पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः १२९

← अध्यायः १२८ पद्मपुराणम्
अध्यायः १२९
वेदव्यासः
अध्यायः १३० →

वसिष्ठ उवाच।
श्रूयतां ये पिशाचाश्च मोचितास्तेन तद्वने ।
आसीद्राजा चित्रनामा द्राविडे विषये पुरा १।
सोमान्वये महावीरः शूरः शस्त्रास्त्रपारगः ।
गजवाजिरथौघैश्च संपन्नो विक्रमी सदा २।
स्वर्णैर्नानाविधै रत्नैः पूर्णकोशो महाधनः ।
मध्ये नारीसहस्रस्य सदा क्रीडति तत्परः ३।
स्त्रैणः कामी सदा लुब्धश्चंडकोपः स पार्थिवः ।
न करोति वचो धर्म्यं सचिवैः समुदीरितम् ४।
विष्णुं निंदति सोऽत्यर्थं वैष्णवान्द्वेष्टि सर्वदा ।
कोऽसौ विष्णुः क्व दृष्टोऽसौ क्व चास्ते केन कीर्त्यते ५।
इत्थं न सहते विष्णुं स राजा दैवमोहितः ।
नारायणं भजंते ये तान्पीडयति कोपितः ६।
न ब्राह्मणान्न वेदांश्च वैदिकं कर्म न व्रतम् ।
न दानं मन्यते दातुं पाखंडस्थितिसंस्थितः ७।
अनीत्या चंडदंडैश्च प्रजापीडां करोति सः ।
निष्ठुरो निर्दयः क्रूरः पुण्यकार्यपराङ्मुखः ८।
च्युताचारोऽच्युतद्वेष्टा च्युताग्निश्च च्युतक्रियः ।
सोऽनुशास्ति जनं भूपः कालरूप इवापरः ९।
ततो बहुतिथे काले स राजा पंचतां गतः ।
वैदिकेन विधानेन लेभे नैवोर्ध्व दैहिकम् १०।
अथ किंकरयूथेन पीड्यमानो भृशं तदा ।
अयःकीलमये मार्गे तप्तसिक्ता प्रपूरिते ११।
चंडार्करश्मिसंतप्ते वृक्षच्छायाविवर्जिते ।
तप्तांगारप्रकीर्णे च वह्निज्वालासमाकुले १२।
लोहतुंडैश्च काकोलैर्हन्यमानः सुदारुणैः ।
वृकैर्दंष्ट्राकरालैश्च श्वभिर्घोरैश्च भक्षितः १३।
शृण्वन्क्रंदितमन्येषां नृणां किल्बिषकारिणाम् ।
जगाम पार्थिवो लोकमंतकस्य भयावहम् १४।
शृणु भूपगतिं तस्य तस्मिँल्लोके सुदुःसहाम् ।
निरयान्निरयं यातः पर्यायेण स भूपतिः १५।
आदौ प्रयातस्तामिस्रे दारुणे भूरिदुःखदे ।
पुनश्चैवांधतामिस्रे यत्र दुःखं निरंतरम् १६।
गतोऽनंतरमत्युग्रं महारौरवरौरवम् ।
नरकं कालसूत्रं च महानरकमेव च १७।
पश्चान्मग्नः स भूपालो दुस्तरे दुःखमूर्छितः ।
संजीवने महावीचौ तापने संप्रतापने १८।
प्रतापनरकं राजा दुःखाग्निप्लुष्टमानसः ।
संपातं च स काकोलं कुड्मलं पूतिमृत्तिकम् १९।
लोहशंकुं मृगीयंत्रं पंथानं शाल्मलिनदीम् ।
प्रविष्टोऽथ महाभीमं दुर्दर्शं दुर्गमं पुनः २०।
असिपत्रवनं चैव लोहचारकमेव च ।
एवमेतेषु सर्वेषु पतित्वा पापकृन्नृपः २१।
अविंदन्नरके घोरे संतापं यातनामयम् ।
विष्णुप्रद्वेषघोषेण युगानामेकविंशतिः २२।
भुक्त्वा च यातनां याम्यां निस्तीर्णनरको नृपः ।
समयाद्गिरिराजे तु पिशाचोऽभूत्तदा महान् २३।
स भ्राम्यति दिशः सर्वा वने तस्मिन्बुभुक्षितः ।
न पश्यत्यशनं तोयं मेरावपि सदा गिरौ २४।
कदाचित्पर्यटन्सोऽथ पिशाचः शोकपीडितः ।
प्लक्षप्रस्रवणारण्यं प्रविष्टो भाविसत्फलम् २५।
बिभीतकतरुच्छायां समाश्रित्य सुदुःखितः ।
हा हतोऽस्मीति चाक्रंदद्घोरमुच्चैः पुनः पुनः २६।
क्ष्रुत्तृड्भ्यां मुह्यमानस्य सर्वभूतद्रुहो मम ।
जन्मनोस्य दुरंतस्य कथमंतो भविष्यति २७।
आदौ पापसमुद्रेऽस्मिन्दुःखकल्लोलमालिनी ।
करावलंबनं कोद्य निमग्नस्य प्रदास्यति २८।
