← अध्यायः १०६ पद्मपुराणम्
अध्यायः १०७
वेदव्यासः
अध्यायः १०८ →

धर्मदत्त उवाच
विलयं यांति पापानि तीर्थदानव्रतादिभिः
प्रेतदेहस्थितायास्ते तेषु नैवाधिकारिता १
त्वद्ग्लानिदर्शनादस्मात्खिन्नं च मम मानसम्
नैव निर्वृतिमायाति त्वामनुद्धृत्य दुःखिताम् २
पातकं च तवात्युग्रं योनित्रयविपाकदम्
नैवान्यैः क्षीयते पुण्यैः प्रेतत्वं चातिगर्हितम् ३
तस्मादाजन्मजनितं यन्मया कार्तिकव्रतम्
तत्पुण्यस्यार्द्धभागेन सद्गतिं त्वमवाप्नुहि ४
कार्तिकव्रतपुण्येन न साम्यं यांति सर्वथा
यज्ञदानानि तीर्थानि व्रतान्यपि यतो ध्रुवम् ५
नारद उवाच
इत्युक्त्वा धर्मदत्तोऽसौ यावत्तामभ्यषेचयत्
तुलसीमिश्रतोयेन श्रावयन्द्वादशाक्षरम् ६
तावत्प्रेतत्वनिर्मुक्ता ज्वलदग्निशिखोपमा
दिव्यवपुर्धरा जाता लावण्याद्भासिता दिशः ७
ततः सा दंडवद्भूमौ प्रणनामाथ तं द्विजम्
उवाच च तदा वाक्यं हर्षगद्गदभाषिणी ८
कलहोवाच
त्वत्प्रसादाद्दिवजश्रेष्ठ विमुक्ता निरयादहम्
पापाब्धौ मञ्जमानायास्त्वं नो भूतोऽसि मे ध्रुवम् ९
नारद उवाच
इत्थं सा वदती विप्रं ददर्शायातमंबरात्
विमानं भास्वरं युक्तं विष्णुरूपधरैर्गणैः १०
अथ सा तद्विमानाग्र्यद्वास्थाभ्यामधिरोहिता
पुण्यशीलसुशीलाभ्यामप्सरोगणसेवितम् ११
तद्विमानं तदापश्यद्धर्मदत्तः सविस्मयः
पपात दंडवद्भूमौ दृष्ट्वा तौ पुण्यरूपिणौ १२
पुण्यशीलसुशीलौ तमुत्थाप्य प्रणतं द्विजम्
अभ्यनंदयतां वाक्यमूचतुर्द्धर्मशालिनौ १३
गणा ऊचतुः
साधुसाधु द्विजश्रेष्ठ यस्त्वं विष्णुरतः सदा
दीनानुकंपी धर्मज्ञो विष्णुव्रतपरायणः १४
आजन्मसच्छुभं ह्येतद्यत्त्वया कार्त्तिकव्रतम्
कृतं तस्यार्द्धदानेन यदस्याः पूर्वसंचितम् १५
जन्मांतरशतोद्भूतं पापं तद्विलयं गतम्
हरिजागरणाद्यैश्च विमानमिदमागमत् १६
वैकुण्ठभवनं विष्णोः सान्निध्यं च स्वरूपता
ते धन्याः कृतकृत्यास्ते तेषां च सफलो भवः १७
यैर्भक्त्याराधितो विष्णुर्धर्मदत्तत्वया यथा
सम्यगाराधितो विष्णुः किं न यच्छति देहिनाम् १८
औत्तानचरणिर्येन ध्रुवत्वे स्थापितः पुरा
यन्नामस्मरणादेव देहिनो यांति सद्गतिम् १९
ग्राहगृहीतो नागेंद्रो यन्नामस्मरणात्पुरा
विमुक्तः सन्निधिं प्राप्तो जातो यो जयसंज्ञकः २०
अतस्त्वयार्चितो विष्णुः स्वसान्निध्यं प्रदास्यति
बहून्यब्दसहस्राणि भार्याद्वययुतस्य ते २१
ततः पुण्यक्षये जाते यदा यास्यसि भूतले
सूर्यवंशोद्भवो राजा विख्यातस्त्वं भविष्यसि २२
नाम्ना दशरथस्तत्र भार्याद्वययुतः पुनः
तृतीयं यानया चापि याते पुण्यार्द्धभागिनी २३
तत्रापि तव सान्निध्यं विष्णुर्यास्यति भूतले
आत्मानं तव पुत्रत्वे प्रकल्प्यामरकार्यकृत् २४
तवाजन्मव्रतादस्माद्विष्णुसंतुष्टिकारकात्
न यज्ञा न च दानानि न तीर्थान्यधिकानि ते २५
धन्योऽसि विप्रप्रयतस्त्वयैतद्व्रतं कृतं तुष्टिकरं जगद्गुरोः
यदर्धभागाच्च फलान्मुरारेः प्रणीयतेस्माभिरियं सलोकताम् २६
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे कार्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे कलहोपाख्यानोनाम सप्ताधिकशततमोऽध्यायः १०७