पद्मपुराणम्/खण्डः ५ (पातालखण्डः)/अध्यायः १०५

← अध्यायः १०४ पद्मपुराणम्
अध्यायः १०५
वेदव्यासः
अध्यायः १०६ →

मुनय ऊचुः -
अतःपरं महाभागः किं चकार स राघवः ।
मुनयश्च महात्मानः किमकुर्वंस्ततः परम् १।
सूत उवाच-
रामचंद्रे सुखासीने विभीषणे कपीश्वरे ।
शंभुमूचुर्मुनिवराः कथां पुण्यां वदस्व नः २।
तेषामाकर्ण्य वचनं पार्वतीमाह शंकरः ।
इदं कस्यापि विप्रस्य गृहं परमशोभनम् ३।
रम्योपवनवापीभिर्वीरुद्भिरुपशोभितम् ।
कूजन्मधुकरश्रेण्या आहूतकुसुमायुधम् ४।
मध्याह्नसंध्यामारोढुमिव सूर्यः प्रवर्त्तते ।
छायावापीजलस्नातौ परिधाय सुवाससी ५।
मृगनाभिसमुद्घृष्टघनसारसुचंदनम् ।
आलिप्य सल्लकीदामदृढधम्मिल्लसंयुतौ ६।
अनल्पघनसारं तु तांबूलं प्रतिखादितम् ।
आस्वाद्य माद्यन्मुदितौ यत्र धारागृहे शुभे ७।
मयूरनादबहुले बहिर्मधुरगीतकैः ।
शय्यायामास्तृतायां च परस्परसुखस्थितौ ८।
विशालस्मितरक्तोष्ठमाननं चुंबितं यदि ।
संसारफलमाघ्रातमावयोस्तु भविष्यति ९।
इतीरितमथ श्रुत्वा कुपिता मुनयस्तु ते ।
उक्तं वा सुशुभं वाक्यमस्मासु किमिदं त्वया १०।
विप्रलापः प्रियासक्तेः कृतो नोस्मद्वचः कृतम् ।
अथ कोपपराच्छंभोराननात्परमाद्भुता ११।
ज्वाला विनिर्गता सापि करालवदनाभवत् ।
कस्यचित्तु मुनेर्भार्यामाससादाथ सत्वरम् १२।
पलायनपरा चासीद्रामं दृष्ट्वा च बिभ्यती ।
रामोऽपि ब्राह्मणीं शुद्धां मोचयामीत्यभाषत १३।
जगाम पुष्पकेणैव ब्रुवन्मुक्तिं पुनः पुनः ।
बाणं च धनुषा योक्तुं न च सस्मार राघवः १४।
शंभुरप्यतिपुण्यानि वनान्यायतनानि च ।
पुराणि च विचित्राणि दृष्ट्वा रामं न चास्मरत् १५।
क्षणेन च तदा प्राप्तो लोकालोकं महागिरिम् ।
दृष्ट्वाथ राघवः शैलं गृहमार्गसमाकुलम् १६।
विप्रयोषिन्महाभागा क्व गता वदत द्विजाः ।
इतो गतेति ते प्रोचुस्तमोभागं गिरेरिति १७।
रामो विवर्णवदनः कष्टमित्यभिचिंतयन् ।
अथ शंभुर्महातेजाः प्रकाशमतुलं ददौ १८।
तत्प्रकाशप्रभावेण रामः कृत्यां ययावनु ।
तमोमयी महाभूमिः सर्वजंतुविवर्जिता १९।
आब्रह्मांडकटाहांता शतयोजनकोटितः ।
महारजतभूमिश्च तमोमध्ये व्यवस्थिता २०।
तत्र नारायणपुरं सूर्यकोटिसमप्रभम् ।
स राम मुनिवर्यास्तु तं दृष्ट्वा विस्मयं ययुः २१।
किमेतदिति चाचिंत्य नः प्रवेशः कथं भवेत् ।
किमेष प्रलयाग्निः स्यान्मायया परमात्मनः २२।
किंवा नो मरणं त्वद्य उत श्रेयो भविष्यति ।
इति चिंताकुलेष्वेव स रामेषु मुनिष्वथ २३।
शंभुराह शृणुष्वाद्य राघवैतद्वदामि ते ।
प्रकल्पिता मया माया त्वत्कृते नैतदद्भुतम् २४।
नारायणीयमेतत्तु परमं धाम भास्वरम् ।
उष्णशीताद्यविच्छेद्यं ज्ञानगम्यं न चाक्षुषम् २५।
तत्तु पूजयतश्चोर्ध्वं पश्य ब्रह्मपुरोगमान् ।
दिक्षु सर्वासु च मुनीन्पश्य पूजयतोऽमलान् २६।
चतुरो निगमान्पश्य स्तुवतः परमं पदम् ।
योगिनः सनकाद्यास्तु योगमास्थाय यत्नतः २७।
ध्यायंति परमं तेजस्तदिदं पश्य राघव ।
अमुं च रोमशं पश्य प्रदक्षिणनमस्क्रियाः २८।
कुर्वाणं कोटिकोटीश्च वालखिल्यान्मुनीश्वरान् ।
लक्ष्म्यादिसर्ववनिता पूज्यमानं परं पदम् २९।
साकारं च निराकारं ब्रह्म यत्परिकीर्तितम् ।
अज्ञानिनो न पश्यंति पश्यंति ज्ञानचक्षुषः ३०।
शंभुवाक्यादतः सर्वे पूजयामासुरच्युतम् ।
