पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः ११०

← अध्यायः १०९ पद्मपुराणम्
अध्यायः ११०
वेदव्यासः
अध्यायः १११ →

धर्मदत्त उवाच।
जयश्च विजयश्चैव विष्णोर्द्वास्थौ मया श्रुतौ ।
किंतु ताभ्यां पुरा चीर्णं यस्मात्तद्रूपधारिणौ १।
गणावूचतुः।
तृणबिंदोस्तु कन्यायां देवहूत्यां पुरा द्विज ।
कर्दमस्य तु दृष्ट्यैव पुत्रौ द्वौ संबभूवतुः २।
ज्येष्ठो जयः कनिष्ठोऽभूद्विजयश्चेति नामतः ।
अन्यस्यामभवत्पश्चात्कपिलो योगधर्मवित् ३।
जयश्च विजयश्चैव विष्णुभक्तिरतौ सदा ।
संनियम्येंद्रियग्रामं धर्मशीलौ बभूवतुः ४।
नित्यमष्टाक्षरी जाप्यौ विष्णुव्रतकरावुभौ ।
साक्षात्कारं ददौ विष्णुस्तयोर्नित्यार्चने सदा ५।
मरुत्तेन कदाचित्तावाहूतौ यज्ञकर्मणि ।
जग्मतुर्यज्ञकुशलौ देवर्षिगणसेवितौ ६।
जयस्तत्राभवद्ब्रह्मा याजको विजयोऽभवत् ।
ततो यज्ञविधिं कृत्स्नं परिपूर्णं च चक्रतुः ७।
मरुतोऽवभृथस्नातस्ताभ्यां वित्तं ददौ बहु ।
तत्समादाय तौ वित्तं जग्मतुः स्वाश्रमं प्रति ८।
यजनाय तदा विष्णोस्तुष्ट्यर्थं तौ तदा मुने ।
तद्धनं विभजंतो वै पस्पर्द्धाते परस्परम् ९।
जयोऽब्रवीत्समो भागः क्रियतामिति तत्र सः ।
विजयश्चाब्रवीत्तत्र यल्लब्धं येन तस्य तत् १०।
ततो जयोऽशपत्क्रोधाद्विजयं क्षुब्धमानसः ।
गृहीत्वा न ददास्येतत्तस्माद्ग्राहो भवेति तम् ११।
विजयस्तस्य तं शापं श्रुत्वा सोऽप्यशपच्च तम् ।
मदभ्रांतोशपद्यस्मात्तस्मान्मातंगतां व्रज १२।
तौ तथा चख्यतुर्विष्णुं दृष्ट्वा नित्यार्चने विभुम् ।
शापयोस्तुनिवृत्तिं तौ ययाचाते रमापतिम् १३।
भक्तावावां कथं देव ग्राहमांतगयोनिगौ ।
भविष्यावः कृपासिंधो तच्छापो विनिवर्त्यताम् १४।
श्रीभगवानुवाच।
मद्भक्तयोर्वचोऽसत्यं न कदाचिद्भविष्यति ।
मयापि नान्यथा कर्तुं शक्यते तत्कदाचन १५।
प्रह्लादवचनात्स्तंभऽप्याविर्भूतो ह्यहं पुरा ।
तथांबरीषवाक्येन जातो मार्गे स्वयं किल १६।
तस्माद्ध्रुवमिमौ शापावनुभूय स्वयंकृतौ ।
लभेतां मत्पदं नित्यमित्युक्त्वांतर्दधे हरिः १७।
गणावूचतुः ।
ततस्तौ ग्राहमातंगा बभूतां गंडकी तटे ।
जातिस्मरौ च तद्योन्यामपि विष्णुव्रते स्थितौ १८।
कदाचित्स गजः स्नातुं कार्तिके गंडकीं गतः ।
तावज्जग्राह च ग्राहः संस्मरञ्छापकारणम् १९।
ग्राहगृहीतोऽसौ नागः संस्मार श्रीपतिं तदा ।
तावदाविरभूद्विष्णुः शंखचक्रगदाधरः २०।
तॄतस्तौ ग्राहमातंगौ चक्रं क्षिप्त्वा समुद्धृतौ ।
दत्त्वा च निजसारूप्यं वैकुंठमनयद्विभुः २१।
तदाप्रभृति तत्स्थानं हरिक्षेत्रमिति श्रुतम् ।
चक्रसंघर्षणाद्यस्मिन्पाषाणोऽपि हि लांछितः २२।
ताविमौ विश्रुतौ लोके जयश्च विजयश्च ह ।
नित्यं विष्णुप्रियौ द्वाःस्थौ पृष्टौ यौ हि त्वया द्विज २३।
अतस्त्वमपि धर्मज्ञ नित्यं विष्णुव्रते स्थितः ।
त्यक्तमात्सर्यदंभो हि भव स्वसमदर्शनः २४।
तुलामकरमेषेषु प्रातःस्नायी सदा भव ।
एकादशीव्रते तिष्ठ तुलसीवनपालकः २५।
ब्राह्मणानपि गाश्चापि वैष्णवांश्च सदा भज ।
मसूराश्चारनालाश्च वृंताकानपि खाद मा २६।
एवं त्वमपि देहांते तद्विष्णोः परमं पदम् ।
प्राप्नोषि धर्मदत्त त्वं तद्भक्त्यैव यथा वयम् २७।
तवाजन्मव्रतात्तस्माद्विष्णुसंतुष्टिकारकात् ।
न यज्ञा न च दानानि न तीर्थान्यधिकानि वै २८।
धन्योऽसि विप्राग्र्य यतस्त्वयैतद्व्रतं कृतं तुष्टिकरं जगद्गुरोः ।
यत्पुण्यभागाप्तफलं मुरारेः प्रणीयतेस्माभिरियं सलोकताम् २९।
नारद उवाच।
इत्थं तौ धर्मदत्तं तमुपदिश्य विमानगौ ।
तया कलहया सार्द्धं वैकुंठभवनं गतौ ३०।
धर्मदत्तोप्यसौ जातप्रत्ययस्तद्व्रते स्थितः ।
देहांते तद्विभोः स्थानं भार्याभ्यामन्वितोऽभ्यगात् ३१।
इतिहासमिमं पुराभवं शृणुते यश्च पुमान्यथाविधि ।
हरिसंनिधिकारिणीं मतिं लभतेऽसौ कृपया जगद्गुरोः ३२।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तर।
खण्डे कार्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे कलहोपाख्याने गणपूर्वपुण्यवर्णनोनाम दशाधिशततमोऽध्यायः११०।