पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः ०२६

← अध्यायः ०२५ पद्मपुराणम्
अध्यायः ०२६
वेदव्यासः
अध्यायः ०२७ →

नारद उवाच-
गुणाधिकेभ्यो विप्रेभ्यो दातुकामोऽपि मानवः ।
कानिकानि च लोकेऽस्मिन्दद्यात्सर्वं तथा वद १।
महादेव उवाच-
लोके तत्वं हि संज्ञाय शृणु देवर्षिसत्तम ।
अन्नमेवं प्रशंसंति सर्वमन्ने प्रतिष्ठितम् २।
तस्मादन्नं विशेषेण दातुमिच्छंति मानवाः ।
अन्नेन सदृशं दानं न भूतं न भविष्यति ३।
अन्नेन धार्यते विश्वं जगत्स्थावरजंगमम् ।
अन्नमूर्जस्करं लोके प्राणाह्यन्ने प्रतिष्ठिताः ४।
दातव्यं भक्ष्यमेवान्नं ब्राह्मणाय महात्मने ।
कुटुंबं पीडयित्वापि आत्मनो भूतिमिच्छता ५।
नारदासौ विदांश्रेष्ठो यो दद्यादन्नमर्थिने ।
ब्राह्मणायार्तरूपाय पारलौकिकमात्मनः ६।
आत्मीयभूतिमन्विच्छेत्काले द्विजमुपस्थितम् ।
श्रांतमध्वनि वर्त्तंतं गृहस्थं गृहमागतम् ७।
अन्नदः प्राप्नुते विद्वान्सुशीलो वीतमत्सरः ।
क्रोधमुत्पतितं हित्वा दिवि चेह च यत्सुखम् ८।
नाभिनिंदेच्च अतिथिं न द्रुह्याच्च कथंचन ।
ब्रह्मविदेऽर्पयेदन्नं तच्च दानं विशिष्यते ९।
श्रांतायादृष्टपूर्वाय अन्नमध्वनि वर्तिने ।
यो दद्याच्च परिक्लिष्टं सर्वधर्ममवाप्नुयात् १०।
पितृदेवांस्तथा विप्रातिथींश्च महामुने ।
यो नरः प्रीणयेतान्नैस्तस्य पुण्यमनंतकम् ११।
कृत्वापि सुमहत्पापं यो दद्यादन्नमर्थिने ।
ब्राह्मणाय विशेषेण स तु पापैः प्रमुच्यते १२।
ब्राह्मणेष्वक्षयं दानमन्नं शूद्रे महत्फलम् ।
अन्नदानं च शूद्रे च ब्राह्मणे चावशिष्यते १३।
न पृच्छेद्गोत्रचरणं न च स्वाध्यायमेव च ।
भिक्षुको ब्राह्मणो ह्यत्र दद्यादन्नं प्रयाति च १४।
अन्नदस्य शुभा वृक्षाः सर्वकामफलान्विताः ।
संभवंतीह लोके च हर्षयुक्तास्त्रिविष्टपे १५।
अन्नदानेन ये लोकास्तान्शृणुष्वमहामुने ।
विमानानि प्रकाशंते दिवि तेषां महात्मनाम् १६।
नानासंस्थानरूपाणि नानाकामान्वितानि च ।
सर्वकामफलाश्चापि वृक्षा भुवनसंस्थिताः १७।
हेमवाप्यः शुभाः सर्वा दीर्घिकाश्चैव सर्वशः ।
घोषवंति च यानानि मुक्तान्यथ सहस्रशः १८।
भक्ष्यभोज्यमयाः शैला वासांस्याभरणानि च ।
क्षीरं स्रवंत्यः सरितस्तथैवाज्यस्य पर्वताः १९।
प्रासादाः शुभ्रवर्णाभाः शय्याश्च कनकोज्वलाः ।
तदन्नं दातुमिच्छंति तस्मादन्नप्रदो भवेत् २०।
एते लोकाः पुण्यकृतामन्नदानं महत्फलम् ।
तस्मादन्नं विशेषेण दातव्यं मानवैर्भुवि २१।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायां उत्तरखण्डे उमापतिनारदसंवादे अन्नदानप्रशंसानाम षड्विंशोऽध्यायः २६।