पद्मपुराणम्/खण्डः ५ (पातालखण्डः)/अध्यायः ११०
← अध्यायः १०९ | पद्मपुराणम् अध्यायः ११० वेदव्यासः |
अध्यायः १११ → |
श्रीराम उवाच-
अयमग्निशिखो नाम वह्निः शिवगणश्च वै ।
स कथं तादृशो भूतस्तन्मे वद नमस्तव १।
शंभुरुवाच-
अयमासीत्पुरा कश्चित्क्षत्त्रियः क्रोधनः सदा ।
नष्टभार्यो नष्टसेनो नष्टराष्ट्रोतिदुःखितः २।
लब्ध्वा लुलाय द्वितयं कृषिं चक्रे सहात्मजैः ।
ऋणेन महता युक्तः पुनश्चातीव दुःखितः ३।
पुनश्च दुःखितो राजा सर्पेण सुतनाशनात् ।
तथाभूतो महीपालस्तत्याज कृषिमप्युत ४।
परित्यज्य सुतौ चापि त्यक्ताहारो रुरोद ह ।
सुतावथ समागम्य प्राहतुः पितरं त्विदम् ५।
किमर्थं रुद्यते तात नष्टो नायाति रोदनात् ।
शरीरशोषणायाथ शोकस्तेऽद्य भविष्यति ६।
शोकेन चक्षुषी नष्टे कंठो नष्टस्तथा तव ।
अनुष्ठानं तथा नष्टं किमर्थं परितप्यसे ७।
एको नष्टो न चायाति रक्ष पंचस्थितानसून् ।
बहूनां रक्षणं पुण्यमाश्रितानां विशेषतः ८।
अन्याश्रितममुं शत्रुं कथं शोचितुमर्हसि ।
पितोवाच-
पुत्रः शत्रुः कथं पुत्रौ युवां शत्रू तथा च मे ९।
अत्यंतसुखिनं पुत्रं कथं शत्रुमभाषतम् ।
सुतावूचतुः
जायमानो हरेद्भार्यां वर्द्धमानो हरेद्धनम् १०।
म्रियमाणस्तथा प्राणाञ्छत्रुत्वं किमतः परम् ।
यत्सुखं च त्वया प्रोक्तं स्पर्शनालिंगनादिभिः ११।
दुःखोदर्कमिदं राजन्सर्वमेतद्वदामि ते ।
प्रसूतिकाले पुत्रस्य भार्यानाशविचारणा १२।
जीवितायामथोपत्न्यामात्मनः सुखनाशनम् ।
योन्यशुद्धौ तु जातायां संयोगो नोपपद्यते १३।
आलिंगनपरे गाढं स्तन्येनांगं परिप्लुते ।
तथापि यदि संयोगः शिशुरोदनताः स्त्रियाः १४।
दृढं शिशुगतं चित्तं ततो वैरस्यमेव च ।
अथ चेत्पतितो डिंभो मध्ये मैथुनमुद्गतिः १५।
रतिमध्ये तु विच्छेदे दुःखं किंचिदसन्निभम् ।
सर्वकाले परिमिते कदाचिद्रतिसंभवः १६।
तत्काले भोजनं नास्ति स्वापो नास्ति च भार्यया ।
शिशूनां रक्षणे दुःखं व्याधितर्षग्रहादिभिः १७।
तन्मतं यत्सुखं चित्रं यथांकारोहणं पितुः ।
आलिंगनकृतं तात चुंबनादिकृतं तथा १८।
अत्यन्तमधुरोक्त्यादि यत्सुखानि नरेश्वर ।
रतिमध्ये विरामस्य कलां नार्हंति षोडशीम् १९।
अन्यान्यपि च दुःखानि संति पुत्रे सहस्रशः ।
अनेन त्वं किं क्रियसे इहामुत्र विरोधिना २०।
त्यज शोकमिदं तस्मादावां पुत्रौ स्थिताविह ।
श्रीराजोवाच-।
त्यजामि शोकं दुर्वारं सर्वकार्यविरोधिनम् २१।
आत्मनश्च हितं कार्यमिहामुत्र सुतौ मम ।
पुरोधसं तु गच्छामि मम पूर्वं महागुरुम् २२।
वसिष्ठं मुनिवर्यं च स दास्यति गतिं मम ।
एवमुक्त्वा गतो विप्रं वाराणस्यां स्थितं गुरुम् २३।
दंडवत्प्रणनामाथ मुनिना परिपूजितः ।