गिरिकर्णीं च तुलसीं मल्लिकां मारुतं तथा ३१।
नीलोत्पलैरंबुजैश्च कृष्णास्फुटजलैरपि ।
पूजयंतो महात्मानो महात्मानं जनार्दनम् ३२।
नारदं खेऽथ ददृशुर्जटिलं सविपंचिकम् ।
नारायणपदाघोषं लंबकूर्चोपवीतिनम् ३३।
स चापि मनसा दध्यौ क एष इति नारदः ।
स पपात प्रभोः पादे शंभोरानंदनिर्भरः ३४।
शैवीं पंचाक्षरीं विद्यां जजाप मनसा मुनिः ।
धन्योऽस्म्यनुगृहीतोऽस्मि जन्माद्यसफलं मम ३५।
ब्रह्मादिवंद्यं चागम्यं ज्ञातवानस्मि ते पदम् ।
नारदं तमथ प्राह शंभुर्मैवं वदेति हि ३६।
यथा च मां न जानंति तथा मे कुरु वर्तनम् ।
गच्छ शीघ्रं हरिं ब्रूहि ममागमनमल्पतः ३७।
अथ स त्वरया गत्वा सर्वं व्यज्ञापयद्धरिम् ।
अथ सत्वरया विष्णोरादायार्घोदकं शुभम् ३८।
कमलासहितो योगी कोटिकोटिसमावृतः ।
निर्ययौ नारदं हस्ते गृहीत्वा गरुडध्वजः ३९।
नमोनमो नमोस्त्वस्मै शंकरायेत्युदीरयन् ।
अर्घपाद्यादिना सर्वान्पूजयामास केशवः ४०।
प्रावेशयदमेयात्मा नारायणपुरं शुभम् ।
गृहराजे ततः स्थित्वा नारायण उवाच ह ४१।
कथमेते समायाताः कोऽयं राजा महायशाः ।
अमानुषप्रवेशोऽयं ब्रह्माद्यैरप्यगोचरः ४२।
शंभुरुवाच-
मुनिवेषा यथा प्राप्ता वयमेते नृपस्तथा ।
तवांशो नृपतिश्चायं रामचंद्रः प्रतापवान् ४३।
एनां संवीक्षितुं पत्नीं तव केशव कांक्षति ।
नारायणस्तथेत्युक्त्वा प्रविशेत्याह राघवम् ४४।
अथ प्रविश्य भवनं लक्ष्मीं वीक्ष्य नमस्य च ।
विनयावनतो भूत्वा वाचमाह सुचारिणीम् ४५।
कृतार्थोऽस्मि न संदेहो वद त्वं किं तु मन्यसे ।
श्रीदेव्युवाच-
त्वं युवा कामकृष्टश्च रूपवानसि राघव ४६।
सीता सा चारुसर्वांगी तव पत्नी तया भवान् ।
वियुक्तोऽस्ति पुरा चासीदतीव विरहाकुलः ४७।
ममापि वद सर्वं तदथवा न च लप्स्यसि ।
सहासान्यथ वाक्यानि यूनां चित्तहराणि च ४८।
श्रुत्वा तु तानि सर्वाणि रामभद्रो यतात्मवान् ।
निर्गंतुं कांक्षते तत्र आनम्य तन्मुखांबुजम् ४९।
स्मरबाणेन पद्मेन संपीड्य रघुशेखरम् ।
अन्वेव निर्ययौ देवी पद्मा पद्मवनप्रिया ५०।
एकपत्नीव्रतं ज्ञात्वा रामं ते समुपागमन् ।
अथवेपितसर्वांगं स्खलत्पदगतिं नृपम् ५१।
शिवनारायणौ दृष्ट्वा विस्मयं परमं गतौ ।
अहोऽस्य द्रढिमाचित्ते मायिनोऽप्य वशात्मनः ५२।
धैर्यं पश्येह नियतं तेन रामः सुकीर्तिमान् ।
सर्वतः शिवमेवास्य नाशिवं विद्यते क्वचित् ५३।
अथ रामो वचः प्राह गच्छेहं भगवन्प्रभो ।
अनुज्ञातोऽथ हरिणा पुष्पकेण स राघवः ५४।
स मुनिः सहशंभुश्च सहनारायणो ययौ ।
लोकालोकं गतः शीघ्रं ततः स्वादूदधिं गतः ५५।
ततो द्वीपसमुद्रांश्च जंबूद्वीपं पुनर्गतः ।
भरद्वाजाश्रमपदे तस्थिवान्गौतमीतटे ५६।
अथ स्नात्वा महानद्यां भरद्वाजो मुनीश्वरः ।
शिष्यैः श्रीमान्परिवृतः पुष्पकं दृष्टवान्मुनिः ५७।
तत्र रामं महाबाहुं शिवनारायणावृषीन् ।
यथावत्पूजयित्वा तु तानुवाच महामुनिः ५८।
ममाश्रमपदे यूयं भोक्तुमर्हथ सत्तमाः ।
रामस्तु मन्वाक्येन तथेत्याह कथंचन ५९।
अथ स्नात्वा महानद्यां कृत्वा देवादितर्पणम् ।
भोक्तुकामं तदा रामं वसिष्ठो वाक्यमुक्तवान् ६०।
धर्मत्यागो भवेद्राम न श्राद्धं क्रियते यदि ।
श्रीराम उवाच-
अमायां ग्रहणे तीर्थे व्यतीपातेऽथ संक्रमे ६१।
