पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः १०६

← अध्यायः १०५ पद्मपुराणम्
अध्यायः १०६
वेदव्यासः
अध्यायः १०७ →

पृथुरुवाच।
सेतिहासमिमं ब्रह्मन्माहात्म्यं कथितं त्वया ।
अत्याश्चर्यकरं सम्यक्तुलस्यास्तु श्रुतं महत् १।
यदूर्जव्रतिनः पुंसः फलं महदुदाहृतम् ।
तत्पुनर्ब्रूहि माहात्म्यं केन चीर्णमिदं कथम् २।
नारद उवाच।
आसीत्सह्याद्रिविषये करवीरपुरे पुरा ।
ब्राह्मणो धर्मवित्कश्चिद्धर्मदत्तोऽतिविश्रुतः ३।
विष्णुव्रतकरः शश्वद्विष्णुपूजारतः सदा ।
द्वादशाक्षरविद्यायां जपनिष्ठोऽतिथिप्रियः ४।
कदाचित्कार्तिके मासि हरिजागरणाय सः ।
रात्र्या तुर्यांशशेषायां जगाम हरिमंदिरम् ५।
हरिपूजोपकरणान्प्रगृह्य व्रजता तदा ।
तेन दृष्टा समायाता राक्षसी भीमनिःस्वना ६।
वक्रदंष्ट्रानना जिह्वा निमग्ना रक्तलोचना ।
दिगंबरा शुष्कमांसा लंबोष्ठी घर्घरस्वना ७।
तां दृष्ट्वा भयवित्रस्तः कंपितावयवस्तदा ।
पूजोपकरणैर्वेगात्पयोभिश्चाहनद्भयात् ८।
संस्मृत्य च हरेर्नाम तुलसीयुतवारिणा ।
सा हता पातकं तस्मात्तस्याः सर्वमगात्क्षयम् ९।
अथ संस्मृत्य सा पूर्वजन्मकर्मविपाकजम् ।
स्वां दशामब्रवीत्सर्वां दंडवत्तं प्रणम्य सा १०।
कलहोवाच ।
पूर्वकर्मविपाकेन दशामेतां गता ह्यहम् ।
तत्कथं तु पुनर्विप्र याम्युत्तमगतिं शुभाम् ११।
नारद उवाच।
तां दृष्ट्वा प्रणतामग्रे वदमानां स्वकर्म तत् ।
अतीव विस्मितो विप्रस्तदा वचनमब्रवीत् १२।
धर्मदत्त उवाच।
केन कर्मविपाकेन त्वं दशामीदृशीं गता ।
कुतस्त्वं का च किं शीला तत्सर्वं कथयस्व मे १३।
कलहोवाच।
सौराष्ट्रनगरे ब्रह्मन्भिक्षुनामाभवद्द्विजः ।
तस्याऽहं गृहिणी पूर्वं कलहाख्याति निष्ठुरा १४।
न कदाचिन्मया भर्तुर्वचसापि शुभं कृतम् ।
नार्पितं तस्य मिष्टान्नं भर्तुर्वचनभंगया १५।
कलहप्रियया नित्यं भयोद्विग्नस्तदा द्विजः ।
परिणेतुं तदाऽन्या स मतिं चक्रे पतिर्मम १६।
ततो गरं समादाय प्राणास्त्यक्ता मया द्विज ।
अथ बध्वा बध्यमानां मां विनिन्युर्यमानुगाः १७।
यमश्च मां तदा दृष्ट्वा चित्रगुप्तमपृच्छत ।
यम उवाच।
अनया किं कृतं कर्म चित्रगुप्त विलोकय १८।
प्राप्नोत्वेषा कर्मफलं शुभं वाशुभमेव च ।
चित्रगुप्तस्ततो वाक्यं भर्त्सयन्समुवाच ह १९।
चित्रगुप्त उवाच।
अनया तु शुभं कर्म कृतं किंचिन्न विद्यते ।
मिष्टान्नं भुक्तमनया न भर्तरि तदर्पितम् २०।
अतश्च वल्गुली योन्यां स्वविष्ठादावतिष्ठतु ।
भर्तुर्द्वेषकरी त्वेषा नित्यं कलहकारिणी २१।
विष्ठादा शूकरी योन्यां ततस्तिष्ठत्वियं हरे ।
पाकभांडे सदा भुक्तं नित्यं चैवानया यतः २२।
तस्माद्दोषाद्बिडाली तु स्वजातापत्यभक्षिणी ।
भर्तारमनयोद्दिश्य ह्यात्मघातः कृतो यतः २३।
तस्मात्प्रेतपिशाचेषु तिष्ठत्वेषातिनिंदिता ।
ततश्चैव मरुं देशं प्रापितव्या भटैः सह २४।
तत्र प्रेतशरीराख्या चिरं तिष्ठत्वियं ततः ।
इत्थं योनित्रयं त्वेषा भुनक्त्वा शुभकारिणी २५।
कलहोवाच-
साहं पंचशताब्दानि प्रेतदेहे स्थिता किल ।
क्षुतृड्भ्यां पीडिता नित्यं दुःखिता स्वेन कर्मणा २६।
ततः क्षुत्पीडिता नित्यं शरीरं वणिजस्त्वहम् ।
आयाता दक्षिणं देशं कृष्णावेण्यास्तु संगमे २७।
तत्तीरसंश्रिता यावत्तावत्तस्य शरीरतः ।
शिवविष्णुगणैर्दूरमपाकृष्टा बलादहम् २८।
ततः क्षुत्क्षामया दृष्टो भ्रमंत्या त्वं मया द्विज ।
प्रक्षिप्ततुलसीवारिसंसर्गगतपापया २९।
तत्कृपां कुरु विप्रेंद्र कथं मुक्तिमियाम्यहम् ।
योनित्रयादति भयादस्माच्च प्रेतदेहतः ३०।
इत्थं निशम्य कलहा वचनं द्विजश्च तत्कर्मपाकभवविस्मयदुःखयुक्तः ।
तद्ग्लानिदर्शनकृपाचलचित्तवृत्तिर्ध्यात्वा चिरं स वचनं निजगाद दुःखात् ३१।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे कार्तिकमाहात्म्ये कलहोपाख्यानंनाम षडधिकशततमोऽध्यायः १०६।