पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः १२८

← अध्यायः १२७ पद्मपुराणम्
अध्यायः १२८
वेदव्यासः
अध्यायः १२९ →
माघस्नानमाहात्म्यवर्णन गंधर्वकन्यानां वेदनिधिमुनिपुत्रस्याग्निपस्य च परस्परं शापदानेन पिशाचत्वप्राप्तौ दैववशाल्लोमशसमागमः, लोमशेन माघ- मासस्नानमाहात्म्यकथनम्, तत्रावंतिदेशस्थवीरसेनराजवृत्तान्तनिरूपणम्, पिशाचमोचनेतिहासवर्णने प्लक्षप्रस्रवणस्थदेवद्युतिविप्रचरित्रवर्णनम, देवद्युतिना विष्णुस्तोत्रकरणम्

वसिष्ठ उवाच।
कथितं माघमाहात्म्यं दत्तात्रेयेण भाषितम् ।
अधुनाऽहं प्रवक्ष्यामि माघस्नानस्य यत्फलम् १।
सर्वक्रतुवरिष्ठं तु सर्वदानफलप्रदम् ।
सर्वव्रततपस्तुल्यं माघस्नानं परंतप २।
स्नानेन माघस्य विशुद्धमानसा पितॄन्दिवि स्थाप्य कुलद्वयस्य वै ।
स्वर्गं प्रयांति स्वयमुज्ज्वलानना वरैर्विमानै रुचिरैश्च कामगैः ३।
ये मानवाः पापकृतोऽपि सर्वदा सदा दुराचाररता विमार्गगाः ।
स्नात्वा हि माघे हरिमर्चयंति ये मुंचंति तेपीह महाघसंचयम् ४।
सत्येन हीनाः पितृमातृदुःखदा ह्यनाश्रमस्थाः कुलधर्मवर्जिताः ।
ये दांभिकास्तेऽपि नराः सतां गतिं स्नानैः प्रयांत्यत्र हि माघसंभवैः ५।
पुण्येषु तीर्थेषु च माघमासे स्नानं नराणामतिदुर्लभं भुवि ।
तस्माद्यतो ब्रह्मविदां पदं नरैः संप्राप्यते नात्र विचारणा मम ६।
माघे तपो दान जप प्रसेवनं स्थानं हरेः पूजनमक्षयं नृप ।
तस्माद्यथाशक्ति नरैः प्रयत्नतः स्नात्वा प्रदेयं वसनान्नकांचनम् ७।
माघेऽन्नदाताऽमृतपः सुरालये हेम्नश्च दाता बलभित्समीपगः ।
दीपाग्निवासांसि ददन्नरः सदा सूर्यस्यलोके वसति प्रभामयः ८।
यज्ञैः सुदानैः सुतपोभिरुज्ज्वलैः सुब्रह्मचर्यार्चनयोगसेवया ।
शुद्धा भवंतीह तथा न पापिनः स्नानैर्यथा पुण्यभवैस्तु माघजैः ९।
दुःखौघसंतप्तिमसह्ययातनां याम्यां न ते यांत्यपि पापकारिणः ।
ये माघमासे वरतीर्थमज्जनं कुर्वंति चार्धोदितसूर्यमंडले १०।
स्नात्वा च माघे हरिमर्चयंति ये स्वर्गच्युता भूपतयो भवंति ।
भव्याः सुरूपाः सुभगाः प्रियंवदा धर्मान्विता भूरिधनाः शतायुषः ११।
दीप्तानले काष्ठचयो यथाहुतो भस्मावशेषो भवतीह तत्क्षणात् ।
स्नानेन माघस्य तथा विलीयते क्षुद्रोऽपि पापौघ महाघसंचयः १२।
कायेन वाचा मनसापि पातकं ज्ञातं यदज्ञातमलंकृतं नरैः ।
स्नानं च माघे वरतीर्थसंभवं सर्वं दहद्विष्णुरिवाशु हृद्गतः १३।
संभुज्यमानाघफलं हि पार्थिव प्रमादतोपीह नृणां कदाचन ।
स्नानं हि माघस्य यतः प्रसज्यते तदैव तत्संक्षयमेति निश्चितम् १४।
गंधर्वं कन्याः पृथिवी शशापजं संभुज्यमानाघफलं दुरत्ययम् ।
स्नानाद्विमुक्ताः खलु माघमासजाद्वाक्यात्पुरा लोमशजातमद्भुतम् १५।
सूत उवाच।
श्रुत्वैतत्पार्थिवः प्रीत्या नत्वा तत्पादपंकजम् ।
श्रद्धया परया नम्रस्तं पप्रच्छ पुरोधसम् १६।
भगवन्ब्रूहि कन्याभिः शापो ह्यभिगतः कुतः ।
कस्यापत्यानि तास्तासां नाम किं कीदृशं वयः १७।
कथं लोमशवाक्येन विपाकाच्छापसंभवात् ।
विमुक्ताः कुत्र ताः सस्नुर्मासं ताः कतिसंख्यया १८।
वसिष्ठ उवाच।
श्रूयतां राजशार्दूल धर्मगर्भां कथां पराम् ।
यथाऽरणिर्वह्निगर्भा धर्मसूर्वह्निसूरिव १९।
गंधर्वः सुखसंगीतिस्तस्य कन्या प्रमोदिनी ।
सुशीलस्य सुशीला च सुस्वरा स्वरवेदिनः २०।
सुतारा चंद्रकांतस्य चंद्रिका सुप्रभस्य च ।
इमानि वरनामानि तासामप्सरसां नृप २१।
कुमार्यः पंच सर्वास्ता वयसा सुसमाः पुनः ।
चंद्रादिवविनिष्क्रांताश्चंद्रिकेव समुज्ज्वलाः २२।
चंद्राननाः सुकेशिन्यश्चंद्रामृतरसाधराः ।
नेत्रेष्वानंदकारिण्यः कौमुदी कुमुदेष्विव २३।
लावण्यपिंडसंभूताश्चारुरूपामनोहराः ।
उद्भिन्नकुचकुंभिन्यः पद्मिन्य इव माधवे २४।
उन्मील्य यौवनं कांतं वल्लीव नवपल्लवैः ।
हेमगौराश्च हेमाभा हेमालंकारभूषिताः २५।
हेमचंपकमालिन्यो हेमच्छविसुवाससः ।
स्वरग्रामावलीहासु विविधा मूर्च्छनासु च २६।
तालदानविनोदेषु वेणुवीणाप्रवादने ।
मृदंगनादसंभिन्नं लास्यमार्गलवेषु च २७।
चित्रादिषु विनोदेषु कलासु च विशारदाः ।
एवंभूतास्तु ताः कन्या मुमुहुः क्रीडने वने २८।
पितृभिर्लालिताः सत्यश्चेरुश्च धनदालये ।
कौतुकादेकदा पंच मिलित्वा मासि माधवे ।
कन्या मंदारपुष्पाणि विचिन्वंत्यो वनाद्वनम् २९।
गौरीं समाराधयितुं वरांगनाः कदाचिदच्छोदसरोवरं ययुः ।
हेमांबुजानि प्रवराणि ताः पुनस्तस्मादुपादाय वरोत्पलैः सह ३०।