व्यतीतं यदि चेच्छ्राद्धं भगवन्क्रियते पुनः ।
नित्यश्राद्धं पुनर्नैव कुर्यादिति वचस्तव ६२।
यथा ममैव मातॄणां मरणे समुपस्थिते ।
अशौचे च समायाते नित्यश्राद्धं न वै कृतम् ६३।
व्यतीपातादिकालेषु कृतं तु वचनात्तव ।
वसिष्ठ उवाच-
एते हि मुनयः सर्वे तथा शंभुरयं द्विजः ६४।
एतन्मुखादशेषेण निर्णयस्तु भविष्यति ।
सह सर्वे विनिश्चित्य मुनयः शंभुमब्रुवन् ६५।
वदास्माकमशेषं त्वं द्विजवर्य महानसि ।
शंभुरुवाच-
त्यक्तव्यं यच्च वै श्राद्धं पुनः कर्तव्यमेव च ६६।
सूतके समनुप्राप्ते विघ्नेषु च वदाम्यहम् ।
मासिकान्युदकुंभानि श्राद्धानि सकलानिच ६७।
प्रतिसांवत्सरं श्राद्धं सूतकानंतरं विदुः ।
त्यक्तान्यन्यानि यावंति सूतके विघ्नसंभवे ६८।
अनंतरं हि कार्याणि सर्वाणीति न संशयः ।
मासिकानि समस्तानि श्राद्धं प्रात्यब्दिकं तथा ६९।
सूतकानंतरं कार्यं विघ्नेऽन्यस्मिन्यतोन्यथा ।
एकादश्यां कृष्णपक्षे कर्तव्यं शुभमिच्छता ७०।
तत्र व्यतिक्रमे हेतावमायां क्रियते तु तत् ।
यथोत्तरदिनेष्वेव कर्तव्यं यद्यविघ्नतः ७१।
कृष्णपक्षे त्वमायां तु कर्तव्यं राम नो कृतम् ।
मृताहस्य यदा मासो न ज्ञायेत कथंचन ७२।
मार्गशीर्षेऽथवा माघे श्राद्धं तद्दिवसे स्मृतम् ।
यदा तु वासराज्ञानं मासस्य ज्ञानमेव च ७३।
अमायामेव तन्मासे श्राद्धं सांवत्सरं भवेत् ।
दिनमासापरिज्ञाने प्रोषितस्य मृतस्य च ७४।
तत्तिथ्यां तद्दिनं ग्राह्यं तत्र ज्ञानं यदा भवेत् ।
आश्विनामा च मार्गामा माघामा च दिनत्रयम् ७५।
तत्र वान्यतमं ग्राह्यं दिनमासाप्रतीतितः ।
वृद्धिसप्तमसीमंत प्रेतश्राद्धानुमासिकम् ७६।
नित्योदकुंभश्राद्धं च मासे स्युरधिकेऽपि च ।
ग्रहणे पुत्रजन्मादौ कर्मण्यपि च शांतिके ७७।
संकल्पिते च सर्वस्मिन्नधिमासो न दुष्यति ।
रोगी यदा मनुष्यः स्याच्छ्राद्धकर्मण्युपस्थिते ७८।
भार्यां वा भ्रातरं वापि शिष्यं वापि नियोजयेत् ।
तस्याभावे न हानिः स्यात्कर्मणः श्राद्धसंज्ञिनः ७९।
नित्यश्राद्धे यथाशक्ति भोक्तारं तु नियोजयेत् ।
अमावास्या मासिकं च मृताह व्यतिरेकि यत् ८०।
स्वयं कर्मण्यशक्तश्चेत्सुतं विप्रं नियोजयेत् ।
राजकार्यनियुक्तस्य दासग्रहणवर्तिनः ८१।
व्यसनेषु समस्तेषु श्राद्धं विप्रेण कारयेत् ।
प्रातःकाले तु न श्राद्धं प्रकुर्वंति द्विजोत्तमाः ८२।
नैमित्तिकेषु श्राद्धेषु न कालनियमः स्मृतः ८३।
गृहादिव्यतिरिक्तस्य प्रक्रमः कुतुपः स्मृतः ।
कुतुपादथवाप्यर्वागासन्नकुतुपो भवेत् ८४।
मासेमासे यथाश्राद्धेऽपराह्णस्पृग्विधीयते ।
अपराह्णव्यापिनी स्यादुभयत्र यदा त्वमा ८५।
क्षये पूर्वा तु कर्तव्या वृद्धौ साम्ये परा स्मृता ।
अमावास्या तु या हि स्यादपराह्णद्वये समा ८६।
क्षये पूर्वा परा वृद्धौ साम्येऽपि च परा भवेत् ।
क्षीणस्तु चंद्रमा यत्र तत्र श्राद्धं तु पार्वणम् ८७।
अमाष्टभागे सूक्ष्मोऽसौ भूताष्टांशे स नास्ति चेत् ।
मध्याह्नव्यापिनी सा स्यादेकोद्दिष्टे तिथिर्भवेत् ८८।
सायाह्नव्यापिनी या स्यात्पार्वणे सा तिथिर्भवेत् ।
अल्पापराह्णगा यामा ग्राह्या श्राद्धादिके भवेत् ८९।
मृताहे त्रिमुहूर्ता च सायंकाले तिथिर्भवेत् ।
परेह्यस्तंगता यत्र त्रिमुहूर्तं तु पूर्ववत् ९०।
तत्रापरेद्युः श्राद्धं स्याज्ज्येष्ठपुत्रस्य नाशनम् ।