आलिंगितशिरो घ्रातो दत्तासनपरिग्रहः २४।
उक्तश्चागमनं किं ते किं कार्य्यं करवाणि वै ।
राजोवाच-
गतिं प्रयच्छ मे विप्र संसारतरणाय हि २५।
खिन्नोहं कर्मणा शश्वद्भवंतं शरणं गतः ।
वसिष्ठ उवाच-
गतिं पश्य महालिंगं विश्वेश्वरमिति स्थितम् २६।
एनं पूजय राजेंद्र देवदेवं पिनाकिनम् ।
यमाराध्य पुरा शक्तिररुंधत्याः सुतो मुनिः २७।
रक्षसा भक्षितश्चापि यमलोकं गतो न सः ।
किंचित्कालं गतः स्वर्गं ब्रह्मलोकमगादतः २८।
ब्रह्मलोकाद्विष्णुलोके क्रीडन्नास्ते सुतो मम ।
अमुं पश्य महाराज लुब्धकं वनचारिणम् २९।
पूजयंतं हि विश्वेशं पत्रमात्रै स्वसंभृतैः ।
शमीवृक्षस्य संभूतैस्तथा पूगप्रसूनकैः ३०।
कदंबकुसुमैरर्ककुसुमैर्यूथिकाभवैः ।
एतैरन्यैर्महेशानं पूजयंतं विलोकय ३१।
इतोर्द्धयाममात्रेण मरिष्यति तदद्भुतम् ।
अंतकाले समायाते लुब्धकोपि शिवाय वै ३२।
उपहारप्रदानाय दृष्टवान्पार्श्वतो घटम् ।
तं चूतफलसंपूर्णं शुनोच्छिष्टं विगर्हितम् ३३।
संकल्पितोपहारस्य ह्यभावाल्लुब्धकस्तथा ।
इदं जगौ शुभं वाक्यं लोकानां भक्तिसूचकम् ३४।
पुष्पाभावे हरिर्नेत्रं फलाभावेंगुलं रविः ।
लिंगविस्रंसनेकं च जमदग्नि ऋषिस्तथा ३५।
लिंगपीठविभेदे च गात्रं निर्भिद्य दत्तवान् ।
अन्यैर्माहैश्वरैरन्यत्साहसं परमं कृतम् ३६।
ममापि तत्तथा कार्य्यमन्यथा दोषभागहम् ।
एतस्मिन्नंतरे कश्चिदुन्मत्तः शिवमभ्यगात् ३७।
अथ लुब्धकृतां पूजामाहृत्याभक्षयत्क्षणात् ।
वमनं च तथा चक्रे शिवपीठेथ लुब्धकः ३८।
शिवापकारिणं चैनं हन्मि नो वेत्यचिंतयत् ।
अथ स्वात्मवधायैव यत्नमास्थाय शंकरः ३९।
उन्मत्तेन यथोद्भुक्ता शिवपूजा मया कृता ।
लिंगप्रावरणे ह्येषा तदहं मम देहिनः ४०।
प्रावृतिस्त्वगियं त्वद्य निर्म्मोक्तव्या मया द्रुतम् ।
पूजाविमोचनायैतत्फलहानेर्गलं त्यजेत् ४१।
इत्थं संकल्प्य स तथा तीक्ष्णस्वधितिनाद्भुतम् ।
चक्रे त्वचं दक्षपादं त्वचं च्छित्वा कटेरधः ४२।
वामपादं तथा चक्रे कटिपर्यंतमाशुच ।
हृष्टश्चावेपितश्चैव तत ऊर्ध्वमथाच्छिनत् ४३।
करांसोदरहृत्कंठत्वचं निर्भिद्य लुब्धकः ।
मस्तकस्य त्वचं चापि निर्बिभेद प्रहृष्टवान् ४४।
तयोरंतरतस्तस्माद्गात्रं निर्भिद्य वर्तुलम् ।
छित्त्वांगुलि समादाय देवायार्पितवांस्त्वचम् ४५।
आरादेव तथा दिव्यरूपः स्वक्षश्चतुर्भुजः ।
नानाभूषणसंयुक्तः स्थितो वियति शाङ्करः ४६।
अथ शैवाः समायाता दूताः शतसहस्रशः ।
विचित्रमुकुटाकाराः सर्वाभरणभूषिताः ४७।
त्रिशूलपाणयः सर्वे शुद्धस्फटिकसंनिभाः ।
चतुर्भुजाः सुरूपाश्च विमानवरसंस्थिताः ४८।
सर्वे सूर्यसमाः शांता रंभावत्प्रियया युताः ।
सूनुपत्नीबलोत्साह विलासस्त्रीशतान्विताः ४९।