वैडूर्यशुद्धस्फटिकाच्छविद्रुमे स्नात्वा तडागे परिधाय चांबरम् ।
मौनेन च स्थंडिलपिंडिकामयी स्वर्णस्य सिक्ताभिरुमां विनिर्ममुः ३१।
समर्चितां चंदनचंद्रकुंकुमैरभ्यर्च्य गौरीं वरपंकजादिभिः ।
नानोपचारैश्च सुभक्तिभावितास्तालप्रयोगैर्ननृतुः कुमारिकाः ३२।
गांधारमाश्रित्य वरं स्वरं ततो गेयं सुतारध्वनिभिः सुमूर्च्छितम् ।
एणीदृशस्ताः प्रजगुः कलाक्षरं चारुप्रबंधं गतिभिस्तु सुस्वरम् ३३।
तस्मिन्सुनादे रसवर्षहर्षदे कन्यास्वलं निर्भरनृत्यवृत्तिषु ।
अच्छोदतीर्थप्रवरे तदा गतः स्नातुं मुनेर्वेदनिधेः सुताग्निपः ३४।
रूपेण निःसीमतरो वराननः सरोजपत्रायतलोचनो युवा ।
विशालवक्षाः सुभुजोऽतिसुंदरः श्यामच्छविः कामइवापरो हि सः ३५।
स ब्रह्मचारी सशिखो विराजते दंडेनयुक्तो धनुषैव मन्मथः ।
एणाजिनप्रावरणः सुसूत्रधृग्घेमाभमौंजी कटिसूत्रमेखलः ३६।
तं दृष्ट्वा ब्राह्मणं बालास्तास्तत्र सरसस्तटे ।
जहर्षुः कौतुकाविष्टाः कोऽयं नो नयनातिथिः ३७।
संत्यक्तनृत्यगीतास्तास्तस्यालोकनतत्पराः ।
हरिण्यो लुब्धकेनेव विद्धाः कामेन सायकैः ३८।
पश्यपश्येति जल्पंत्यो मुग्धाः पंचसु संभ्रमम् ।
तस्मिन्विप्रवरे यूनि कामदेवभ्रमं ययुः ३९।
पुनः पुनस्तमभ्यर्च्य नयनैः पंकजैरिव ।
पश्चाद्विचारमायासुस्ताश्च कन्याः परस्परम् ४०।
यद्ययं कामदेवो हि रतिहीनः कथं व्रजेत् ।
अथायमश्विनौ देवौ तौ नूनं युग्मचारिणौ ४१।
गंधर्वः किन्नरो वाथ सिद्धो वा कामरूपधृक् ।
ऋषिपुत्रोथवा कश्चित्कश्चिद्वा मानुषोत्तमः ४२।
अस्तु वा कश्चिदेवायं धात्रासृष्टो हि नः कृते ।
यथाभाग्यवतामर्थे निधानं पूर्वकर्मभिः ४३।
तथास्माकं कुमारीणां गौर्या नीतो वरोत्तमः ।
करुणाजलकल्लोल प्लवार्द्रीकृतचित्तया ४४।
मया वृतस्त्वया चायं त्वया वृतस्तथा मया ।
एवं पंचसु कन्यासु वदंतीषु नृपोत्तम ४५।
श्रुत्वा तद्वचनं तत्र कृत्वा माध्याह्निकीः क्रियाः ।
आलोच्य हृदये सोऽपि विघ्नमेतदुपस्थितम् ४६।
ब्रह्मविष्णुगिरिशादयः सुरा ये च सिद्धमुनयः पुरातनाः ।
तेऽपि योगबलिनो विमोहिता लीलया तदबलाभिरद्भुतम् ४७।
योषितां नयनतीक्ष्णसायकैर्भ्रूलतासुदृढचापनिर्गतैः ।
धन्विनामकरकेतुना हतः कस्य नो पतति हा मनोमृगः ४८।
तावदेव नयधीर्विराजते तावदेव जनता भयं भजेत् ।
तावदेव दृढचित्तता भृशं तावदेव गणना कुलस्य च ४९।
तावदेव तपसः प्रगल्भता तावदेव यमधारणं नृणाम् ।
यावदेव वनितेक्षणबाणैर्मोहयंत्युरुमदैर्न मानुषाः 6.128.५०।
मोहयंतु मदयंतु रागिणां योषितः सुललितैर्मनोहरैः ।
मोहयंति मदयंति मामिमं धर्मरक्षणपरं हि कैर्गुणैः ५१।
मांसशुक्रमलमूत्रनिर्मिते योषितां वपुषि निर्घृणेऽशुचौ ।
कामिनश्च परिकल्प्य चारुतां मा रमंतु सुविमूढचेतसः ५२।
दारुणो हि परिकीर्तितोंगना सन्निधिर्विमलबुद्धिभिर्बुधैः ।
यावदत्र न समीपगा इमास्तावदेव हि गृहं व्रजाम्यहम् ५३।
समीपं तस्य यावद्धि नागच्छंति वरांगनाः ।
वैष्णवेन प्रभावेण तावदंतर्दधे द्विजः ५४।
तस्य योगबलाद्भूप गतस्यादर्शनं तदा ।
दृष्ट्वा तदद्भुतं कर्म ऋषिपुत्रस्य धीमतः ५५।
वित्रस्तनयना बालाः कुरंग्य इव कातराः ।
संभ्रांत नयनाः शून्या ददृशुस्ता दिशो दश ५६।
इंद्रजालं स्फुटं वेत्ति मायां जानाति वा पुनः ।
दृष्टोऽप्यदृष्टरूपोऽभूदित्यूचुश्च परस्परम् ५७।
व्याप्तं तु हृदयं तासां सदैव विरहाग्निना ।
ज्वलद्दावानलेनेव सुस्निग्धं सांद्र काननम् ५८।
त्यक्त्वैंद्रजालिकीं विद्यां कांत दर्शय सत्वरम् ।
स्वात्मानं नो मनोयुक्तं प्राग्ग्रासे मक्षिकोपमम् ५९।
हा कष्टं दर्शितः कस्माद्धात्रा त्वं घटितः पुनः ।
ज्ञातं महानुसंतापहेतोर्नस्त्वं विनिर्मितः ६०।
कच्चित्ते निर्दयं चेतः कच्चिदस्मासु नो मनः ।
कच्चिद्धूर्तोऽसि हे कांत कच्चिन्मुष्णासि नो मनः ६१।
कच्चिन्न प्रत्ययोस्मासु कच्चिदऽस्मान्परीक्षसे ।
कच्चिन्नर्मकलाशीलः कच्चिन्मायाविशारदः ६२।
कच्चिच्चित्ते प्रवेष्टुं च वेत्सि विज्ञानलाघवम् ।
कच्चिन्निष्क्रमणोपायं न जानासि कुतः पुनः ६३।
कच्चिद्विनापराधं तु त्वमस्मासु प्रकुप्यसे ।
कच्चिद्दुःखं विजानासि परेषां विप्रलंभजम् ६४।
त्वद्दर्शनं विना नूनं हृदयेश्वर सांप्रतम् ।
न जीवामोऽथ जीवामः पुनस्त्वद्दर्शनाशया ६५।
अस्मांश्च नीयतां तत्र यत्र शीघ्रं गतो भवान् ।
त्वद्दर्शनहरो धाता व्यदधादंकुरच्छिदम् ६६।
