पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः १०३

← अध्यायः १०२ पद्मपुराणम्
अध्यायः १०३
वेदव्यासः
अध्यायः १०४ →

नारद उवाच-
विष्णुर्जालंधरं गत्वा तद्दैत्यपुटभेदनम् ।
पातिव्रत्यस्य भंगाय वृंदायाश्चाकरोन्मतिम् १।
अथ वृंदारका देवी स्वप्नमध्ये ददर्श ह ।
भर्त्तारं महिषारूढं तैलाभ्यक्तं दिगंबरम् २।
कृष्णप्रसूनभूषाढ्यं क्रव्यादगणसेवितम् ।
दक्षिणाशां गतं मुंडं तमसा व्यावृतं तदा ३।
स्वपुरं सागरे मग्नं सहसैवात्मना सह ।
ततः प्रबुद्धा सा बाला स्वस्वप्नं प्रविचिन्वती ४।
ददर्शोदितमादित्यं सच्छिद्रं निश्चलं मुहुः ।
तदनिष्टमिति ज्ञात्वा रुदती भयविह्वला ५।
कुत्रचिन्नालभच्छर्म गोपुराट्टालभूमिषु ।
ततः सखीद्वययुता नगरोद्यानमागमत् ६।
तत्रापि सागता बाला नालभत्कुत्रचित्सुखम् ।
वनाद्वनांतरं याता नैव वेदात्मनस्तदा ७।
ततो भ्रमंते सा बाला ददर्शातिविभीषणौ ।
राक्षसौ सिंहवदनौ दंष्ट्रानयनभीषणौ ८।
तौ दृष्ट्वा विह्वलातीव पलायनपरा तदा ।
ददर्श तापसंशांतं सशिष्यं मौनमास्थितम् ९।
ततस्तत्कंठ आसज्य निजां बाहुलतां भयात् ।
मुने मां रक्ष शरणमागतामित्यभाषत १०।
मुनिस्तां विह्वलां दृष्ट्वा राक्षसानुगतां तदा ।
हुंकारेणैव तौ घोरौ चकार विमुखौ रुषा ११।
यद्धुंकारभयत्रस्तौ दृष्ट्वा तौ गगनं गतौ ।
प्रणम्य दंडवद्भूमौ वृंदा वचनमब्रवीत् १२।
वृंदोवाच।
रक्षिताहं त्वया घोराद्भयात्तस्मात्कृपानिधे ।
किंचिद्विज्ञप्तुमिच्छामि कृपया तन्निशामय १३।
जलंधरो हि मे भर्त्ता रुद्रं योद्धुं गतः प्रभो ।
स तत्रास्ति कथं युद्धे तन्मे कथय सुव्रत १४।
नारद उवाच-।
मुनिस्तद्वाक्यमाकर्ण्य कृपयोर्ध्वमवैक्षत ।
तावत्कपीशावायातौ तं प्रणम्याग्रतः स्थितौ १५।
ततस्तद्भ्रूलतासंज्ञा नियुक्तौ गगनं गतौ ।
गत्वा क्षणार्द्धादागत्य वानरावग्रतः स्थितौ १६।
शिरः कबंधहस्तौ तौ दृष्ट्वाब्धितनयस्य सा ।
पपात मूर्छिता भूमौ भर्तृव्यसनदुःखिता १७।
कमंडलुजलैः सिक्ता मुनिनाश्वासिता तदा ।
स्वभर्तृभाले सा भालं कृत्वा खिन्ना रुरोद ह १८।
वृंदोवाच-।
यः पुरा सुखसंवादैर्विनोदयसि मां विभो ।
स कथं न वदस्यद्य वल्लभां मामनागसम् १९।
येन देवाः सगंधर्वा निर्जिता हरिणा सह ।
स कथं तापसेन त्वं त्रैलोक्यविजयी हतः २०।
नारद उवाच-।
रुदित्वेति तदा वृंदा तं मुनिं वाक्यमब्रवीत् ।
वृंदोवाच ।
कृपानिधे मुनिश्रेष्ठ जीवनं मेऽस्य सुप्रियम् २१।
त्वमेवास्य पुनः शक्तो जीवनाय मतो मम ।
अथ तद्वाक्यमाकर्ण्य प्रहस्य मुनिरब्रवीत् २२।
मुनिरुवाच।
नायं जीवयितुं शक्यो रुद्रेण निहतो युधि ।
तथापि त्वत्कृपाविष्ट एवं संजीवयाम्यहम् २३।
नारद उवाच।
इत्युक्त्वांतर्दधे यावत्तावत्सागरनंदनः ।
वृंदामालिंग्य तद्वक्त्रं चुचुंबे प्रीतमानसः २४।
अथ वृंदापि भर्त्तारं दृष्ट्वा हर्षितमानसा ।
रेमे तद्वनमध्यस्था तद्युक्ता बहुवासरम् २५।
कदाचित्सुरतस्यांते दृष्ट्वा विष्णुं तमेव हि ।
निर्भर्त्स्य क्रोधसंयुक्ता वृंदा वचनमब्रवीत् २६।
वृंदोवाच।
धिक्त वेदं हरे शीलं परदाराभिगामिनः ।
ज्ञातोऽसि त्वं मया सम्यङ्माया प्रत्यक्ष तापसः २७।
यौ त्वया मायया द्वास्थौ स्वकीयौ दर्शितौ मम ।
तावेव राक्षसौ भूत्वा भार्यां तव हरिष्यथ २८।
त्वं चापि भार्यादुःखार्तो वने कपिसहायवान् ।
भ्रम सर्वेश्वरेणायं यस्ते शिष्यत्वमागतः २९।
इत्युक्त्वा सा तदा वृंदा प्राविशद्धव्यवाहनम् ।
विष्णुना वार्यमाणापि तस्मिन्नासक्तमानसा ३०।
ततो हरिस्तामनुसंस्मरन्मुहुर्वृंदाचिताभस्मरजोवगुंठितः ।
तत्रैव तस्थौ मुनिसिद्धसंघैः प्रबोध्यमानोपि ययौ न शांतिंम् ३१।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे कार्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे वृंदाचिताग्निप्रवेशोनाम त्र्यधिकशततमोऽध्यायः १०३।