अमाश्राद्धं यथा कुर्यान्मृताहे समुपस्थिते ९१।
मध्याह्नव्यापिनी तत्र ह्य द्विजस्य विधीयते ।
राम उवाच-
श्राद्धक्रममशेषेण मर्त्यकर्मक्रमं तथा ९२।
प्रासंगिकानां धर्माणां निर्णयं वक्तुमर्हसि ।
शंभुरुवाच-
श्राद्धस्य दिवसे प्राप्ते पूर्वेद्युर्नियमान्वितः ९३।
निमंत्रयीत विप्रेंद्रान्विप्रलक्षणसंयुतान् ।
एकभुक्तं ब्रह्मचर्यमंत्यजाद्यैरभाषणम् ९४।
दंतधावनमभ्यंग नखकेशनिकृंतनम् ।
कर्ता कुर्वीत पूर्वेद्युस्त्यक्त्वा चैव परेऽहनि ९५।
गृह्णीतनियमानुक्तान्सर्वमेतत्परित्यजेत् ।
त्रिकालं चैव पूजा चेत्प्रातर्देवं यजेत्स्वकम् ९६।
अरुणोदयवेलायां करोति यदि पूजनम् ।
अधःशायी तथा भूतः प्रातरुत्थाय कर्मवित् ९७।
प्रातस्त्यमपि यत्कर्म तत्कृत्वा स्नानपूर्वकम् ।
ऋणत्रयविनिर्मुक्तो यास्यति ब्रह्मतत्परम् ९८।
सूर्यस्योदयवेलायां शिवपूजां करोति यः ।
सूर्येणसम तेजस्वी शिवलोके महीयते ९९।
उदिते भास्करे पश्चाद्धटिकांतरपूजनम् ।
रुद्रेणसम तेजस्वी शिवलोके महीयते १००।
तृतीयघटिकायां तु शिवपूजां समाचरेत् ।
कुबेरसम तेजस्वी शिवलोके महीयते १०१।
तृतीयघटिकायां तु शिवपूजां समाचरेत् ।
कुबेरसम तेजस्वी शिवलोके महीयते १०२।
चतुर्थीपंचमीषष्ठीसप्तमी घटिकासु यः ।
शिवं पूजयते भक्त्या शिवलोके मरुत्समः १०३।
तत्काल एव क्रियते पूजा यत्कालनोदिता ।
यथा प्रतिज्ञमथवा गृहीत नियमो यजेत् १०४।
उपचारेषु शक्त्या वै नियमं परिपालयेत् ।
नियमातिक्रमे वापि यागश्च स्याद्विभोर्यदि १०५।
श्रीराम उवाच-
क्व पूजा देवदेवस्य शंकरस्यामितौजसः ।
स्मरणात्पापनाशस्य स्मरणान्मोक्षदस्य च १०६।
शिवस्य शिवरूपस्य शिवतत्त्वार्थवेदिनः ।
सोमस्य सोमभूषस्य सोमनेत्रस्य राजितुः १०७।
वेदमूर्तेरमूर्तेश्च वेदसारस्य वेदिनः ।
वेदवेदांगवित्तस्य वेद्यावेद्यस्य योगिनः १०८।
गोक्षीरसमदेहस्य गोक्षीरस्नानमोदिनः ।
गोपालिनस्त्रिनेत्रस्य त्रयीनेत्रस्य मायिनः १०९।
प्रश्नमध्ये तथा रामं शिवज्ञानमथादिशत् ।
स्थाणुभूतइवासीनो नासाग्रन्यस्तलोचनः ११०।
आनंदनिष्यंदविलोचनाश्रु प्रवाहसंस्पृष्टकपोलदेशः ।
दधार देवं गिरिशं हृदंबुजे गोक्षीरसुस्निग्धसुचारुगात्रम् १११।
प्रतिबिंबमथो गात्रे रामस्य समदृश्यत ।
दृष्ट्वैव बिंबितं शंभुं चतुर्बाहुं त्रिलोचनम् ११२।
विस्मयं परमं याताः सर्वे मुनिहरीश्वराः ।
शंभोर्वक्षःस्थितं रामं दृष्ट्वा दीप्ताकृतिं शुभम् ११३।
तूष्णीं बभूवुर्यामार्द्धमथ राममुदैक्षत ।
स्वप्रश्नमनुसंधाय प्राह सर्वं वदेति च ११४।
शंभुरुवाच-
अचले या सदा पूजा चले वापि यथेच्छया ।
लिंगसंपूजनं मुख्यमलाभे प्रतिमादिषु ११५।
अधिकारविशेषेण तत्रतत्रापि पूजनम् ।
विगुणं सगुणं वापि सफलं लिंगपूजनम् ११६।
प्रतिमादिकृतापूजा विगुणा सफला नहि ।
अचले वा चले वापि पूजा लिंगे प्रशस्यते ११७।
चलस्य पूजनं वक्ष्ये स्थापनोद्वासने तथा ।
ते उभेन विजानाति कश्चिन्मुनिरपि क्वचित् ११८।
स्थापयंति हृदब्जे वै गोपयंति यजंति च ।
उद्वासयंति देवेशं शंकरं योगिनः सदा ११९।
क्रिया चातीव होतॄणां वह्नौ देवं त्रियंबकम् ।
पूजकानामशेषाणां शिवलिंगे महेश्वरम् १२०।
लिंगस्य स्थापनं पूजा उद्वासनमथैव च ।
