पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः ०२७

← अध्यायः ०२६ पद्मपुराणम्
अध्यायः ०२७
वेदव्यासः
अध्यायः ०२८ →

महादेव उवाच-
पानीयदानं परमं दानानामुत्तमं सदा ।
तस्माद्वापीश्च कूपांश्च तडागानि च कारयेत् १।
अर्द्धं पापं संहरंति पुरुषस्य विकर्मणः ।
कूपाः प्रवृत्तपानीयाः सुप्रवृत्तस्य नित्यशः २।
स च तारयते वंशं यस्य खात जलाशये ।
गावः पिबंति विप्राश्च साधवश्च नराः सदा ३।
निदाघकाले पानीयं यस्य तिष्ठति नारद ।
दुर्गे विषमकृच्छ्रे च न कदाचिदवाप्यते ४।
तडागानां च वक्ष्यामि कृतानां ये गुणाः स्मृताः ।
त्रिषु लोकेषु सर्वत्र पूजितो यस्तडागवान् ५।
अथवा मित्रसदनं मित्रमैत्रीविवर्द्धनम् ।
कीर्तिसंजननं श्रेष्ठं तडागस्योपलक्षयेत् ६।
धर्म्यस्यार्थस्य कामस्य फलमाहुर्मनीषिणः ।
तडागं सुकृतं देशे क्षेत्रमध्ये महाश्रयम् ७।
चतुर्विधानां भूतानां तडागस्योपलक्षयेत् ।
तडागानि च सर्वाणि दिशंति श्रेयमुत्तमम् ८।
देवामनुष्यागंधर्वाः पितरो नाग राक्षसाः ।
स्थावराणि च भूतानि संश्रयंति जलाशयम् ९।
वर्षाऋतौ तडागे तु सलिलं यत्र तिष्ठति ।
अग्निहोत्रफलं तस्य जायते नात्र संशयः १०।
हेमंते शिशिरे चैव सलिलं यस्य तिष्ठति ।
गोसहस्रफलं तस्य लभते नात्र संशयः ११।
वसंतेऽपि तथा ग्रीष्मे सलिलं तिष्ठते यदि ।
अतिरात्राश्वमेधाभ्यां फलमाहुर्मनीषिणः १२।
अथैतेषां तु वृक्षाणां रोपणे च गुणाञ्छृणु ।
अतीतानागतौ चोभौ पितृवंशौ महाऋषे १३।
तारयेद्वृक्षरोपी च तस्माद्वृक्षांस्तु रोपयेत् ।
पुत्रपौत्रा भवंत्येते पादपा नात्र संशयः १४।
परलोकं गतः सोऽपि लोकानाप्नोति चाक्षयान् ।
पुष्पैः सुरगणान्सर्वान्पत्रैश्चापि तथा पितॄन् १५।
छायया चातिथीन्सर्वान्पूजयंति महीरुहाः ।
किन्नरोरगरक्षांसि देवगंधर्वमानवाः १६।
तथा ऋषिगणाश्चैव संश्रयंति महीरुहान् ।
पुष्पिताः फलवंतश्च तर्पयंतीह मानवान् १७।
इहलोके परे चैव पुत्रास्ते धर्मतः स्मृताः ।
तडागवृक्षरोपाश्च इष्टयज्ञाश्च ये द्विजाः १८।
एते स्वर्गान्नहीयंते ये चान्ये सत्यवादिनः ।
सत्यमेव परं ब्रह्म सत्यमेव परं तपः १९।
सत्यमेव परो यज्ञः सत्यमेव परं श्रुतम् ।
सत्यं देवेषु जागर्ति सत्यं च परमं पदम् २०।
तपो यज्ञाश्च पुण्यं च तथा देवर्षिपूजनम् ।
आद्यो विधिश्च विद्या च सर्वं सत्ये प्रतिष्ठितम् २१।
सत्यं यज्ञस्तथा दानं मंत्रा देवी सरस्वती ।
व्रतचर्या तथा सत्यमोङ्कारः सत्यमेव च २२।
सत्येन वायुरभ्येति सत्येन तपते रविः ।
सत्येन चाग्निर्दहति स्वर्गः सत्येन तिष्ठति २३।
पूजनं सर्वदेवानां सर्वतीर्थावगाहनम् ।
सत्यं च वदते लोके सर्वमाप्नोत्यसंशयः २४।
अश्वमेधसहस्रं च सत्यं च तुलया धृतम् ।
सर्वेषां सर्वयज्ञानां सत्यमेव विशिष्यते २५।
सत्येन देवाः प्रीयंते पितरो ऋषयस्तथा ।
सत्यमाहुः परं धर्मं सत्यमाहुः परं पदम् २६।
सत्यमाहुः परं ब्रह्म तस्मात्सत्यं वदामि ते ।
मुनयः सत्यनिरताः तपस्तप्त्वा सुदुष्करम् २७।
सत्यधर्मरताः सिद्धास्ततः स्वर्गमितो गताः ।
अप्सरोगणसंघुष्टैर्विमानैः परितो वृताः २८।
वक्तव्यं च सदा सत्यं न सत्याद्विद्यते परम् ।
अगाधे विपुले सिद्धे सत्तीर्थे च शुचौ हृदि २९।
स्नातव्यं मनसा युक्तैः स्नानं तत्परमं स्मृतम् ।
आत्मार्थे वा परार्थे वा पुत्रार्थे वापि मानवाः ।
