पद्मपुराणम्/खण्डः ५ (पातालखण्डः)/अध्यायः १११

← अध्यायः ११० पद्मपुराणम्
अध्यायः १११
वेदव्यासः
अध्यायः ११२ →

श्रीराम उवाच-
महेशनाममाहात्म्यं पूजामाहात्म्यमेव च ।
नमस्कारस्य माहात्म्यं दृष्टिमाहात्म्यमेव च १।
जलदानस्य माहात्म्यं धूपदानस्य सत्तम ।
दीपगंधादिदानस्य माहात्म्यं वद मे गुरो २।
शंभुरुवाच-
एकैकनाममाहात्म्यं विस्तरान्न हि शक्यते ।
संक्षेपेण च ते वच्मि शृणु राघव सादरम् ३।
पुरा त्रेतायुगे राजा विधृतो नाम वीर्यवान् ।
मृते पितरि बालोसौ भूमिराज्येभिषेचितः ४।
समानवयसः सर्वान्समीपस्थांश्चकार सः ।
ये वृद्धा ये च विद्वांसस्ते च तस्य न संमताः ५।
युवानः संमता दुष्टा अकार्यकरणास्तथा ।
सुस्त्र्यानयनदक्षाश्च चोरकर्मविशारदाः ६।
भांडवार्तारता लास्यनिपुणास्तस्य संमताः ।
वशीकरणमंत्रज्ञा वस्त्रौषधविदस्तथा ७।
गीतनर्तनशीलाश्च धूर्त्ता द्यूतविदः प्रियाः ।
पितृसंमतकर्तॄणां त्यागं चक्रे स पार्थिवः ८।
विचार्य स च तैः सार्द्धं दुष्टैः कार्यमकारयत् ।
एतादृशांस्तथा चान्यान्दुष्टान्सह युयोज ह ९।
एतदुक्तिमुपालंब्य शिष्टं सुहृदमत्यजत् ।
उरोमुष्टिं च फेत्कारं ये कुर्युस्तस्य ते प्रियाः १०।
भगलक्षणतत्त्वज्ञा रतितंत्रविशारदाः ।
राजनीतिविहीनं तद्राज्यं समभवत्तदा ११।
गजाश्वरथमुष्ट्राजं गोमहिष्यादिकं च यत् ।
तत्सर्वं नाशमापन्नमपहारायतस्ततः १२।
रत्नानि वसुधान्यानि न दृश्यंते पुरे तदा ।
अथ भूपांतरेणासौ निर्जितः प्रपलायितः १३।
महारण्यमथो गत्वा गिरिदुर्गमकल्पयत् ।
तत्र चाल्पपरीवारश्चोरवृत्तिं समाश्रितः १४।
सुवर्णवस्त्रधान्यादि रत्नगंधादिकं तथा ।
तत्रतत्र विनिर्दिश्य चोरानायानवंचकान् १५।
बंधाद्यकारयत्तैस्तु द्रव्याहरणकर्मणि ।
यदाहारो न विद्येत तदाहारमकल्पयत् १६।
गोमहिष्यादिमांसेन यद्यन्नं नोपलभ्यते ।
अश्वीय नरमांसेन भोजनं पर्य्यकल्पयत् १७।
एतादृशमभूद्वृत्तं संध्योपासादिवर्जितम् ।
एकस्तु सचिवस्तस्य सुरापो नाम राक्षसः १८।
नियुंक्ते सर्वकालं तमाहरप्रहरेति च ।
एवं रक्षोमते स्थित्वा नानादेशगतान्नरान् १९।
नृसहस्रपरीवारो ह्यादद्यादकृपालयः ।
स्वस्याभिमतयोषास्तु ज्ञात्वा ज्ञात्वा समाहरत् २०।
किंचित्कालं च ता भुक्त्वा तासां मांसमभक्षयत् ।
एवं हत्वा नरान्नारी राज्यं चक्रे सुदुःसहम् २१।
एवं वर्षसहस्रं तु राज्यं कृत्वा नराधमः ।
जराशिथिलसर्वांगो वलीपलितदूषितः २२।
निर्जीवमभवत्स्थानं समंताद्दशयोजनम् ।
अथ मृत्युदिनं प्राप्तं राज्ञस्तस्य महात्मनः २३।
मृत्युकालेथ संप्राप्ते स्नातं भूमिगतं नृपम् ।
तस्य चानुचराः सर्वे परिवार्योपतस्थिरे २४।
सुरापः सचिवः प्राह किं कार्यं मम चादिश ।
अथ राजा तथा शक्तो निर्गतायुस्तदार्दितः २५।
नाभेरधस्तु क्षीणासुः कथंचिद्वाक्यमुक्तवान् ।
त्वं सर्वकाले दैत्येंद्र प्रहरप्राहराहर २६।
इत्यथोक्त्वा ममारासौ यमदूताः समाययुः ।
विचित्रं बंधने यत्नं चक्रुस्ताडनतत्पराः २७।
चूर्णिता बंधपाशाश्च हेतिदंडाश्च चूर्णिताः ।
तद्गात्रस्पर्शमात्रे च तदद्भुतमिवाभवत् २८।
अथायातः स्वयं मृत्युः पाशेनैनमयोजयत् ।