धारणं शंकरस्यैव लिंगमेव महेश्वरम् १२१।
सज्जिकं परमोत्कृष्टं स्वर्णं चैव विनिर्मितम् ।
राजतैर्वा दलैः कार्यं राजतैर्वैणवैस्तु यत् १२२।
लतासूत्रैरथो वापि रचितं दारुणाथवा ।
वस्त्रेण वाथ रचितं मृदाविरचितं भवेत् १२३।
तत्र संवेष्ट्य वस्त्रेण सुगंधेन समन्विते ।
धौतवस्त्रयुगे शुद्धे मृद्वासन समन्विते १२४।
शीतोष्णरहिते पादचतुष्टयसमन्विते ।
प्रावृतिच्छेदनोपेते क्रिमिकीटविवर्जिते १२५।
धौतेन मृदुवस्त्रेण सर्वतो वेष्ट्य तं शिवम् ।
विन्यस्य सज्जिकामध्ये प्रावृत्य च पुनर्विभुम् १२६।
एषा हि सज्जिका राम देवस्याग्रेति कीर्तिता ।
तस्य च स्थापनं पाठो रहस्ये च महेशितुः १२७।
अथवा भित्तिमूले स्याद्देववेद्यामथापि वा ।
सुरक्षिते तथा देशे रक्षकं च नियोजयेत् १२८।
प्राणादेरविनाभावं कुर्वीत नियमैः सह ।
एतद्धि राजसं प्रोक्तं स्थापनं परमात्मनः १२९।
सात्विकं स्वसमीपस्थं धारणं तामसं पुनः ।
धारणं गात्रसंस्पर्शमशेषदेहगोपनम् १३०।
मस्तके धारणं मुख्यं ब्रह्मणा च तथा कृतम् ।
विन्यस्य मुकुटस्यांते धारणं शुभमुच्यते १३१।
ललाटे धारणं शस्तं यथा लक्ष्म्या धृतं शुभम् ।
बाणेन च धृतं मूर्ध्नि दक्षिणोरसि वा पुनः १३२।
कर्णे च हरकर्णेन मुनिना परमर्षिणा ।
विनिर्भिद्य तथा गात्रं लोहस्थानं प्रकल्प्य च १३३।
धारयंति तथा लिंगं राक्षसाः केचिदुत्तमाः ।
अनिकेतन मर्त्यानामशक्तानां शिरोधृतिः १३४।
अधमाधममाख्यातं नीवीबंधादिधारणम् ।
तेषु तूच्छिष्टसंप्राप्तौ मस्तके धारणं भवेत् १३५।
अधमाधमवृत्तीनां सदा वै लिंगधारणम् ।
पापिनामपि चाश्चर्यं यमलोके न विद्यते १३६।
श्रीराम उवाच-
चित्रगुप्तेन लिखिता ललाटे या लिपिर्दृढा ।
तया तु लिप्या नियतं नरकं कथमन्यथा १३७।
करोति पूजनं शंभोः पापं नाशयते कथम् ।
शंभुरुवाच-
पापं नाशयते कृत्स्नमपि जन्मशतार्जितम् १३८।
भर्त्सनात्सर्वपापानां स्मरणाच्च महेशितुः ।
भस्मेति पदमाख्यातं तस्य धारणमुत्तमम् १३९।
यथाविधि ललाटे वै वह्निवीर्यप्रधारणात् ।
नाशयेल्लिखितां यामीं पटस्थामिव हव्यभुक् १४०।
कर्णोपरिकृतं पापं नष्टं स्यान्मुखधारणे ।
कंठे च धारणात्कंठभोगादिकृतपातकम् १४१।
बाह्वोर्बाहुकृतं पापं वक्षसि मनसा कृतम् ।
नाभ्यां शिश्नकृतं पापं पृष्ठे गुदकृतं तथा १४२।
पार्श्वयोर्धारणाद्राम परस्त्र्यालिंगनादिजम् ।
तद्भस्मधारणं शस्तं सर्वत्रैव त्रिपुंड्रकम् १४३।
ब्रह्मविष्णुमहेशानां त्रय्यग्नीनां च धारणम् ।
गुप्त्यै लोकत्रयाणां च धारणं तेन वै कृतम् १४४।
धृतं पंचदशस्थाने शुद्धं भस्माभिमंत्रितम् ।
कोष्ठयुग्मे बाहुयुग्मे कोष्ठोपरि युगे तथा १४५।
धारणं सर्वदेहानां पूजायै धर्मसंमतम् ।
भस्माशना भस्मशय्या भस्मोद्धूलितविग्रहाः १४६।
भस्मस्नानाः सदापापैर्मुच्यंते नात्र संशयः ।
आदौ ब्राह्मणदीक्षायां त्रियायुषमिति स्मृतम् १४७।
प्रसवे च मनुष्याणां भूतावेशेऽपि रक्षकम् ।
सर्पादिविषहान्यर्थं सर्वेषां साधनं त्विदम् १४८।
अपि वा वैष्णवो मर्त्य अथवापीतरो जनः ।
भस्मस्नायी भस्मयुक्तः कर्मस्वधिकरोति वै १४९।
श्रीराम उवाच-
भस्ममाहात्म्यमादौ मे भस्मायुष्यं हि कस्य वै ।
कथं हि रक्षते ह्येतत्सर्वमेतद्वदस्व मे १५०।
शंभुरुवाच-
आयुष्यवर्द्धने हेतुस्त्रिविधस्यापि देहिनः ।