तेजसा सूर्यसदृशाः पुष्पवृष्टिमवाकिरन् ।
तैराहूतो लुब्धकश्च नागच्छदवदच्च तान् ५०।
भार्याबंधुजनोपेतो गच्छेहमथवा न वा ।
शैवास्तद्वचनं श्रुत्वा वाक्यमेतदथोचिरे ५१।
येन पुण्यं कृतं पापं तेन भोग्यं हि तत्फलम् ।
लुब्धक उवाच-
अशौचानां च सर्वेषां धर्माणामेककर्तृकम् ५२।
माहेश्वराणां धर्माणां फलं च द्विबहुष्वपि ।
एतस्मिन्नंतरे प्राप्तो वीरभद्रः शतार्भकः ५३।
नानाकोटिगणोपेतो एहि लुब्धकबंधुयुक् ।
सर्वं त्वयोक्तं च तथा सभार्यो ज्ञातिबंधुयुक् ५४।
आरुह्येदं विमानं च शिवं गच्छ शिवं तु वः ।
अथ तद्वचनात्प्राप्तः शिवलोकं विमानगः ५५।
वसिष्ठ उवाच-
दृष्टवानसि सर्वं त्वमीशपूजां समाचर ।
विमुक्तपापबंधस्त्वं शिवलोकं गमिष्यसि ५६।
यदि राज्यं त्वया प्रार्थ्यं मार्जयेशां गणं नृप ।
गोमयोदकलेपं च नित्यमेव समाचर ५७।
एतावता भूमिराज्यं ध्रुवं तव भविष्यति ।
यावदायुश्च ते राज्यमंते शिवपदं भवेत् ५८।
नैतस्मिंस्तु भवेद्राज्यसंसिद्धिरनुमृत्युतः ।
अतो देहांतरं प्राप्य शिवसेवाप्रभावतः ५९।
भविष्यति च ते राज्यं शिवभक्तिः स्थिरा तथा ।
शंभुरुवाच-
अथ कृत्वा तथा पूजां मृतः स्वर्गं गतस्ततः ६०।
राजजन्मपुनः प्राप्य राज्यं चक्रे शिवेरतः ।
कदाचिदथ देवस्य गृहमभ्यगमन्नृपः ६१।
नानादीपसमोपेतं मणिभिर्नागराडिव ।
भटानामथ संमर्द एको दीपो पतन्नृपे ६२।
तदासौ कुपितो राजा दीपमादाय सत्वरम् ।
देवालयपुरे रम्ये न्यक्षिपत्कोपसंयुतः ६३।
दग्धं देवगृहं तेन एनश्च समपद्यत ।
अथ तेन पुनस्तत्र दग्धं वेश्मगृहादिकम् ६४।
निर्मापयामास नृपो महेशानमथायजत् ।
अथ मृत्युदिने प्राप्ते राजाराधितशंकरः ६५।
भस्मस्नायी भस्मशायी जपन्रुद्रं ममार ह ।
शिवलोकं गतः सोयं वीरभद्रेण भाषितः ६६।
भव त्वं गणशार्दूलो ममवै परिचारकः ।
शाङ्करान्मम निर्देशादानयस्व ममांतिकम् ६७।
शिरोहीनो भवांश्चापि ज्वालावक्त्रो भविष्यति ।
सतूवाच महात्मानं वीरभद्रं गणेश्वरम् ६८।
चक्षुः श्रोत्रं तथा जिह्वा नासिकास्यं शिरोगणः ।
एतैर्विना व्यवहृतिः कथं मे संभविष्यति ६९।
अभावे शिरसः किं वा मया पापं कृतं विभो ।
वीरभद्र उवाच-
त्वयैव स्वीकृता पूर्वं देवी परमसुंदरी ७०।
महेशभवनं नित्यं चार्तुवर्णकरंगकैः ।
स्वस्तिकं सर्वतोभद्रं नंद्यावर्तादिकं शुभम् ७१।
पद्ममुत्पलमांदोल पादो व्यजन चामरे ।
त्रिशूलं शंखचक्रे च गदाधनुरथैव च ७२।
त्रिशूलं डमरुंखड्गं वृषं भृंगिरिटिं शिवम् ।
तथाष्टपत्रं कमलमन्यद्यंत्रादिकं तथा ७३।
कल्पयंती प्रतिदिनं सेवते वृषभध्वजम् ।
कदाचिदथ सा वेश्या देवसद्मन्युपस्थिता ७४।
राज्ञः कारांकिकः कश्चिद्देववेश्म समाविशत् ।