सर्वथा दर्शनं देहि कारुण्यं भज सर्वथा ।
पर्यंतं न प्रपश्यंति सर्वथा सज्जना जनाः ६७।
इत्थं विलप्य ताः कन्याः प्रतीक्ष्य च बहुक्षणम् ।
पितृर्भिया गृहं गंतुं शीघ्रमारेभिरे गतिम् ६८।
तत्प्रेमनिगडैर्बद्धा भृशं विरह विक्लवाः ।
कथंचिद्धैर्यमालंब्य ताः स्वं स्वं गृहमागताः ६९।
आगत्य पतिताः सर्वा जलयंत्रसमीपतः ।
किमेतन्मातृभिः पृष्टाः कुतः कालात्ययोऽभवत् ७०।
कन्या ऊचुः।
क्रीडंत्यः किन्नरीभिस्तु सार्धं संगीतकं मुदा ।
संस्थितास्तेन न ज्ञातं दिवसादि सरोवरे ७१।
पथिश्रांता वयं मातः संतापस्तेन नस्तनौ ।
मोहेन महता वक्तुं न केनाप्युत्सहामहे ७२।
इत्युक्त्वा लुलुठुस्तत्र मणिभूमौ कुमारिकाः ।
आकारं गोपयंत्यस्ता मुग्धा जल्पंति मातृभिः ७३।
काचिन्नर्तयति क्रीडामयूरं न मुदा तदा ।
न पाठयति तं कीरं पंजरेऽन्या कुतूहलात् ७४।
लालयेन्नकुलं नान्या नोल्लासयति सारिकाम् ।
अपरातीव संमुग्धा नैव क्रीडति सारसैः ७५।
भेजिरे न विनोदांस्ता रेमिरे नैव मंदिरे ।
ऊचिरे बांधवैर्नालं वीणावाद्यं न चक्रिरे ७६।
कल्पद्रुमप्रसूनं यद्रसवत्तु सुधोपमम् ।
मंदारकुसुमामोदि न पपुर्मधुरं मधु ७७।
योगिन्य इव ताः कन्या नासाग्रन्यस्तलोचनाः ।
अलक्ष्यध्यानसंतानाः पुरुषोत्तममानसाः ७८।
चंद्रकांतमणिच्छन्ने स्रवद्वारिकणद्रवे ।
क्षणं वातायने स्थित्वा जलयंत्रेक्षणं क्षणात् ७९।
रचयंति क्षणं शय्यां दीर्घिकां भोजिनीदलैः ।
वीज्यमाना सखीभिस्ताः शीतलैः कदलीदलैः ८०।
इत्थं युगसमां रात्रिं मन्वानास्ता वरस्त्रियः ।
कथंचिद्धीरतां कृत्वा विह्वलाः सज्वरा इव ८१।
प्रातर्व्योममणिं दृष्ट्वा मन्यमानाः स्वजीवितम् ।
विज्ञाप्य मातरं स्वां स्वां गौरीं पूजयितुं गताः ८२।
स्नात्वा तेन विधानेन पुष्पैर्धूपैर्यथा तथा ।
विधाय पूजनं देव्या गायंत्यस्तत्र ताः स्थिताः ८३।
एतस्मिन्नंतरे विप्रः स्नातुं सोऽपि समागतः ।
पित्राश्रमपदात्तस्मादच्छोदे च सरोवरे ८४।
मित्रं दृष्ट्वैव रात्र्यंते नलिन्य इव कन्यकाः ।
उत्फुल्लनयना जातास्तं दृष्ट्वा ब्रह्मचारिणम् ८५।
गत्वा तदैव ताः कन्याः समीपं ब्रह्मचारिणः ।
सव्यापसव्यबंधेन भुजपाशं च चक्रिरे ८६।
गतोऽसि धूर्त पूर्वेद्युर्गंतुमद्य न शक्यसे ।
वृतस्त्वं नूनमस्माभिर्नात्र तेऽस्तु विचारणा ८७।
इत्युक्तो ब्राह्मणः प्राह प्रसन्बाहुपाशगः ।
युष्माभिरुच्यते भद्रमनुकूलं प्रियं वचः ८८।
प्रथमाश्रमनिष्ठस्य किंतु नाद्यापि मे व्रतम् ।
वेदाभ्यसनशीलस्य पारं याति गुरोः कुले ८९।
आश्रमे यत्र यो धर्मो रक्षणीयः स पंडितैः ।
विवाहोऽयमतो मन्ये न धर्म इति कन्यकाः ९०।
आकर्ण्य तस्य वाक्यानि तमूचुस्ता वचस्ततः ।
सकलध्वनिसोत्कंठाः कोकिला इव माधवे ९१।
धर्मादर्थोर्थतः कामः कामाद्धर्मफलोदयः ।
इत्येव निश्चितं शास्त्रं वर्णयंति विपश्चितः ९२।
सकामो धर्मबाहुल्यात्पुरस्ते समुपागतः ।
सेव्यतां विविधैर्भोगैः स्वर्गभूमिरियं ततः ९३।
श्रुत्वा तद्वचनं तासां प्राह गंभीरया गिरा ।
तथ्यं वो वचनं किंतु समाप्येह स्वकं व्रतम् ९४।
प्राप्यनुज्ञां गुरोः सर्वं वैवाहं कर्म नान्यथा ।
इत्युक्त्वा पुनरूचुस्ताः स्फुटं मूढोऽसि सुन्दरः ९५।
दिव्यौषधं ब्रह्मरसायनं च सिद्धिर्निधेः साधुकला वरांगनाः ।
मंत्रस्तथा सिद्धिरसश्च धर्मतो नेमा निषेध्याः सुधिया समागताः ९६।
कार्यं हि दैवाद्यदि सिद्धमागतं तस्मिन्नुपेक्षां न च याति नीतिगः ।
यस्मादुपेक्षा न पुनः फलप्रदा तस्मान्न दीर्घीकरणं प्रशस्यते ९७।
सांद्रानुरागाः कुलजन्मनिर्मलाः स्नेहार्द्रचित्ताः सुगिरः स्वयंवराः ।
कन्याः सुरूपाः खलु चारुयौवना धन्या लभंतेऽत्र नरास्तु नेतरे ९८।
क्व वयं वरसुन्दर्यः क्व चाऽयं तापसो बटुः ।
दुर्घटस्य विधाने हि मन्ये धातातिपंडितः ९९।
तस्मादस्मानिदानीं तु स्वीकुर्यान्मंगलं भवान् ।
गांधर्वेण विवाहेन ह्यन्यथा नो न जीवितम् 6.128.१००।
श्रुतवाक्यस्ततः प्राह ब्राह्मणो धर्मवित्तमः ।
भो मृगाक्ष्यः कथं त्याज्यो धर्मो धर्मधनैर्नरैः १०१।
धर्मश्चार्थश्च कामश्च मोक्षश्चैतच्चतुष्टयम् ।
यथोक्तं सफलं ज्ञेयं विपरीतं तु निष्फलम् १०२।
नाकालेहं व्रती कुर्यामतो दारपरिग्रहम् ।
न क्रियाफलमाप्नोति क्रियाकालं न वेत्ति यः १०३।
यतो धर्मविचारेऽस्मिन्प्रसक्तं मम मानसम् ।
तस्माच्छृणुत हे कन्या न समीहे स्वयंवरम् १०४।
एवं ज्ञात्वाशयं तस्य समीक्ष्यैताः परस्परम् ।