पापघ्नं शीतमुष्णं च स्पर्शाच्छिवपदप्रदम् १५१।
अत्र ते कीर्तयिष्यामि चेतिहासं पुरातनम् ।
आसीद्वासिष्ठवंश्यस्तु धनंजय इति द्विजः १५२।
तस्य भार्याशतं चासीद्रूपलावण्यसंयुतम् ।
तासामेका तु सुषुवे शामाकाकरुणं मुने १५३।
भार्याणां संख्यया राम सुताश्चासंस्तपस्विनः ।
पित्रा विभागस्तेषां च विषमः परिकल्पितः १५४।
भ्रातॄणां च तदा ह्येव वैरबंधो महानभूत् ।
नराणामेकजातीनां वैरं नियतमेव तु १५५।
अथासौ करुणो गत्वा भवनाशिनिका तटे ।
नानामुनिगणैः सार्द्धं नरसिंहदिदृक्षया १५६।
नृसिंहदर्शनार्थं तु ब्राह्मणेन तु केनचित् ।
उत्कृष्टफलितंवीरमानीतं रूपगंधवत् १५७।
करुणस्तु तदादाय व्यजिघ्रत्फलमुत्तमम् ।
तत्रस्थिता द्विजगणाः शापेन तमयोजयन् १५८।
मक्षिका भव पापात्मन्वर्षाणां शतमप्यतः ।
शापावसानं भविता दधीचेन महात्मना १५९।
अथ मक्षिकतां प्राप्तो भार्यामिदमभाषत ।
मक्षिकात्वमहं प्राप्तो मां शुभे पालयस्व भोः १६०।
इत्युक्त्वा स तथा भूतो बभ्राम च ततस्ततः ।
अथैवंविधमाज्ञाय ज्ञातयः पापनिश्चयाः १६१।
तद्वधे यत्नमास्थाय तैलमध्ये ह्यपातयन् ।
मृतं पतिमथादाय दुःखिता सा कृशोदरी १६२।
तद्दुःखशमनार्थाय प्राह देवीत्वरुंधती ।
अमुं संजीवयाम्यद्य भस्मनैव शुचिस्मिते १६३।
अथाग्निहोत्रजं भस्म अरुंधत्यै न्यवेदयत् ।
मृत्युंजयेन मंत्रेण मृतजंतौ तथाक्षिपत् १६४।
मंदवायुं तथा चक्रे व्यजनेन शुचिस्मिता ।
उदतिष्ठत्ततो जंतुर्भस्मनोऽस्य प्रभावतः १६५।
ततो वर्षशते पूर्णे ज्ञातिरेको ह्यमारयत् ।
मृते भर्तरि सा साध्वी दुःखिता च शुचिस्मिता १६६।
दधीचं नाम विप्रेंद्रं महामाहेश्वरं मुनिम् ।
जगाम शरणं साध्वी प्राह विप्रस्तपोधनः १६७।
त्रियायुषा विहीनं तु जमदग्निं तपोनिधिम् ।
भस्मैव जीवयामास कश्यपं च तथाविधम् १६८।
देवानपि तथाभूतान्मामप्येतादृशं पुरा ।
तस्मात्तु भस्मना जंतुं जीवयामि तवानघे १६९।
इत्येवमुक्त्वा भगवान्दधीचो महेश्वरं वै शरणं जगाम ।
भस्माभिमंत्र्याथ करे गृहीत्वा संजीवयामास धवं सुसाध्व्याः १७०।
महेशस्य करस्पर्शाद्विशापः करुणोऽभवत् ।
स्वरूपं च ततो गत्वा स्वमाश्रमपदं ययौ १७१।
दधीचमपि सा साध्वी गृहमानीय भोजने ।
प्रार्थयामास विप्रर्षिं भुक्तवानथ स द्विजः १७२।
भुक्तवत्यथ विप्रेंद्रे कोटिशिष्याः समागताः ।
अथ देवाः समायाता भस्मोद्धूलितविग्रहाः १७३।
नमस्कृत्य दधीचं तु पप्रच्छुः शिवकांक्षया ।
देवा ऊचुः -
अस्माकं तु पुरा ज्ञानं नष्टमासीन्महामते १७४।
गौतमस्य तु भार्यां वै दृष्ट्वा कामातुरा वयम् ।
तथा च धर्षिता देवी विवाहकृतमंगला १७५।
तां वै कामयमानानां नष्टं ज्ञानमभूच्च नः ।
ततः सर्वे वयं भूता गता दुर्वाससं मुनिम् १७६।
स उवाचाधुना सर्वमपनेष्यामि वोमलम् ।
शतरुद्रियमंत्रेण मंत्रितं शंभुना स्वयम् १७७।
ममापि दत्तं तेनैव ब्रह्महत्यादिशांतये ।
इत्येवमुक्त्वा दुर्वासा दत्तवान्भस्मचोत्तमम् १७८।
अथ तद्वचनात्सर्वे वयं विकृतचेतनाः ।
शतरुद्रियमंत्रेण भस्मोद्धूलितविग्रहाः १७९।
निर्धूतपातकाः सर्वे संवृत्तास्तत्क्षणेन हि ।
आश्चर्यमेतज्जानीमो भस्मसामर्थ्यमीदृशम् १८०।
दधीच उवाच-
शैवस्य भस्मनः शक्तिं संक्षेपेण वदामि वः ।
विस्तरेण न शक्येत वक्तुं वर्षशतैरपि १८१।