अनृतं ये न भाषंते ते नराः स्वर्गगामिनः ३०।
वेदा यज्ञास्तथा मंत्राः संति विप्रेषु नित्यशः ।
न भांत्युज्झित सत्येषु तस्मात्सत्यं समाचरेत् ३१।
नारद उवाच-।
तपसां मे फलं ब्रूहि पुनरेव विशेषतः ।
सर्वेषां चैव वर्णानां ब्राह्मणानां तपोबलम् ३२।
प्रवक्ष्यामि तपोध्यानं सर्वकामार्थसाधकम् ।
सुदुश्चरं द्विजातीनां तन्मे निगदतः शृणु ३३।
तपो हि परमं प्रोक्तं तपसा विंदते फलम् ।
तपोरतो हि यो नित्यं मोदते सह दैवतैः ३४।
तपसा प्राप्यते स्वर्गस्तपसा प्राप्यते यशः ।
तपसा मोक्षमाप्नोति तपसा विंदते महत् ३५।
ज्ञानविज्ञानसंपत्तिः सौभाग्यं रूपमेव च ।
तपसा लभते सर्वं मनसा यद्यदिच्छति ३६।
नातप्ततपसो यांति ब्रह्मलोकं कदाचन ।
यत्कार्यं किंचिदास्थाय पुरुषस्तप्यते तपः ३७।
तत्सर्वं समवाप्नोति परत्रेह च मानवः ।
सुरापः परदारी च ब्रह्महा गुरुतल्पगः ।
तपसा तरते सर्वं सर्वतश्च विमुच्यते ३८।
अपि सर्वेश्वरः स्थाणुर्विष्णुश्चैव सनातनः ।
ब्रह्मा हुताशनः शक्रो ये चान्ये तपसान्विताः ३९।
षडशीतिसहस्राणि मुनीनामूर्द्ध्वरेतसाम् ।
तपसा दिवि मोदंते समेता दैवतैः सह ४०।
तपसा प्राप्यते राज्यं शक्रः सर्वे पुरा सुराः ।
तपसा पालयन्सर्वानहन्यहनि वृत्तिदाः ४१।
सूर्याचंद्रमसौ देवौ सर्वलोकहिते रतौ ।
तपसैव प्रकाशंते नक्षत्राणि ग्रहास्तथा ४२।
सर्वं च तपसाभ्येति सर्वं च सुखमश्नुते ।
तपस्तपति योऽरण्ये वनमूलफलाशनः ४३।
योऽधीते श्रुतिमेवादौ समं स्यात्तपसा मुने ।
श्रुतेरध्यापनात्पुण्यं यदाप्नोति द्विजोत्तमः ४४।
तदध्यायस्य जप्याच्च द्विगुणं फलमश्नुते ।
जगद्यथा निरालोकं जायते शशिभास्करौ ४५।
विना तथा पुराणं हि ध्येयमस्मान्महामुने ।
तप्यमानस्तपो ज्ञानं यो धारयति शास्त्रतः ४६।
संबोधयति लोकं च तस्मात्पूज्यतमो गुरुः ।
सर्वेषां चैव पात्राणां श्रेष्ठपात्रं पुराणवित् ४७।
पतनात्त्रायते यस्मात्तस्मात्पात्रमुदाहृतम् ।
धनं धान्यं हिरण्यं वा वासांसि विविधानि च ४८।
ये यच्छंति सुपात्राय ते यांति च परां गतिम् ।
गाश्चैव महिषीर्वापि गजानश्वांश्च शोभनान् ४९।
यः प्रयच्छति मुख्याय तत्पुण्यस्य फलं शृणु ।
अक्षयं सर्वलोकानां सोऽश्वमेधफलं लभेत् 6.27.५०।
महीं ददाति यस्तस्मै कृष्टां फलवतीं शुभाम् ।
स तारयति वै वंशान्दशपूर्वान्दशापरान् ५१।
विमानेन च दिव्येन विष्णुलोकं स गच्छति ।
न यज्ञैस्तुष्टिमायांति देवाः प्रोक्षणकैरपि ५२।
बलिभिः पुष्पपूजाभिर्यथा पुस्तकवाचनैः ।
विष्णोरायतने यस्तु कारयेद्धर्मपुस्तकम् ५३।
देव्याः शंभोर्गणेशस्य अर्कस्य च तथा पुनः ।
राजसूयाश्वमेधाभ्यां फलं प्राप्नोति मानवः ५४।
इतिहासपुराणाभ्यां पुण्यं पुस्तकवाचनम् ।
सर्वान्कामानवाप्नोति सूर्यलोकं भिनत्ति सः ५५।
सूर्यलोकं च भित्त्वासौ ब्रह्मलोकं स गच्छति ।
स्थित्वा कल्पशतान्यत्र राजा भवति भूतले ५६।
अश्वमेधसहस्रस्य यत्फलं समुदाहृतम् ।
तत्फलं समवाप्नोति देवाग्रे यो जयं पठेत् ५७।
तस्मात्सर्वप्रयत्नेन कार्यं पुस्तकवाचनम् ।
इतिहासपुराणाभ्यां विष्णोरायतने शुभम् ।
नान्यत्प्रीतिकरं विष्णोस्तथान्येषां दिवौकसाम् ५८।
इति श्रीपाद्मेमहापुराणे पंचपंचाशत्सहस्रसंहितायां उत्तरखण्डे उमापतिनारदसंवादे वृक्षप्रपासरोवरतपोऽध्ययन धर्मव्याख्यान माहात्म्यंनाम सप्तविंशोऽध्यायः २७।