गच्छ पुत्र गृहं स्नात्वा यमुनायां विधानतः ।
अद्यतः सर्वगतिदा कल्पाद्या साप्युपागता ।
पश्चिमेऽहनि वैशाखी पितृदेवार्चने हिता ९६।
पानीयमप्यत्र तिलैर्विमिश्रं सहोदकुंभान्नफलानि भक्त्या ।
दद्यात्पितृभ्यो भवतीह दत्तं श्राद्धं सदा तेन समा सहस्रम् ९७।
वैशाख्यां पौर्णमास्यां यो भोजयेद्भूमिदेवताः ।
सिक्थेसिक्थे भवेत्तृप्तिः पितॄणां युगसंख्यया ९८।
वैशाख्यां विधिना स्नात्वा भोजयेद्ब्राह्मणान्दश ।
पायसं सर्वपापेभ्यो मुच्यते नात्र संशयः ९९।
गौरान्वा यदि वा कृष्णांस्तिलान्क्षौद्रेण संयुतान् ।
दत्वा दशभ्यो विप्रेभ्यस्तेनैव स्वस्ति वाचयेत् १००।
प्रीयतां धर्मराजेति पितॄन्देवांश्च तर्पयेत् ।
यावज्जीवकृतं पापं तत्क्षणादेव नश्यति १०१।
वैशाख्यां पौर्णमास्यां च सृष्टाः कमलयोनिना ।
तिला देयाश्च भक्त्या च स्पृश्याः सर्वांगतो द्विज १०२।
यस्तिलैर्यवसम्मिश्रैः स्नाति सर्वांगतस्तदा ।
तस्य ब्रह्मा च धर्मोऽत्र ददाति वरमीप्सितम् १०३।
प्रीतये धर्मराजस्य यो दद्यादुदकुंभकान् ।
सप्तसप्त कुलं तेन तारितं स्यान्न संशयः १०४।
त्रयोदश्यां चतुर्दश्यां पूर्णायां भक्तितत्परः ।
स्नात्वा जप्त्वा तथा हुत्वा दत्वा संपूज्य माधवम् १०५।
यत्फलं जायते पुत्र तदस्माकं प्रयच्छ भोः ।
नैतौ परिचितौ प्रेतौ हित्वा स्वर्गतिमाश्रये १०६।
एतयोरपिपापस्य ह्यं तोयं समुपस्थितः ।
यम उवाच-
तथेत्युक्त्वा गतः सर्वं ततश्चक्रे स वै द्विजः १०७।
प्रीतः परमया भक्त्या वैशाख्यां स्नानदानकृत् ।
स्नातः समुदितो भक्त्या प्राप्य माधवपूर्णिमाम् १०८।
दत्वा बहूनि दानानि तेभ्यः पुण्यं ददौ पृथक् ।
तत्क्षणादेव ते सर्वे विमानस्था दिवं ययुः १०९।
तत्पुण्यदानयोगेन मुदिता द्विजसत्तम ।
धनशर्मापि विप्रेंद्र श्रुःतिस्मृतिपुराणवित् ११० ।
भुक्त्वा भोगांश्चिरं कालं ब्रह्मलोकमवाप्तवान् ।
एषा पुण्यतमा तस्माद्वैशाखी विश्वपावनी १११।
कथ्यते तु मया विप्र समासेनातिगौरवात् ११२।
धन्यास्त एव कृतिनश्च त एव जाता लोके त एव पुरुषाः पुरुषार्थभाजः ।
ये माधवे मधुनिषूदनमर्चयंति प्रातर्निमज्ज्य नियमेन विशुद्धचित्ताः ११३।
यो माधवे मासि नरः प्रभाते स्नातः समाराधयते रमेशम् ।
यमैरुपेतो नियमैरशेषैर्वृतोऽपि नूनं स निहंति पापम् ११४।
तैरेवकालो विजितस्त एव नरेषु धन्या विगतैनसस्ते ।
त एव गर्भे न विशंति भूयो मज्जंति ये माधवमासि युक्ताः ११५।
स माधवो गर्जति यज्ञयोगात्तपः क्रिया दानविधान योगात् ।
यस्मिन्कृतं मासि कथंचिदल्पं पुण्यं पुनः स्यादिह कल्पतुल्यम् ११६।
मज्जतो हि मनुजस्य माधवे माधवार्चनकृते दिनोदये ।
तामसोपि जलबिंदुसंगमादंगमावहति पावनं यतः ११७।
तानि देहमधिरुह्य देहिनस्तावदेव विचरंत्यघानि च ।
यावदेति न स माधवाह्वयः श्रीरमारमणवल्लभो विराट् ११९।
मेरुमंदरतुल्यानि पापान्युग्राण्यनेकशः ।
दहते माधवो मासः स्नातो माधववल्लभः १२०।
इदं संक्षेपतः प्रोक्तं मया तेऽनुग्रहाद्द्विज ।
वैशाखस्नानमाहात्म्यं श्रोतुः पापक्षयं करम् १२१।
यस्तु श्रोष्यति भक्त्यैनमितिहासं मयोदितम् ।
सोऽपि पापविनिर्मुक्तो न मामालोकयिष्यति १२२।
ब्रह्महत्यादि पापानि बहुशोऽपि कृतान्यपि ।
वैशाखस्य विधानेन तानि नश्यंति निश्चितम् १२३।
त्रिंशत्पूर्वान्परांस्त्रिंशत्त्रिंशच्चैव परावरान् ।
वैशाखे विधिना स्नातो नरकादुद्धरेत्पितॄन् १२४।
एकतः सर्वतीर्थानि सर्वेयज्ञाः सदक्षिणाः ।
एकतो माधवो मासो नियमादनुपालितः १२५।
यतो भगवतस्तस्य हरेरुत्कृष्टकर्मणः ।
प्रियोऽसौ माधवोमासः सर्वेभ्यः प्रवरोऽधिकः १२६।
संशयं नो विधेहीति महीदेव कथंचन ।
वैशाखं प्रति वै मासं समासाद्यन्मयोदितम् १२७।
इहार्थे यत्पुरावृत्तं तदाकर्णय चाद्भुतम् ।
अनाख्येयमपीदं ते कथयिष्ये कथानकम् १२८।
इति श्रीपद्मपुराणे पातालखंडे वैशाखमाहात्म्ये अष्टनवतितमोऽध्यायः ९८।