अत्र वः कीर्तयिष्यामि पुरावृत्तं तु देवयोः ।
हरिशंकरयोः सर्वे ब्रह्महत्यादिनाशनम् १८२।
पुरा चैकार्णवे घोरे ब्रह्मणः प्रलये सति ।
महाविष्णुस्तु भगवाञ्छेते स्म प्रलयांभसि १८३।
तस्य पार्श्वद्वयं प्राप्य ब्रह्मांडानां शतद्वयम् ।
विंशतिः पादयोः पार्श्वे विंशतिर्मस्तकांतरे १८४।
नासामौक्तिकभावेन ब्रह्मांडमदधात्प्रभुः ।
तन्नाभिमंडले केचिल्लोमशाद्या मुनीश्वराः १८५।
तपस्तपंतः सुमहदीश्वरं पर्युपासते ।
अथ विष्णुर्महातेजाश्चिंतामाप सिसृक्षया १८६।
ध्यानयोगपरो भूत्वा न किंचित्पर्यपश्यत ।
अथ दुःखेन महता रुरोदोच्चैः पुनः पुनः १८७।
एतस्मिन्नंतरे दीप्तिः काचिल्लोकविलक्षणा ।
दृष्ट्वा च हरिणा भीत्या लोचने च निमीलिते १८८।
आगम्यमानो गोक्षीरसमतेजाः स गात्रवान् ।
संग्रथ्य कोटिब्रह्मांडदामयुग्मं करद्वये १८९।
दधानमुरसा धामकोटिब्रह्मांडकल्पितम् ।
ब्रह्मांडमेकं निपतदुत्पतच्च करद्वये १९०।
सर्वाभरणसंयुक्तं तथाभूतं तमव्ययम् ।
विष्णुस्तुष्टाव चादृष्ट्वा दर्शनाय च तस्य वै १९१।
विष्णुरुवाच-
नमस्ते देवदेवेश नमस्ते शाश्वताव्यय ।
न जानेऽहं भवंतं भोस्त्वं च वेत्सि नमोनमः १९२।
जानामि न च ते भावं दुर्निरीक्ष्या च ते द्युतिः ।
माणिक्यकुंडलं हेमदामजालविभूषितम् १९३।
रत्नांगुलीयं सुभगं बाहुकोष्ठविभूषणम् ।
तनुरक्तोत्तमाकीर्ण दीप्तायतविलोचनम् १९४।
बाणलोचनसंकाशं भाललोचनमव्ययम् ।
कंदर्पकार्मुकभ्रांतिजनक भ्रुवमीश्वरम् १९५।
स्निग्धाधोन्नतचार्वंग नासमच्छकपोलकम् ।
मंदस्मितं प्रसन्नास्यं विभुं बालेंदुदर्शनम् १९६।
विज्ञानरक्तवसनं वेदकल्पितभूषणम् ।
शरणं त्वां प्रपन्नोऽस्मि चक्षुर्मे दीयतां विभो १९७।
दीनांधकृपणाज्ञाननष्टस्य शरणं भव ।
अथ दिव्यं ददौ चक्षुः स्वात्मदर्शनशक्तिमत् १९८।
अथ दृष्ट्वा हरिः शंभुं त्रिनेत्रं पुरतः स्थितम् ।
को भवानित्युवाचाथ न जाने त्वां महायशः १९९।
प्रणामं केवलं कर्तुं शक्तोऽस्मि न हि वेदितुम् ।
सदाशिव उवाच-
तव ज्ञानं प्रदास्यामि कुरु स्नानं च वारुणम् २००।
भस्मस्नानं ततः पश्चात्ततो ज्ञानं वदाम्यहम् ।
श्रीभगवानुवाच-
मत्स्नानयोग्यं सलिलं न चतिष्ठति कुत्रचित् २०१।
इत्युक्तोथ निषण्णस्तु ब्रह्मांडासक्तविग्रहः ।
ऊरुदघ्नजले स्नातुं न योग्यमभवद्धरेः २०२।
शंभुर्जहास स्नानाय जलमत्यधिकं त्वहो ।
दधीच उवाच-
अथ देवः शिवो विष्णुं भालाक्षेण व्यलोकयत् २०३।
विलीनसूक्ष्मावयवं वामाक्षेण व्यलोकयत् ।
ततः सूक्ष्मतनुर्विष्णुः शीतदेहश्च शंभुना २०४।
उक्तश्च स्नाहि भो विष्णो ह्रद एष विकल्पितः ।
ततो ह्रदे हरिः स्नातुं हरांके कल्पिते तदा २०५।
प्रवेष्टुं न शशाकाथ गंभीरे तद्ध्रदस्य तु ।
हरिराह च नो पंथा ह्रदस्यास्य प्रवेशने २०६।
मार्गो मे दीयतां देव तमथो शंभुरब्रवीत् ।
कोटियोजनगंभीरं जलमेतन्महत्पुरा २०७।
निविष्टस्यैव भवत ऊरुदघ्नं जलं विभो ।
इदानीं तिष्ठतश्चापि न प्रवेशो ह्रदे कथम् २०८।
अष्टांगुलप्रमाणोऽयमूरुस्तस्मिन्ह्रदे च मे ।
पश्यामि प्रविश त्वं च पादस्पर्शं ददामि ते २०९।
वाक्यमेकं तु सोपानं वेदं मद्वाक्यनिस्सृतम् ।
हरिरुवाच-
शब्दारोहणसामर्थ्यं कस्यापीह न विद्यते २१०।
मूर्तस्य ग्रहणं शक्यं ग्रहणं वा कथं श्रुतेः ।
