← अध्यायः ११० पद्मपुराणम्
अध्यायः १११
वेदव्यासः
अध्यायः ११२ →

पृथुरुवाच
कृष्णवेण्यातटाद्यस्मात्शिवविष्णुगणैः पुरा
वणिक्शरीरात्कलहा निर्मिता कथिता त्वया १
प्रभावोऽयं तयोर्नद्योः किंवा क्षेत्रस्य तस्य वा
तन्मे कथय धर्मज्ञ विस्मयोऽत्र महान्मम २
नारद उवाच
कृष्णा कृष्णतनुः साक्षाद्वेण्या देवो महेश्वरः
तत्संगमप्रभावं तु नालं वक्तुं चतुर्मुखः ३
तथापि तत्समुत्पत्तिं कीर्तयिष्यामि तच्छृणु
चाक्षुषस्यांतरे पूर्वं मनोर्देवः पितामहः ४
सह्याद्रिशिखरे रम्ये यजनायोद्यतोऽभवत्
स कृत्वा यज्ञसंभारान्सर्वदेवगणैर्वृतः ५
युक्तो हरिहराभ्यां च तद्गिरेः शिखरं ययौ
भृग्वादयो मुनिगणा मुहूर्ते ब्रह्मदैवते ६
तस्य दीक्षाविधानाय समाजं तत्र चक्रिरे
अथ ज्येष्ठां स्वरां पत्नीं विष्णुराह्वयत द्विजैः ७
साशनैराययौ तावद्भृगुर्विष्णुमुवाच ह
भृगुरुवाच
विष्णो स्वरा त्वयाहूता आयाति न हि सत्वरा ८
मुहूर्त्तातिक्रमश्चायं कार्यो दीक्षाविधिः कथम्
विष्णुरुवाच
नायाति चेत्स्वरा शीघ्रं गायत्र्यत्र विधीयताम् ९
एषापि न भवत्यस्य भार्या किं पुण्यकर्मणि
नारद उवाच
एवमेव हि रुद्रोऽपि विष्णोर्वाक्यममोदत १०
तच्छ्रुत्वा स भृगुर्वाक्यं गायत्रीं ब्रह्मणस्तदा
निवेश्य दक्षिणे भागे दीक्षाविधिमथाकरोत् ११
यावद्दीक्षाविधिं तस्य विधेश्चक्रुर्विधानतः
तावदभ्याययौ तत्र स्वरा यज्ञस्थले नृप १२
ततस्तां दीक्षितां दृष्ट्वा गायत्रीं ब्रह्मणा सह
सपत्नीर्षापरा क्रोधात्स्वरा वचनमब्रवीत् १३
स्वरोवाच
अपूज्या यत्र पूज्यन्ते पूज्यानां च व्यतिक्रमः
त्रीणि तत्र भविष्यंति दुर्भिक्षं मरणं भयम् १४
ममासने कनिष्ठेयं भवद्भिः सन्निवेशिता
तस्मात्सर्वे जडीभूता नानारूपा भविष्यथ १५
इदं च दक्षिणेभागे ह्युपविष्टा मदासने
तस्माल्लोकैः सदाऽदृश्या तनुर्वहतु निम्नगा १६
नारद उवाच
ततस्तच्छापमाकर्ण्य गायत्री कंपिता तदा
समुत्थायाशपद्देवैर्वार्यमाणापि तां स्वराम् १७
तव भर्त्ता यथा ब्रह्मा ममाप्येष तथा खलु
वृथाशपस्त्वं यस्मान्मां भव त्वमपि निम्नगा १८
नारद उवाच
ततो हाहाकृताः सर्वे शिवविष्णुमुखाः सुराः
तदा लोकत्रयं ह्येतद्विनाशं यास्यति ध्रुवम् १९
देवा ऊचुः
देवि सर्वे वयं शप्ता ब्रह्माद्या यत्त्वयाधुना
यदि सर्वे जडीभूता भविष्यामोऽत्र निम्नगाः २०
तदा लोकत्रयं ह्येतद्विनाशं यास्यति ध्रुवम्
अविवेकः कृतस्तस्माच्छापोऽयं विनिवर्त्यताम् २१
स्वरोवाच
नार्चितो हि गणाध्यक्षो यज्ञादौ यत्सुरोत्तमाः
तस्माद्विघ्नं समुत्पन्नं मत्क्रोधजमिदं खलु २२
नापि मद्वचनं ह्येतदसत्यं जायते खलु
तस्मात्स्वांशैर्जडीभूता यूयं भवत निम्नगाः २३
आवामपि सपत्न्यौ च स्वांशाभ्यामपि निम्नगे
भविष्यावोऽत्र वै देवाः पश्चिमाभिमुखावहे २४
नारद उवाच
इति तद्वचनं श्रुत्वा ब्रह्मविष्णुमहेश्वराः
जडीभूताभवन्नद्यः स्वांशैरेव तदा नृप २५
तत्र विष्णुरभूत्कृष्ण वेण्या देवो महेश्वरः
ब्रह्मा ककुद्मिनीगंगा पृथगेवाभवत्तदा २६
देवा स्वानपितानंशान्जडीकृत्वा विचक्षणाः
सह्याद्रिशिखरेभ्यस्ताः पृथगासन्सुनिम्नगाः २७
देवांशैः पूर्ववाहिन्यो बभूवुः सरितां वराः
गायत्री च स्वरा चैव पश्चिमाभिमुखे तदा २८
योगेनाभवतां नद्यौ सावित्रीति प्रथां गते
ब्रह्मणा स्थापितौ तत्र यज्ञे हरिहरावुभौ २९
महाबलातिबलिनौ नाम्ना देवौ बभूवतुः
तयोर्नद्योस्तु माहात्म्यं नाहं वक्तुं क्षमो नृप
ययुर्ब्रह्मादयो देवाः स्वांशैस्तिष्ठंति चापगाः ३०
कृष्णोद्भवं पापहरं परं यः शृणोति यः श्रावयते च भक्त्या
स्यात्तस्य पुण्या सकलाक्रियापि तद्दर्शनस्नानसमुद्भवं फलम् ३१
इति श्रीपाद्मेमहापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे कार्तिकमाहात्म्ये सत्य भामासंवादेकृष्णावेण्यामाहात्म्यवर्णनोनाम एकादशाधिकशततमोऽध्यायः १११