← अध्यायः ०८९ पद्मपुराणम्
अध्यायः ०९०
वेदव्यासः
अध्यायः ०९१ →

सत्योवाच-
सर्वेऽपि कालावयवास्तवकालस्वरूपिणः
समानास्तु कथं नाथ मासानां कार्तिको वरः १
एकादशी तिथीनां च मासानां कार्त्तिकः प्रियः
कथं ते देवदेवेश कारणं किं च कथ्यताम् २
श्रीकृष्ण उवाच-
साधु पृष्टं त्वया सत्ये शृणुष्वैकाग्रमानसा
पृथोर्वैन्यस्य संवादं देवर्षेर्नारदस्य च ३
एवमेव पुरा पृष्टो नारदः पृथुना प्रिये
उवाच कार्त्तिकाधिक्ये कारणं सर्वविन्मुनिः ४
नारद उवाच-
शंखनामाभवत्पूर्वमसुरः सागरात्मजः
त्रिलोकीमथने शक्तो महाबलपराक्रमः ५
जित्वा देवान्निराकृत्य स्वर्गलोकान्महासुरः
इंद्रादिलोकपालानामधिकारांस्तथाहरत् ६
तद्भयादथ ते देवाः सुवर्णाद्रिगुहां गताः
न्यवसन्बहुवर्षाणि सावरोधाः सवासवाः ७
सुवर्णाद्रि गुहादुर्गसंस्थितास्त्रिदशा यदा
तद्वश्या न बभूवुस्ते तदा दैत्यो व्यचारयत् ८
हृताधिकारास्त्रिदशा मया यद्यपि निर्जिताः
भवंति बलयुक्तास्ते करणीयं ममात्र किम् ९
अद्य ज्ञातं मया देवा वेदमंत्रबलान्विताः
तान्हरिष्ये ततः सर्वे बलहीना भवंति हि १०
इति मत्वा ततो दैत्यो विष्णुमालक्ष्य निद्रितम्
सत्यलोकाज्जहाराशु वेदानां च गणं प्रभुः ११
नीतास्तु तेन ते वेदास्तद्भयात्ते निराक्रमन्
तोये निविविशुस्तेऽत्र यज्ञमंत्रसमन्विताः १२
तान्मार्गमाणः शंखोऽपि समुद्रांतर्गतो भ्रमन्
न ददर्श ततो दैत्यः क्वचिदेकत्र संस्थितान् १३
अथ ब्रह्मा सुरैः सार्द्धं विष्णुं शरणमन्वयात्
पूजोपकरणं गृह्य वैकुंठभवनं गतः १४
तत्र तस्य प्रबोधाय गीतवाद्यादिकाः क्रियाः
चक्रुर्देवा गंधपुष्पधूपदीपान्मुहुर्मुहुः १५
अथ प्रबुद्धो भगवांस्तद्भक्तिपरितोषितः
ददृशे तैः सुरैस्तत्र सहस्रार्कसमद्युतिः १६
उपचारैः षोडशभिः संपूज्य त्रिदशास्तदा
दंडवत्पतिता भूमौ तानुवाचाथ केशवः १७
विष्णुरुवाच-
वरदोऽहं सुरगणा गीतवाद्यादि मंगलैः
मनोऽभिलषितान्कामान्सर्वानेव ददामि वः १८
इषस्य शुक्लैकादश्या यावदुद्बोधिनी भवेत्
निशातुर्यांशशेषेण गीतवाद्यादि मंगलैः १९
कुर्वंति मनुजा नित्यं भवद्भिर्यद्यथाकृतम्
ते मत्प्रियकरा नित्यं मत्सांनिध्यं व्रजंति हि २०
पाद्यार्घाचमनीयाद्यैर्भवद्भिर्यद्यथाकृतम्
तदद्भुतगुणं यस्माज्जातंवः सुखकारणम् २१
वेदाः शंखहृताः सर्वे तिष्ठंत्युदकसंस्थिताः
तानानयाम्यहंदेवाहत्वासागरनंदनम् २२
अद्यप्रभृतिवेदास्तुमंत्रबीजमखान्विताः
प्रत्यब्दंकार्तिकेमासिविश्रमंत्वप्सुसर्वदा २३
अद्यप्रभृत्यहमपि भवामि जलमध्यगः
भवंतोऽपि मया सार्द्धमायांतु समुनीश्वराः २४
कालेऽस्मिन्नेवकुर्वंति प्रातःस्नानं द्विजोत्तमाः
ते सर्वयज्ञावभृथैः सुस्नाताः स्युर्न संशयः २५
ये कार्तिके व्रतं सम्यङ्नित्यं कुर्वंति मानवाः
ते देहांते त्वया शक्र प्राप्या मद्भवनं सदा २६
विघ्नेभ्यो रक्षणं तेषां यया कार्यं ममाज्ञया
देया त्वया च वरुण पुत्रपौत्रादि संततिः २७
धनवृद्धिर्धनाध्यक्ष त्वया कार्या ममाज्ञया
ममरूपधराः साक्षाज्जीवन्मुक्ताश्च ते नराः २८
आजन्ममरणाद्यैश्च कृतमेतद्व्रतोत्तमम्
यथोक्तविधिना सम्यक्ते मान्या भवतामपि २९
एकादश्यां यतश्चाहं भवद्भिः प्रतिबोधितः
अतश्चैषा तिथिर्मान्या सदैव प्रीतिदा मम ३०
व्रतद्वयं सम्यगिदंनरैः कृतं कृष्णस्य सान्निध्यदमस्ति नान्यत्
दानानि तीर्थानि तपांसि यज्ञाः स्वर्लोकदानेन सदा सुरोत्तमाः ३१
इति श्रीपाद्मेमहापुराणे पंचपंचाशत्सहस्र संहितायां कार्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे शंखासुरवधउद्यमोनाम नवतितमोऽध्यायः ९०