करात्करं विमुच्याथ जग्राहांघ्री प्रमोदिनी १०५।
भुजौ जग्रहतुस्तस्य सुशीला सस्वरा तथा ।
आलिलिंग सुतारा च चुचुंबे चंद्रिकामुखम् १०६।
तथापि निर्विकारोऽसौ प्रलयानलसन्निभः ।
शशाप ब्रह्मचारी ताः क्रोधेनात्यंतमूर्च्छितः १०७।
पिशाच्य इव मां लग्नास्तत्पिशाच्यो भविष्यथ ।
एवं तेनाशु शप्तास्तास्तं संत्यज्य पुरास्थिताः १०८।
किमेतच्चेष्टितं पाप ह्यनागसि जने त्वया ।
प्रिये कृत्येऽप्रियं कृत्वा धिक्ता धर्मज्ञतां तव १०९।
अनुरक्तेषु भक्तेषु मित्रेषु द्रोहकारिणः ।
पुंसो लोकद्वये सौख्यं नाशं यातीति नः श्रुतम् ११०।
तस्मात्त्वमपि नः शापात्पिशाचो भव सत्वरम् ।
इत्युक्त्वोपरता बाला निःश्वसंत्यः क्षुधाकुलाः १११।
तदा चान्योन्यसंरंभात्तस्मिन्सरसि पार्थिव ।
ताः कन्या ब्रह्मचारी सः सर्वे पैशाचमागताः ११२।
पिशाच्याः स पिशाचश्च क्रंदमानाः सुदारुणम ।
क्षपयंति विपाकं तं पूर्वोपात्तस्य कर्मणः ११३।
स्वकाले तु फलत्येव पूर्वोपात्तं शुभाशुभम् ।
स्वच्छाया इव दुर्वारं देवानामपि पार्थिव ११४।
क्रंदंति पितरस्तासां मातरस्तत्र तस्य च ।
अप्रमादश्च बालानां दैवं हि दुरतिक्रमम् ११५।
तत ऊर्ध्वं पिशाचास्ते आहारार्थे सुदुःखिताः ।
इतस्ततश्च धावंतो वसंति सरसस्तटे ११६।
एवं बहुतिथे काले लोमशो मुनिसत्तमः ।
पौषे मासि चतुर्दश्यामच्छोदे स्नातुमागतः ११७।
दृष्ट्वा तं ब्राह्मणं सर्वे पिशाचाः क्षुत्समाकुलाः ।
धावंतो हंतुकामास्ते मिलित्वा यूथवर्तिनः ११८।
दह्यमानासु तीव्रेण तेजसा लोमशस्य च ।
असमर्थाः पुरःस्थातुं सर्वे ते दूरतः स्थिताः ११९।
तत्र वेदनिधिर्विप्रस्तदैव हि समागतः ।
समीक्ष्य लोमशं राजन्साष्टांगं प्रणिपत्य सः १२०।
उवाच सूनृतां वाचं बद्ध्वा शिरसि चांजलिम् ।
महाभाग्योदये विप्र साधूनां संगतिर्भवेत् १२१।
गंगादिसर्वतीर्थेषु यो नरः स्नाति सर्वदा ।
यः करोति सतां संगं तयोः सत्संगतिर्वरा १२२।
गुरूणां संगमो विप्र दृष्टादृष्टफलो भुवि ।
स्वर्गदो रोगहारी च किंतु सोपद्रवो मतः १२३।
इत्युक्त्वा कथयामास पूर्ववृत्तांतमद्भुतम् ।
इमा गंधर्वकन्यास्ता बटुः सोऽयं ममात्मजः १२४।
सर्वे पिशाचरूपेण मिथः शापविमोहिताः ।
दीनाननास्तु तिष्ठंति तवाग्रे मुनिसत्तम १२५।
त्वद्दर्शनेन बालानां निस्तारोऽद्य भविष्यति ।
सूर्योदये तमः स्तोमः किं न लीयेत गह्वरे १२६।
श्रुत्वा तल्लोमशो राजन्कृपार्द्रीकृतमानसः ।
प्रत्युवाच महातेजास्तं मुनिं पुत्रदुःखितम् १२७।
मत्प्रसादाच्च बालानां स्मृतिः सपदि जायताम् ।
धर्मं च वच्मि तं येन मिथः शापो लयं व्रजेत् १२८।
वेदनिधिरुवाच।
महर्षे कथ्यतां धर्मो मुच्यंते येन बालकाः ।
नायं कालो विलंबस्य शापाग्निर्दारुणो यतः १२९।
लोमश उवाच।
मया सार्धं प्रकुर्वंतु माघस्नानं विधानतः ।
शापान्मुच्यंति माघांते नान्यथा निष्कृतिर्भवेत् १३०।
शापः पापफलं विप्र पापनाशो भवेन्नृणाम् ।
माघस्नानेन तीर्थे च इति मे निश्चिता मतिः १३१।
सप्तजन्मकृतं पापं वर्तमानं च पातकम् ।
माघस्नानं दहेत्सर्वं पुण्यतीर्थे विशेषतः १३२।
प्रायश्चित्तं न पश्यंति यस्मिन्पापे मुनीश्वराः ।
पातकं पुण्यतीर्थेषु नश्येत्तदपि माघतः १३३।
ज्ञानकृन्मानसे माघस्तस्मान्मोक्षफलप्रदः ।
हिमवत्पृष्ठतीर्थेषु सर्वपापप्रणाशनः १३४।
इंद्रलोकप्रदोच्छोदे निर्दिष्टो वेदवादिभिः ।
सर्वपापहरो माघो मोक्षदो बदरीवने १३५।
पापहा दुःखहारी च सर्वकामफलप्रदः ।
रुद्रलोकप्रदो माघो नार्मदे पापनाशनः १३६।
यामुनः सूर्यलोकाय भवेत्कल्मषनाशनः ।
सारस्वतोऽघविध्वंसी ब्रह्मलोकफलप्रदः १३७।
विशालफलदो माघो विशालायां द्विजोत्तम ।
पातकेंधनदावाग्निर्गर्भहेतु क्रियापहः १३८।
विष्णुलोकाय मोक्षाय जाह्नवः परिकीर्तितः ।
शरयू गंडकी सिंधुश्चंद्रभागा च कौशिकी १३९।
तापी गोदावरी भीमा पयोष्णी कृष्णवेणिका ।
कावेरी तुंगभद्रा च अन्या याश्च समुद्रगाः १४०।
आशु माघी नरो याति स्वर्गलोकं विकल्मषः ।
नैमिषे विष्णुसायुज्यं पुष्करे ब्रह्मणोंतिकम् १४१।
आखंडलस्य लोको हि कुरुक्षेत्रे तु माघतः ।
माघो देवह्रदे विप्र योगसिद्धिफलप्रदः १४२।
प्रभासे मकरादित्ये स्नानाद्रुद्रगणो भवेत् ।
देवक्यां देवतादेहो नरो भवति माघतः १४३।
माघस्नानेन भो विप्र गोमत्यां न पुनर्भवः ।
हेमकूटे महाकाले ॐकारे अमरेश्वरे १४४।
नीलकंठेर्बुदे माघाद्रुद्रलोके महीयते ।
