← अध्यायः ०८८ पद्मपुराणम्
अध्यायः ०८९
वेदव्यासः
अध्यायः ०९० →

श्रीकृष्ण उवाच-
ततो गुणवती श्रुत्वा रक्षसा निहतावुभौ
पितृभर्तजदुःखार्त्ता करुणं पर्यदेवयत् १
गुणवत्युवाच-
हा नाथ हा पितस्त्यक्त्वा गच्छतं क्व मया विना
बालाहं किं करोम्यद्य ह्यनाथा भवता विना २
को नु मामास्थितां गेहे भोजनाच्छादनादिभिः
अकिंचित्कुशलां स्नेहात्पालयिष्यति दुःखिताम् ३
हतभाग्या गतसुखा हतेशा हतजीविता
शरणं कं व्रजाम्यद्य त्वन्नाथा बतबालिशा ४
श्रीकृष्ण उवाच-
एवं बहुविलप्याथ कुररीव भृशातुरा
पपात भूमौ विकला रंभा वातहता यथा ५
चिरादाश्वस्य सा भूमौ विलप्य करुणं बहु
निमग्ना दुःखजलधौ शोकार्त्ता समवर्त्तत ६
साग्रहोपस्करान्सर्वान्विक्रीय शुभकर्मकृत्
तयोश्चक्रे यथाशक्ति पारलौकिक सत्क्रियाम् ७
तस्मिन्नेव पुरे वासं चक्रे प्रभृतिजीवितम्
विष्णुभक्तिपरा शांता सत्यशौचा जितेंद्रिया ८
व्रतद्वयं तया सम्यगाजन्म मरणात्कृतम्
एकादशीव्रतं सम्यक्सेवनं कार्त्तिकस्य च ९
एतद्व्रतद्वयं कांते ममातीव प्रियंकरम्
भुक्तिमुक्तिकरं सम्यक्पुत्रसंपत्तिकारकम् १०
कार्तिके मासि ये नित्यं तुलासंस्थे दिवाकरे
प्रातः स्नास्यंति ते मुक्ता महापातकिनोऽपि च ११
संमार्जनं गृहे विष्णोः स्वस्तिकादि निवेदनम्
विष्णुपूजां प्रकुर्वंति जीवन्मुक्ताश्च ते नराः १२
स्नानं जागरणं दीपं तुलसीवनसेवनम्
कार्त्तिके ये प्रकुर्वंति ते नरा विष्णुमूर्त्तयः १३
इत्थं दिनत्रयमपि कार्तिके ये प्रकुर्वते
देवानामपि ते वंद्याः किं यैराजन्मतः कृतम् १४
इत्थं गुणवती सम्यक्प्रत्यब्दं प्रतिनीयते
नित्यं विष्णोः परिकरे भक्ता तत्परमानसा १५
कदाचिज्जरसा साथ कृशांगी ज्वरपीडिता
स्नातुं गंगां गता कांते कथंचिच्छनकैस्तथा १६
यावज्जलांतरगता कंपिता शीतपीडिता
तावत्सा विह्वला पश्यद्विमानं प्राप्तमंबरात् १७
शंखचक्रगदापद्महस्तैरासन्नमंबरात्
विष्णुरूपधरैः सम्यग्वैनतेयध्वजांकितैः १८
आरोहयन्विमानं तमप्सरोगणसेवितम्
चामरैर्वीज्यमानां तां वैकुंठमनयन्गणाः १९
अथ सा तद्विमानस्था ज्वलदग्निशिखोपमा
कार्त्तिकव्रतपुण्येन मत्सान्निध्यगताभवत् २०
अथ ब्रह्मादिदेवानां यथा प्रार्थनया भुवम्
आगच्छता गणाः सर्वे यातास्तेऽपि मया सह २१
एतेपि यादवाः सर्वे मद्गणा एव भामिनि
पिता ते देवशर्माभूत्सत्राजिदधिपो ह्ययम् २२
यश्चंद्रशर्मा सोऽक्रूरस्त्वं सा गुणवती शुभे
कार्त्तिकव्रतपुण्येन बहुमत्प्रीतिवर्द्धनी २३
मम द्वारे त्वया पूर्वं तुलसीवाटिका कृता
तस्मादयं कल्पवृक्षस्तवांगणतः शुभे २४
कार्तिके दीपमानं च यत्त्वया तु कृतं पुरा
त्वद्देहगेहसंस्थेयं तस्माल्लक्ष्मी स्थिराभवत् २५
यच्च व्रतादिकं सर्वं विष्णवे भर्तृरूपिणे
निवेदितवती तस्मान्मम भार्यात्वमागता २६
आजन्ममरणात्पूर्वं कार्त्तिके यद्व्रतं कृतम्
कदाचिदपि तेनैव मद्वियोगं न पश्यसि २७
एवं ये कार्त्तिके मासि नरा व्रतपरायणाः
मत्सान्निध्यं गतास्तेऽपि प्रीतिदा त्वं यथा मम २८
यज्ञदानव्रततपः कारिणो मानवाः खलु
कार्त्तिकव्रतपुण्यस्य नाप्नुवंति कलामपि २९
इत्थं निशम्य भुवनाधिपतेस्तदानीं प्राक्पुण्यजन्मभव वैभव जातहर्षा
विश्वेश्वरं त्रिभुवनैकनिदानभूतं कृष्णंप्रणम्य वचनं निजगाद सत्या ३०
इति श्रीपाद्मेमहापुराणे पंचपंचाशत्सहस्रसंहितायां कार्त्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे सत्यापूर्वजन्मवर्णनंनामैकोननवतितमोऽध्यायः ८९