मृत्युपाशमपिच्छिन्नं वीक्ष्य मृत्युरचिंतयत् २९।
सर्वमर्त्यमृतिर्दृष्टा दृष्टा नैतादृशी क्वचित् ।
इति चिंतापरे मृत्यौ ज्वालावक्त्रः प्रतापवान् ३०।
वीरभद्रेण निर्दिष्टः सहसायाच्च शूलभृत् ।
ज्वालावक्त्रमथालोक्य मृत्युस्तूर्णं पलाययौ ३१।
पलायमानं तं दृष्ट्वा मृत्युं वह्निमुखस्तदा ।
अरे रे चोर चोर त्वं तिष्ठतिष्ठ क्व यास्यसि ३२।
एनसो मुच्यते चोरः शूलारोपणमात्रतः ।
एवमाभाष्य मृत्युं तं शूलप्रोतमकल्पयत् ३३।
शूलं स्कंधगतं कृत्वा दूतान्संग्रथ्य रज्जुना ।
पादशृंखलविन्यस्तानादाय नृपमध्यगात् ३४।
विमानवरमारोप्य गीतवाद्यसुशोभितम् ।
वीरांतिकमथो गत्वा सर्वमस्मै न्यवेदयत् ३५।
वीरभद्रोपि तत्सर्वं शंकरायामितात्मने ।
नानामुनिगणैर्देवैर्ब्रह्मविष्णुपुरः सुरैः ३६।
सेव्यमानाय देवाय पार्वतीसहिताय च ।
प्रणिपत्य निवेद्याथ शूलस्थंमृत्युमेव च ३७।
तूष्णीं बभूव विश्वात्मा वीरभद्रः प्रतापवान् ।
अग्न्याननं वीक्ष्य शिवो विगर्हयन्कथं त्वयैतद्गणसाहसं कृतम् ।
बिभेषि मृत्योर्न कथं यमाधिकाद्वदस्व सर्वं परमार्थतो मे ३९।
प्रणम्य तं वह्निमुखोऽतिरोषो मृत्युं समालोक्य ननर्त हर्षात् ।
उवाच चौर्यं कृतमेव मृत्युना तदेष शूलेऽपि मया प्ररोहितः ४०।
विमोचयामास शिवोपि मृत्युं दूतानशेषान्निरुजश्चकार ।
मृत्युं समालोक्य शिवो बभाषे मन्नाम एषां मरणे समास्ते ४१।
मच्चेतसामन्यधियां च नामहीनाक्षरं वाधिकवर्णयुक्तम् ।
ममैव लोकं प्रददामि सत्यं ह्यनेन नाम प्रहरेति भाषितम् ४२।
प्रशब्दमात्रं त्वधिकं हरेतिपदप्रदं वै पदमीरयंति ।
आरादमूंस्त्वं जपतो नमस्व मदीयवाक्यं च यमं वदस्व ४३।
नतिं यतिं कीर्तिमुपास्तिमाश्रिता दास्यं च कैंकर्य्यमथ श्रुतिंवदाः ।
पंचाक्षरोक्तिं शतरुद्रियोक्तिं शिवस्य कुर्वंति न ते विचार्याः ४४।
मन्नामरुद्राक्षविभूतिधारणो ममाग्रतो यस्तु पुराणवक्ता ।
सर्वेषु पापेष्वपि तेषु सत्सु प्रशास्म्यहं नैव यमाधिकारः ४५।
ये चापि पापान्वितमायिनो नराः परान्नवस्त्रादिवधूभुजश्च ।
वाराणसीमृत्युपराश्च ये वै श्रीशैलमर्त्याश्च न ते विचार्याः ४६।
यूकाश्च दंशा अपि मत्कुणाश्च मृगादयः कीटपिपीलिकाश्च ।
सरीसृपा वृश्चिकशूकराश्च काशीमृताः शंकरमाप्नुवंति ४७।
इदं नामगृणन्ध्यायेद्यो वै हृत्पद्ममंदिरे ।
त्रियंबकं विरूपाक्षं सोमं सोमार्द्धभूषणम् ४८।
त्रिनेत्रकं त्रयीनेत्रं सोमसूर्याग्निलोचनम् ।
तं नमस्कृत्य दूरस्थो भवमृत्यो ममाज्ञया ४९।
अथाकर्ण्य शिवप्रोक्तं मृत्युस्तुष्टाव शंकरम् ।
नमस्ते देवतानाथ नमस्ते देवमूर्तये ५०।
सर्वज्ञाय नमस्तुभ्यं पशूनां पतये नमः ।
अथ देवो महादेवो मृत्युं प्राह वरं वृणु ५१।
स्तोत्रेणानेन तुष्टोस्मि मृत्युर्वरमयाचत ।
त्वदीयं पालय विभो मां च शंकर पापिनम् ५२।
तथेत्युक्त्वा मृत्युमीशो गच्छ वत्सेति चाब्रवीत् ।
यमलोकं गतः सोपि यमायाशेषमुक्तवान् ५३।
शंभुरुवाच-
य इदं शृणुयान्नित्यं पुण्याख्यानमनुत्तमम् ।
विमुक्तः सर्वपापेभ्यो याति शंकरसन्निधिम् ५४।
इति श्रीपद्मपुराणे पातालखंडे शिवराघवसंवादे एकादशोत्तरशततमोऽध्यायः १११ ।