सर्वासां सरितां विप्र संगमे मकरे रवौ १४५।
स्नानेन सर्वकामानामवाप्तिर्जायते नृणाम् ।
माघस्तु प्राप्यते धन्यैः प्रयागे द्विजसत्तम ।
अपुनर्भवदं तत्र सितासितजलं यतः १४६।
गायंति देवाः सततं दिविस्था माघः प्रयागे किल नो भविष्यति ।
स्नानान्नरा यत्र न गर्भवेदनां पश्यंति तिष्ठंति च विष्णुसन्निधौ १४७।
मज्जंति येऽपित्र्यहमत्र मानवास्तीर्थे प्रयागे बहुपापकंचुकाः ।
व्रजंति ते नो निरयेषु धर्मिणः स्वर्गे शुभे चारु चरंति देववत् १४८।
तीर्थैर्व्रतैर्दानतपोभिरध्वरैः सार्धं विधात्रा तुलया धृतं पुरः ।
माघे प्रयागस्य तयोर्द्वयोरभून्माघो गरीयानत एव सोऽधिकः १४९।
वातांबुपर्णाशनदेहशोषणैस्तपोभिरुग्रैश्चिरकालसंचितैः ।
योगैश्च संयांति नरा नतां गतिं स्नानेन माघस्य हि यांति यां गतिम् 6.128.१५०।
स्नाताश्च ये मकरभास्करोदये तीर्थे प्रयागे सुरसिंधुसंगमे ।
तेषां गृहद्वारमलंकरोति किं भृंगावलि कुंजरकर्णताडिता १५१।
यो राजसूयाद्धयमेधयज्ञतः स्नानात्फलं संप्रददाति चाधिकम् ।
पापानि सर्वाणि विलोप्य लीलया नूनं प्रयागः स कथं न सेव्यते १५२।
अवंतिविषये राजा वीरसेनोऽभवत्पुरा ।
नर्मदातीरमागत्य राजसूयं चकार सः १५३।
षोडशैरश्वमेधैश्च स्वर्णवाटविराजितैः ।
स्वर्णभूषणयूपाढ्यैरीजे सोऽपि यथाविधि १५४।
प्रददौ धान्यराशींश्च द्विजेभ्यः पर्वतोपमान् ।
वदान्यो देवताभक्तो गोप्रदः स सुवर्णदः १५५।
ब्राह्मणो भद्रको नाम मूर्खो हीनकुलस्तथा ।
कृषीवलो दुराचारः सर्वधर्मबहिष्कृतः १५६।
कृषिकर्मसमुद्विग्नो बंधुभिश्चाप्यसंस्कृतः ।
इतस्ततः परिभ्रम्य निर्गतः क्षुत्प्रपीडितः १५७।
दैवतः सार्थमाविश्य प्रयागं स समागतः ।
महामाघीं पुरस्कृत्य सस्नौ तत्र दिनत्रयम् १५८।
अनघः स्नानमात्रेण भूत्वेह स द्विजोत्तमः ।
प्रयागाच्चलितस्तत्र पुनर्यस्मात्समागतः १५९।
स राजा सोऽपि विप्रश्च विपन्नावेकदा तदा ।
तयोर्गतिः समादृष्टा मया शक्रस्य सन्निधौ १६०।
तेजो रूपं बलं स्त्रैणं देवयानं विभूषणम् ।
पारिजातमयीमाला नृत्यं गीतं तयोः समम् १६१।
इति दृष्टं हि माहात्म्यं क्षेत्रस्य कथमुच्यते ।
माघः सितासिते विप्र राजसूयैः समो मतः १६२।
धनुस्त्रिशतविस्तीर्णे सितनीलांबुसंगमे ।
अपुनरावृत्तिर्माघी राजसूयी पुनर्भवेत् १६३।
माघमासीय वातोऽपि सितासितजलं स्पृशेत् ।
अधर्म्यं न स्पृशेन्नूनं महापातकहा हि सः १६४।
किमत्र बहुनोक्तेन श्रूयतां द्विज निश्चितम् ।
समुद्भूतफलं पापं तीर्थे माघः प्रणाशयेत् १६५।
अत्र ते कथयिष्यामि सावधानमतिः शृणु ।
पिशाचमोचनं नाम इतिहासं पुरातनम् ।
शृण्वंत्यप्सरसो बालाः शृणोतु त्वत्सुतस्तथा ।
मत्प्रसादात्स्मृतिर्लब्ध्वा पैशाच्यान्मुक्तिकामिनः १।
पुरा देवद्युतिर्विप्रो वैष्णवो वेदपारगः १६६।
पिशाचान्मोचयामास करुणाप्लुतमानसः १६७।
दिलीप उवाच।
कुत्र स्थितः कस्य पुत्रो नियमः कोऽस्य वा जपः ।
केन वा वैष्णवो वृत्तः के पिशाचाश्च मोचिताः १६८।
एतद्विस्तरतः सर्वं कीर्तयस्व महामुने ।
कौतूहलं महापुण्यं शृणुमस्त्वत्प्रसादतः १६९।
वसिष्ठ उवाच।
प्लक्षप्रस्रवणे पुण्ये सरस्वत्यास्तटे शुभे ।
तत्राश्रमपदं तस्य शैलमाश्रित्य शोभनम् १७०।
शालैस्तालैस्तमालैश्च बिल्वैर्बकुलपाटलैः ।
तिंतिडीचिरिबिल्वैश्च चूतचंपककांचनैः १७१।
करंजैः कोविदारैश्च केसरैः कुंजराशनैः ।
तिलकैः कर्णिकारैश्च कुंभैः खादिरतिंदुकैः १७२।
वानीरैः साल्वजंबीरैः पीलूदुंबरवेतसैः ।
शाकोटैरटरूषैश्च करहाटैर्वटद्रुमैः १७३।
घोंटाकुटजपालाशैरशोकैः शोकहारिभिः ।
जंबूनिंबकदंबैश्च क्षीरिकाकरमर्दकैः १७४।
बीजपूरैः सनारिंगै रंभाराजिविराजितैः ।
पनसै रसवद्भिश्च नारिकेलैः सदाफलैः १७५।
सप्तच्छदैस्त्रिपत्रैश्च शिरीषामलकैः शुभैः ।
कर्कंधू लकुचैरक्षैः पारिभद्रैर्वचादिभिः १७६।
केतकैः सिंदुवारैश्च तगरैः कुन्दमल्लिकैः ।
पद्मेन्दीवरकह्लार मालती यूथिकादिभिः १७७।
मालती मोगरैश्चैव जातीफलविराजितैः ।
पुन्नागैः किंशुकैश्चैव बर्बरीतुलसीद्रुमैः १७८।
आश्रमो रमणीयः स द्रुमैर्नानाविधैर्नृप ।
वनमध्ये नदी याति पुण्यतोया सरस्वती १७९।
कूजंति सारसास्तत्र मदस्निग्धकलं सदा ।
नदंति कोकिलाः शब्दं गुंजंति च मधुव्रताः १८०।
बहुकोलाहलं भूप तद्वनं शुकसारिभिः ।
चरंति श्वापदास्तत्र विविधाः काननोत्तमे १८१।
सदाफलं सदापुष्पं परागकणधूसरम् ।
आच्छन्नं काननं सर्वं मधुवृक्षैः समंततः १८२।