अथ तां दृष्टवांस्तत्र स इदं वाक्यमुक्तवान् ७५।
काराङ्किक उवाच-
एकांतसंस्थिता वेश्या युवाहं स्थविरश्च न ।
स्थविरं व्याधितं षंढमशक्तं धनवर्जितम् ७६।
अदीर्घमेहनं दीनं पुरुषं योषिदुत्सृजेत् ।
अश्मश्रुलं मलच्छन्नं जडं दुर्गंधिदूषितम् ७७।
स्वल्पमव्यसनं नारी दूरतः परिवर्ज्जयेत् ।
तस्मान्मे दीयतां वेश्ये मैथुनं जीवयाशु माम् ७८।
वेश्योवाच-
नियतः सर्वजातीनामिहामुत्र सुखप्रदः ।
पातिव्रत्यं परो धर्म्मः स्त्रीणामिति हि शुश्रुम ७९।
यदधीना यदा वेश्या तदा नान्येन संगता ।
पतिव्रतेति विख्याता तस्मात्तं परिपालयेत् ८०।
कारांकिक उवाच-
यदि चैवं मृतिः शीघ्रं भविष्यति न संशयः ।
अथ राजांतिकं गत्वा राजानमिदमुक्तवान् ८१।
वेश्या वेश्यैव नो भार्या नेति वक्तुं च नोचितम् ।
इत्थं राजानमुक्त्वाथ मंडं चैवारनालजम् ८२।
किंचिदादाय तस्यास्तु मंदिरं गतवानयम् ।
निद्रावसरमालोक्य प्रसृज्यच करं ततः ८३।
वस्त्रस्य विवरे तत्र मंडं चिक्षेप दुष्टधीः ।
एवं कृत्वा ततो गत्वा राजानमिदमुक्तवान् ८४।
राजन्निर्गत्य गत्वाथ वेश्याग्र्यां तव योषितः ।
उत्थापयित्वा वेश्यां तां सर्वांगं द्रष्टुमर्हसि ८५।
उन्मुक्तबंधमथवा वसनं पश्य यत्नतः ।
वेश्यावेश्माथगतवान्राजा कारांकिकं वचः ८६।
इदमाह सनिद्रेयं पश्येमां यामि पश्यसि ।
स तूवाच नृपं तत्र न मे युक्तमिदं नृप ८७।
तन्मातरं वा पितरं दर्शनाय नियोजय ।
तद्दृष्टौ सर्वमेवेदं व्यक्तमाशु भविष्यति ८८।
आनीता ह्यथ राज्ञा तु माता वीक्षितुमुद्यता ।
वचनात्तु नृपस्यैव वस्त्रं शोधयतीव सा ८९।
तत्रस्थितं मंडमथ विज्ञायांबा ह्यमर्दयत् ।
मर्दनाद्वसनं क्लिन्नं किं तदित्याह पार्थिवः ९०।
न किंचिद्देव नो किंचिदिति वेश्याप्रसूरपि ।
बहुवाक्येन राजाथ वसनं वीक्ष्य शंकया ९१।
शुक्रक्लिन्नमिदं वासः प्राहैतत्पश्यतामिति ।
अथ दृष्ट्वा समीपस्थास्तथेत्यूचुर्वचो नृपम् ९२।
राजाथ स्वगृहं गत्वा दंडाध्यक्षमभाषत ।
इदानीमेव वेश्यायाः शिरश्छिंध्यविचारयन् ९३।
दर्शनीयं शिरस्तस्या घटिकाभ्यंतरे मम ।
दंडकश्च नृपोक्त्यास्यास्तथा कृत्वा ह्यदर्शयत् ९४।
वीरभद्र उवाच-
एवं कृतं त्वया पूर्वं प्राप्तं च फलमद्य ते ।
ज्वालयैव हि वक्ता त्वं श्रोता द्रष्टा च जिघ्रसि ९५।
रसं जानासि मतिमानतिक्रोधी भविष्यसि ।
शंभुरुवाच-
एवं ज्वालामुखो जातो राजा माहेश्वरोऽक्षमी ९६।
तस्मात्तु क्षमिणा भाव्यं परत्रेह सुखेप्सुना ।
य इदं शृणुयान्नित्यं पुण्याख्यानमनुत्तमम् ९७।
विमुक्तपापबंधश्च शिवलोके भविष्यति ९८।
इति श्रीपद्मपुराणे पातालखंडे शिवराघवसंवादे शिवपूजामाहात्म्यकथनं।
नाम दशोत्तरशततमोऽध्यायः ११० ।