शंभुरुवाच-
पुंसः शक्तिर्न वस्तूनां धारणारोहणादिषु २११।
गृहाणेमं महावेदं जग्राह हरिरप्यथ ।
नम्रकरश्चाशक्तेर्हि पतन्निव जनार्द्दनः २१२।
न च शक्यं मया धर्तुमिति प्राह शिवं हरिः ।
शिवः प्रहस्य निपती पात्यतीव महाह्रदे २१३।
तत्सोपानमथारुह्य स्नातुमर्हसि केशव ।
दधीच उवाच-
वेदे सोपानभूते हि ऊरुदघ्नोपलब्धिनि २१४।
तत्र स्नात्वा स विधिना बहिरुत्तीर्य चोक्तवान् ।
स्नातोऽस्मि किमतः कार्यं शंभुराह हरिं ततः २१५।
ध्यायसे हृदये किं त्वं न च किंचिद्वदस्व मे ।
हरिर्न किंचिदित्याह तमथो शंभुरुक्तवान् २१६।
भस्मस्नानेन संशुद्धो वेत्स्यसे परमं शुभम् ।
दीक्षितस्य हि तच्छस्तं तद्रक्षां करवाण्यहम् २१७।
दधीच उवाच-
स्ववक्षः स्थितभस्मैकं नखेनादाय शंकरः ।
प्रणवेनाभिमंत्र्याथ गायत्र्या ब्रह्मभूतया २१८।
अंगुलिभ्यामुपादाय शिवः पंचाक्षरेण वै ।
हरिमस्तकगात्रेषु सर्वेष्वपि समाक्षिपत् २१९।
शांतदृष्ट्या निरीक्ष्याथ जीवेत्याह हरिं हरः ।
ध्यायस्व किं ते हृदये स च ध्यानपरोऽभवत् २२०।
अपश्यद्धृदये दीपं दीर्घाकारमतिप्रभम् ।
हरिराह शिवं साक्षाद्दीपो दृष्टो मयेति च २२१।
शिवः प्राह न ते ज्ञानं परिपक्वमथो हरे ।
भस्म भक्षय ते ज्ञानं समग्रं संभविष्यति २२२।
हरिरुवाच-
भक्षयिष्ये शुभं भस्म स्नातोऽहं भस्मना पुरा ।
दृष्ट्वेश्वरं भक्तिगम्यं भस्माभक्षयदच्युतः २२३।
तत्राश्चर्यमतीवासीत्पक्वबिंबसमद्युतिः ।
वासुदेवः शुद्धमुक्ताफलवर्णोऽभवत्क्षणात् २२४।
ततःप्रभृति शुक्लोऽसौ वासुदेवः प्रसन्नवान् ।
पुनर्ध्यानपरो भूत्वा दीपमध्ये च पूरुषम् २२५।
शुद्धस्फटिकसंकाशं त्रिनेत्रं द्विभुजं शिवम् ।
वरदं दक्षिणे हस्ते वामे चाभयदं विभुम् २२६।
पंचवर्षीयवपुषं शरच्चंद्रायुतद्युतिम् ।
माणिक्यकुंडलं हेम दामजालविभूषितम् २२७।
रत्नांगुलीयसुभगं बाहुकोष्ठसुभूषणम् ।
तनुरक्तोष्ठमाकर्ण दीर्घायतविलोचनम् २२८।
बाणलोचनसंकाशं भाललोचनमव्ययम् ।
कंदर्पकार्मुकभ्रांतिजनकभ्रुवमीश्वरम् २२९।
स्निग्धोन्नत सुचार्वंग नासमच्छकपोलकम् ।
मंदस्मितं प्रसन्नास्यं बालेंदुदर्शनं विभुम् २३०।
विज्ञानरक्तवसनं वेदकल्पितनूपुरम् ।
वामांगुलीयमध्यस्थमतिप्रणवमव्ययम् २३१।
दृष्टवानथ तं विष्णुः कृतकृत्योऽभवत्तदा ।
अथाह शंभुर्भो विष्णो हृदि दृष्टं त्वया किमु २३२।
हरिराह पुरा दृष्टः पुरुषः शांतविग्रहः ।
इत्युदीर्य महाविष्णुः शिवपादे पपात ह २३३।
हरिरुवाच-
न शक्तिं भस्मनो जाने प्रभावं वा कुतस्तव ।
नमस्तेऽस्तु नमस्तेऽस्तु त्वामेव शरणं गतः २३४।
सदाशिव उवाच-
वरं वृणु महाभाग मनसा यं त्वमिच्छसि ।
शिववाचमथाकर्ण्य हरिर्वव्रे वरोत्तमम् २३५।
हरिरुवाच-
त्वत्पादयुगले शंभो भक्तिरस्तु सदा मम ।
अथ दत्वा वरं शंभुरिदमाह वचो हरिम् २३६।
भस्मधारणसंपन्नो मम भक्तो भविष्यसि ।
दधीच उवाच-
इत्थमुक्तं महाज्ञानं भस्मसंभवमादितः २३७।
तस्माद्यूयं सुराः सर्वे धारयध्वं तदादरात् ।
विस्मयोत्फुल्लनयना देवाश्चासंस्तदस्त्विति २३८।
य इदं शृणुयान्नित्यं पुण्याख्यानमनुत्तमम् ।
विमुक्तः सर्वपापेभ्यो यात्यसौ शांकरं पदम् २३९।
इति श्रीपद्मपुराणे पातालखंडे शिवराघवसंवादे भस्ममाहात्म्ये।
पंचोत्तरशततमोऽध्यायः १०५।