नवपल्लवसंजातमंजरीभरवल्लिभिः ।
आश्लिष्टमभितोरम्यं प्रियाभिरिव वल्लभः १८३।
तस्य शापभयात्त्रस्तो वातो वाति समंततः ।
न वर्षंत्यश्मभिर्मेघा न शोषयति भास्करः १८४।
वनं नोपद्रवं तद्धि सदा सिद्धनिषेवितम् ।
आह्लादजनकं नित्यं वनं चैत्ररथं यथा १८५।
तस्मिन्वसति धर्मात्मा देवद्युतिर्द्विजोत्तमः ।
पुत्रः सुमित्रो विप्रस्य लब्धो लक्ष्मीपतेर्वरात् १८६।
नियमः श्रूयतां तस्य सर्वदा नियतात्मनः ।
ग्रीष्मे पंचतपा नित्यं सूर्यन्यस्तविलोचनः १८७।
वर्षत्कादंबिनी यावद्वर्षास्वभ्रावकाशगः ।
वाते प्रवाते निष्कंपो दुःसहो हिमवानिव १८८।
वसत्यप्सु स हेमंते ह्रदे सारस्वते द्विज ।
उपस्पृशति काले स त्रिवारं वारिनिर्मलम् १८९।
पितॄन्देवानृषीन्नित्यं संतर्पयति श्रद्धया ।
ब्रह्मयज्ञपरो नित्यं सत्यवादी जितेंद्रियः १९०।
भूमौ विश्राम्य विश्रांतः प्रदध्यौ प्रार्थयन्हरिम् ।
वन्यैर्जुहोत्यग्निहोत्रं श्रद्धयातिथिपूजकः १९१।
चांद्रायणविधानेन कालं नयति सर्वदा ।
स्वयं विगलितैः पत्रैः फलैर्वृत्तिं समीहते १९२।
अनुद्विग्नस्तपोनिष्ठो वेदवेदांगपारगः ।
धमनी विकरालोसावस्थिमात्रकलेवरः १९३।
इत्थं जगाम वर्षाणां सहस्रं तस्य कानने ।
तदा जज्वाल शैलोऽसौ तपसस्तस्य तेजसा १९४।
सोढुं न शक्यते भूतैस्तेजस्तस्य महात्मनः ।
वैश्वानर इवाभाति प्रज्वलंस्तपसा द्विज १९५।
गतवैराणि भूतानि समजायंत तद्वने ।
मृगव्याघ्राखुमार्जारा मिथः क्रीडंति निर्भयाः १९६।
अन्योऽपि नियमस्तस्य श्रूयतामतिदुर्लभः ।
नारायणं त्रिकालं स संपूजयति नित्यशः १९७।
पुष्पाणां तु सहस्रेण विकचेन सुगंधिना ।
वेदसूक्तविधानेन विष्णुध्यानपरायणः १९८।
विष्णोः संप्रीतये विप्रः कुरुते कर्म चाखिलम् ।
दधीचेर्वरदानात्स संजातो वरवैष्णवः १९९।
एकदा मासि वैशाखे एकादश्यां महामुनिः ।
पूजां कृत्वा हरे रम्यां विचित्रामकरोत्स्तुतिम् 6.128.२००।
तदैव खगमारुह्य देवो देवो हरिः स्वयम् ।
आजगाम पुरस्तस्य तया स्तुत्यातिहर्षितः २०१।
तं दृष्ट्वा गरुडारूढं प्रत्यक्षं जलदच्छविम् ।
चतुर्बाहुं विशालाक्षं सर्वालंकारभूषितम् २०२।
उद्भूतपुलको विप्रः सानंद जललोचनः ।
जगाम शिरसा भूमौ कृतकृत्यमनास्तदा २०३।
न ममौ तेन हर्षेण स ब्रह्मांडोदरेऽपि हि ।
न सस्मार निजं देहं ब्रह्मभूत इवाभवत् २०४।
ततः संभाषितः प्रीत्या हरिणा वैष्णवो मुनिः ।
देवद्युते विजानामि मद्भक्तस्त्वं मदाश्रयः २०५।
संन्यस्ताखिलकर्मासि मद्भावो मन्मनाः सदा ।
वरं ब्रूहि प्रसन्नोऽस्मि स्तोत्रेणानेन चानघ २०६।
इति श्रुत्वा हरेर्वाक्यं प्रत्युवाच स तापसः ।
देवदेवारविंदाक्ष स्वमायाधृतविग्रह २०७।
त्वद्दर्शनात्सदा देव दुर्लभो नापरो वरः ।
ब्रह्मादयः सुराः सर्वे योगिनः सनकादयः २०८।
त्वां साक्षात्कर्तुमिच्छंति सिद्धाश्च कपिलादयः ।
अहं ममेति पाशा ये मोह लोभाः शुभाशुभाः २०९।
सहेतुकाश्च दह्यंते दृष्टे त्वयि परावरे ।
जन्मनः कर्मणो बुद्धेराविर्भूतं फलं मम २१०।
यद्दृष्टोऽसि जगन्नाथ प्रार्थये किमतः परम् ।
न वरार्थं हि देवेश त्वत्पादपंकजं हृदि २११।
चिंतयामि सदा भक्त्या त्वद्गतेनांतरात्मना ।
इममेव वरं याचे त्वद्भक्तिरचला मम २१२।
अस्तु वै कमलानाथ प्रार्थये नापरं वरम् ।
इति श्रुत्वा वचस्तस्य प्रसन्नवदनो हरिः २१३।
प्रत्युवाच प्रसन्नात्मा एवमस्तु द्विजोत्तम ।
अन्यस्ते तपसः कश्चित्प्रत्यूहो न भविष्यति २१४।
एतच्च त्वत्कृतं स्तोत्रं ये पठिष्यंति मानवाः ।
तेषां मद्विषया भक्तिर्निश्चला च भविष्यति २१५।
धर्मकार्यं च यत्किंचित्सांगं सर्वं भविष्यति ।
ज्ञाने च परमा निष्ठा तेषां स्थास्यति निश्चला २१६।
इत्युक्त्वांतर्हितस्तत्र देवदेवो जनार्दनः ।
देवद्युतिस्तदारभ्य नारायणपरोऽभवत् २१७।
दिलीप उवाच।
महर्षेऽनुगृहीतोऽस्मि कथया पावनीकृतः ।
अनया विष्णुसंगत्या गंगयेवाहमद्य वै २१८।
किं तत्स्तोत्रं समाख्याहि प्रसन्नो येन माधवः ।
तस्यानघस्य विप्रस्य महत्कौतूहलं मम २१९।
त्वत्प्रसादादहं विप्र मन्ये प्राप्तं मनोरथम् ।
महतां संगतिः कस्य महत्त्वाय न कल्पते २२०।
कथयस्व प्रसादेन विष्णोः स्तोत्रमनुत्तमम् ।
येन तुष्टः स भगवान्ददौ तस्य च दर्शनम् २२१।
वसिष्ठ उवाच।
कथयामि रहस्यं ते यज्जप्तं स्तोत्रमुत्तमम् ।
प्राग्गृहीतं सुपर्णेन गरुडान्मयि चागतम् २२२।
अध्यात्मगर्भसारं तन्महोदयकरं शुभम् ।
सर्वपापहरं भूप स्वात्मज्ञानकरं परम् २२३।
ॐ नमो वासुदेवाय नमो विश्वाय चक्रिणे ।
भक्तप्रियाय कृष्णाय जगन्नाथाय शार्ङ्गिणे २२४।
स्तोता स्तुत्यः स्तुतिः सर्वं जगद्विष्णुमयं यदा ।
तदा संस्तूयते केन भक्तिर्मोदकरी नृणाम् २२५।
यस्य देवस्य निःश्वासो वेदाः सांगाः ससूत्रकाः ।
का स्तुतिः प्रमुदे तस्य भक्त्याऽहं मुखरोऽभवम् २२६।
चक्रवद्भ्रमते सर्वं त्रैलोक्यं सचराचरम् ।
अतस्त्वं गीयते देव चक्रपाणि वरायुध २२७।
वेदो न वक्ति यं साक्षान्न च वाग्वेत्ति नो मनः ।
मद्विधस्तं कथं स्तौति भक्तिमान्वा कथं भवेत् २२८।
ब्रह्मादिब्रह्मविष्णुस्त्वं त्वमेव सकलाश्रयः ।
स्रष्टा ब्रह्मनिदानं च शुद्धं ब्रह्मत्वमेव च २२९।
(कोऽयं कायस्तव विभो भित्त्वा स्पृशति कायिनम् ।
कायदोषैर्न चाघ्रातस्तस्मै नमोस्तु योगिने १)।
देवभावेन जागर्ति न निद्राति निजात्मनि ।
सुखसंदोहबुद्धिर्या सा त्वं विष्णो न संशयः २३०।
महदादयो महाभावास्तथा वैकारिका गुणाः ।
त्वमेव नाथ तत्सर्वं नानात्वं मूढकल्पना २३१।
केशकेशवरूपाभिः कल्पना तिसृभिस्तथा ।
त्वमेव कल्पसे ब्रह्म पुमानिव सुतादिभिः २३२।
विदोषं विगुणं चैकं चिन्मूर्तिरखिलं जगत् ।
कवीनां भाति यत्तत्त्वं तं विष्णुं नौमि निर्मलम् २३३।
यस्य ज्ञानेन कुर्वंति कर्मापि श्रुतिभाषितम् ।
निरीषणा जगन्मित्राः शुद्धं ब्रह्म नमामि तत् २३४।
ध्वस्तेतरच्च सन्मात्रं यत्प्रबोधादुपासते ।
योगिनः सर्वभूतेषु सद्रूपं नौमि तं हरिम् २३५।
ब्रह्माहमिति गायंति यं ज्ञात्वैकं वरा द्विजाः ।
पश्यंतो हि त्वया तुल्यं देव तं नौमि माधवम् २३६।
मायया मोहवैचित्र्यं तथाहं ममतां नृणाम् ।
यो नाशयति पापौघान्नमस्तस्मै चिदात्मने २३७।
प्रयाणे वा प्रयाणे च यन्नामस्मरतां नृणाम् ।
सद्यो नश्यंति पापौघा नमस्तस्मै चिदात्मने २३८।
मोहानललसज्ज्वाला ज्वलल्लोकेषु सर्वदा ।
यत्पादांभोरुहच्छायां प्रविष्टश्च न दह्यते २३९।
यस्य स्मरणमात्रेण न मोहो नैव दुर्गतिः ।
न रोगा नैव दुःखानि तमनंतं नमाम्यहम् २४०।
कामयंते प्रजा नैव धिषणाभ्यः समुत्थिताः ।
लोकमात्मैव पश्यंति यं बुद्ध्वैकचरा जनाः २४१।
शब्दार्थः संविदर्थश्च विष्णोर्नामपरो यदि ।
सत्येन तेन संसारो मा संस्पृशतु माधव २४२।
नारायणो जगद्व्यापी यदि वेदादिसंमतः ।
सत्येन तेन निर्विघ्ना विष्णुभक्तिर्ममास्तु वै २४३।
यो न बीजं विना बीजं बीजे यो बीजभावितः ।
स विष्णुर्भव बीजं मे सितविद्यासि नाद्य तु २४४।
त्रितनुर्नटवद्यस्तु सृष्टि स्थिति लयेषु च ।
गुणैर्भवति कार्येषु स प्रसीदतु मे हरिः २४५।
दशधेहाऽवतीर्णो यो धर्मत्राणाय केवलम् ।
अभ्यर्थितः सुरैः सर्वैः स प्रसीदतु मे हरिः २४६।
ब्रह्मादिस्तंबपर्यंतं प्राणिहृन्मंदिरेऽमलः ।
एको वसति यो देवः स प्रसीदतु मे हरिः २४७।
इच्छां चक्रे स देवाग्रे एकश्चैव बहुस्तथा ।
प्रविष्टो देवताः स्रष्टा स प्रसीदतु मे हरिः २४८।
हृत्खगः खसमः खादिः खातीतः खक्रियः खगः ।
खं ब्रह्मा खादिभुक्चांते खमूर्तिस्त्वं मखाशनः २४९।
यद्भासायन्मुदा यस्य मायया सज्यते जगत् ।
जाड्यं दुःखमसत्यं च स भवानेव तन्मयः 6.128.२५०।
त्वत्सृष्टं मोदते विश्वं त्वत्त्यक्तमशुचिर्भवेत् ।
तत्संगतोऽप्यसंगस्त्वं विकारस्तेन तेन हि २५१।
भूतयोगजचैतन्यं चार्वाकायमुपासते ।
सौगता ब्रवते तर्कैस्त्वां बुद्धिं क्षणभंगुराम् २५२।
शरीरपरिमाणं त्वां मन्यंते जिनदेवताः ।
ध्यायंति पुरुषं सांख्यास्त्वामेव प्रकृतेः परम् २५३।
जन्मादिरहितः पूर्वं यः स्यादानंदलक्षणम् ।
त्वामेवोपनिषद्ब्रह्म चिंतयंति परस्परम् २५४।
खादिभूतानि देहश्च मनो बुद्धींद्रियाणि च ।
विद्याविद्ये त्वमेवात्र नान्यत्त्वत्तोऽस्ति किंचन २५५।
त्वं धाता सर्वभूतानां त्वमेव शरणं मम ।
त्वमग्निस्त्वं हविः शक्रो होता मंत्रः क्रियाफलम् २५६।
त्वमस्ति नास्ति वैकुंठ त्वामहं शरणं गतः ।
त्वं कर्मफलदाता च दीक्षितानां क्रियाफलम् २५७।
त्वं हेतुः सर्वभूतानां त्वमेव शरणं मम ।
युवतीनां यथा यूनि यूनां च युवतौ यथा २५८।
मनोऽभिरमते तद्वत्प्रीतिर्मे रमतां त्वयि ।
अपि पापं दुराचारं नरं त्वत्प्रणतं हरे २५९।
नेक्षंते किंकरा याम्या उलूकास्तपनं यथा ।
तापत्रयमघौघश्च तावत्पीडयते जनम् २६०।
यावत्स्मरति नो नाथ भक्त्या त्वत्पादपंकजम् २६१।
यं नस्पृशंति गुणजातिशरीरधर्मा यं न स्पृशंति गतयस्त्वखिलेंद्रियाणाम् ।
यं च स्पृशंति मुनयो गतसंगमोहास्तस्मै नमो भगवते हरये करोमि २६२।
स्थूलं विलाप्यकरणे करणं निदाने तत्कारणं करणकारणवर्जिते च ।
इत्थं विलाप्य मुनयः प्रविशंति तत्र तस्मै नमोस्तु हरये मुनिसेविताय २६३।
यद्ध्यानसंवहनघूर्णवशीकृतांतामैश्वर्यचारुगुणिनीं सुखमोक्षलक्ष्मीम् ।
आलिंग्य शेरत इहात्मसुखैकभाजस्तस्मैनमोऽस्तु हरये मुनिसेविताय २६४।
जन्मादिभावविकृतेर्विरहस्वभावे यस्मिन्नयं परिधुनोति षडूर्मिवर्गः ।
यं तापयंति न सदा मदनादिदोषास्तं वासुदेवममलं प्रणतोऽस्मि हार्दम् २६५।
यद्ध्यानसंगतमलं विजहात्यविद्यां यद्ध्यानवह्निपतितं जगदेति नाशम् ।
यज्ज्ञानमुल्लसदसिद्यति संशयारिं तं त्वां हरिं विशदिबोधघनं नमामि २६६।
चराचराणि भूतानि सर्वाणि च हरेर्वशे ।
यथात्र तेन सत्येन पुरस्तिष्ठतु मे हरिः २६७।
यथा नारायणः सर्वं जगत्स्थावरजंगमम् ।
तेन सत्येन मे रूपं प्रदर्शयतु केशवः २६८।
भक्तिर्यथा हरौ मेऽस्ति तद्वरिष्ठा गुरौ यदि ।
ममास्ति तेन सत्येन स्वं दर्शयतु केशवः २६९।
तस्यैवं शपथैः सत्यैर्भक्तिं तस्यानुचिंतयन् ।
दर्शयामास चात्मानं स प्रीतः पुरुषोत्तमः २७०।
ततो दत्त्वा वरं तस्य पूरयित्वा मनोरथम् ।
जगाम कमलाकांतः स्तुत्या विप्रेण तोषितः २७१।
कृतकृत्यो द्विजः सोऽपि वासुदेवपरायणः ।
शिष्यैः सार्धं जपन्स्तोत्रं तस्मिन्नास्ते तपोवने २७२।
कीर्तयेद्यनइदंनस्तोत्रंनशृणुयाद्योऽपिनमानवः ।
अश्वमेधस्यनयज्ञस्यनप्राप्नोतिनविपुलंनफलम् २७३।
आत्मविद्याप्रबोधं च लभते ब्राह्मणः सदा ।
न पापे जायते बुद्धिर्नैव पश्यत्यमंगलम् २७४।
बुद्धिस्वास्थ्यं मनःस्वास्थ्यं स्वास्थ्यमैंद्रियकं तथा ।
नृणां भवति सर्वेषामस्य स्तोत्रस्य कीर्तनात् २७५।
विचार्यार्थं जपेद्यस्तु श्रद्धया तत्परो नरः ।
स विधूयेह पापानि लभते वैष्णवं पदम् २७६।
लभते वांच्छितान्कामान्पुत्रपौत्रान्पशूंस्तथा ।
दीर्घमायुर्बलं वीर्यं लभते स सदा पठन् २७७।
तिलपात्रसहस्रेण गोसहस्रेण यत्फलम् ।
तत्फलं समवाप्नोति य इमां कीर्तयेत्स्तुतिम् २७८।
धर्मार्थकाममोक्षाणां यं यं कामयते सदा ।
अचिरात्तमवाप्नोति स्तोत्रेणानेन मानवः २७९।
आचारे विनये धर्मे ज्ञाने तपसि सन्नये ।
नृणां भवति नित्यं धीरिमां संशृण्वतां स्तुतिम् २८०।
महापातकयुक्तो वा युक्तो वा ह्युपपातकैः ।
सद्यो भवति शुद्धात्मा स्तोत्रस्य पठनात्सकृत् २८१।
प्रज्ञा लक्ष्मीर्यशः कीर्तिज्ञानधर्मविवर्धनम् ।
दुष्टग्रहोपशमनं सर्वाशुभविनाशनम् २८२।
सर्वव्याधिहरं पथ्यं सर्वारिष्टनिषूदनम् ।
दुर्गतेस्तरणं स्तोत्रं पठितव्यं द्विजातिभिः २८३।
नक्षत्रग्रहापीडासु राजचोरभयेषु च ।
अग्निचोरनिपातेषु सद्यः संकीर्तयेदिदम् २८४।
सिंहव्याघ्रभयं नास्ति नाभिचारभयं तथा ।
भूतप्रेतपिशाचेभ्यो राक्षसेभ्यस्तथैव च २८५।
पूतना जृंभकेभ्यश्च विघ्नेभ्यश्चैव सर्वदा ।
नृणां क्वचिद्भयं नास्ति स्तवे ह्यस्मिन्प्रकीर्तिते २८६।
वासुदेवस्य पूजां यः कृत्वा स्तोत्रमुदीरयेत् ।
लिप्यते पातकैर्नासौ पद्मपत्रमिवांभसा २८७।
गंगादिपुण्यतीर्थेषु या स्नानैर्नाप्यते गतिः ।
तां गतिं समवाप्नोति पठन्पुण्यामिमां स्तुतिम् २८८।
एककालं द्विकालं वा त्रिकालं वापि यः पठेत् ।
सर्वदा सर्वकालेषु सोऽक्षयं सुखमश्नुते २८९।
चतुर्णामपि वेदानां त्रिरावृत्त्या च यत्फलम् ।
तत्फलं लभते स्तोत्रमधीयानः सकृन्नरः २९०।
अक्षय्यं धनमाप्नोति स्त्रीणां भवति वल्लभः ।
पूजां विंदति लोकेऽस्मिच्छ्रद्धया संस्मरन्हरिम् २९१।
सर्वदा संपदायुक्तो विपदं नैव गच्छति ।
गोभिर्न ह्रियते स्तोत्रं नित्यं यः कीर्तयेद्धि यत् २९२।
अलक्ष्मी कालकर्णी च दुःस्वप्नं दुर्विचिंतितम् ।
सद्यो नश्यंति भक्तानामेतं संशृण्वतां स्तवम् २९३।
प्रातरुत्थाय योऽधीते शुचिर्विष्णुपरायणः ।
अक्षय्यं लभते सौख्यमिह लोके परत्र च २९४।
देवद्युतिप्रणीतं वै विष्णुप्रीतिकरं शुभम् ।
विष्णुप्रसादजननं विष्णुदर्शनकारकम् २९५।
योगसारमिदं नाम स्तोत्रं परमपावनम् ।
यः पठेत्सततं भक्त्या विष्णुलोकं स गच्छति २९६।
इति ते कथितं स्तोत्रं गुह्यं पापप्रणाशनम् ।
अत ऊर्ध्वं प्रवक्ष्यामि पिशाचस्य विमोचनम् २९७।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे माघमाहात्म्ये वसिष्ठदिलीपसंवादे।
योगसारस्तोत्रकथनंनाम अष्टाविंशत्यधिकशततमोऽध्यायः १२८।