इत्थं तस्य पिशाचस्य रोदनं दीनचेतसः ।
देवद्युतिरधीयानः शुश्राव करुणामयम् २९।
समागम्य ततस्तत्र तं पिशाचं ददर्श सः ।
विकरालमुखं भीमं पिशंगनयनं कृशम् ३०।
ऊर्ध्वमूर्धजकृष्णांगं यमदूतमिवापरम् ।
ललज्जिह्वं च लंबोष्ठदीर्घजंघं शिराकुलम् ३१।
दीर्घांघ्रिं शुष्कतुंडं च गर्ताक्षं शुष्कपंजरम् ।
अथामुं कौतुकाविष्टः पप्रच्छ मुनिपुंगवः ३२।
देवद्युतिरुवाच।
कोऽसि त्वं भीषणाकारः कुतो रोदिषि दारुणम् ।
अवस्थेयं कुतो ब्रूहि किंचाहं करवाणि ते ३३।
ममाश्रमप्रविष्टा हि दुःखभाजो न जंतवः ।
मोदंते केवलं सर्वे वैष्णवे भवने यथा ३४।
वद त्वं सत्वरं भद्र दुःखस्यैतस्य कारणम् ।
कालक्षेपं न कुर्वंति प्राप्तेऽथे हि मनीषिणः ३५।
वसिष्ठ उवाच।
श्रुत्वैतद्वचनं प्रीतः पिशाचस्त्यक्तरोदनः ।
उवाच दीनया वाचा प्रश्रयावनतस्तदा ३६।
पिशाच उवाच।
सर्वांगव्यापि संतापं जहार त्वद्वचो मयि ।
ग्रीष्मे दावानलोद्भूतं वर्षन्मेघ इवाचले ३७।
यन्मेऽस्ति सुकृतं किंचित्तेन दृष्टोऽसि मे द्विज ।
न ह्यसंचितपुण्यानां सद्भिरेकत्रसंगमः ३८।
इत्युक्त्वा कथयामास पूर्ववृत्तांतमात्मनः ।
विष्णुद्वेषप्रदोषेण दशामेतामहं गतः ३९।
यन्नामप्राणान्मुक्तो हि स्मृत्वा विष्णुपदं व्रजेत् ।
पापिष्ठो हि हरौ तस्मिन्ममद्वेषोऽभवद्द्विज ४०।
यः पालयति भूतानि धर्मं याति जगत्त्रये ।
योंऽतरात्मा च भूतानां तस्मिन्द्वेषो ममाभवत् ४१।
कर्मणां फलदो योऽत्र सर्ववेदेषु गीयते ।
तपोभिरिज्यते विप्रैः समद्वेषवशंगतः ४२।
त्यक्तक्रियैः प्रियारण्यैर्निःसंगैकचरैश्च यः ।
वेदांते यतिभिश्चिंत्यः स मे द्वेषी हरिर्द्विज ४३।
ब्रह्मादयः सुराः सर्वे योगिनः सनकादयः ।
मुक्त्यर्थमर्चयंतीह स विष्णुर्द्वेषितो मया ४४।
आदौ मध्येऽवसाने यो विश्वधाता सनातनः ।
यस्य नैवादिमध्यांताः समे द्वेषपदं ययौ ४५।
यन्मया सुकृतं कर्म कृतं प्राक्तनजन्मनि ।
विष्णुद्वेषाग्निना दग्धं तत्सर्वं भस्मसादभूत् ४६।
कथंचिदस्य पापस्य सीमां द्रक्ष्यामि चेदहम् ।
मुक्त्वा नारायणं नान्यमर्चयिष्यामि देवताम् ४७।
विष्णुद्वेषाच्चिरं भुक्त्वा मया नरकयातनाम् ।
निरयान्निसृतः सोऽहं पैशाचीं योनिमागतः ४८।
अधुना कर्ममंत्रैः कैरथानीतस्त्वदाश्रमम् ।
यत्र त्वद्दर्शनार्कान्मे नष्टं दुःखमयं तमः ४९।
प्राप्यते मरणं यत्र बंधनं श्रीः सुखं वधूः ।
स तत्र नीयते स्वेन कर्मणा गलहस्तिना 6.129.५०।
इदानीमुचितं कर्म ब्रूहि पैशाच्यनाशनम् ।
परोपकारकार्ये हि न धन्या मंदगामिनः ५१।
देवद्युतिरुवाच।
अहो मुष्णाति मायेयं देवासुरनृणां स्मृतिम् ।
यया देवेष्वपि द्वेषो जायते धर्मनाशनः ५२।
स्रष्टा पालयिता हंता जगतां यो महेश्वरः ।
आत्मा च सर्वभूतानां तं मूढो द्वेष्टि कः कथम् ५३।
भवंति सर्वकर्माणि सफलानि यदर्पणात् ।
तद्भक्तिविमुखो मर्त्यः को न यातीह दुर्गतिम् ५४।
श्रुतिस्मृतिसदाचारविहितं कर्म केवलम् ।
सेवितव्यं चतुर्वर्णैर्भजन्नारायणं सदा ५५।
अन्यथा निरयं यांति विना ह्यागमसेवनात् ।
अतो वेदविरुद्धार्थं शास्त्रोक्तं कर्म संत्यजेत् ५६।
स्वबुद्धिरचितैः शास्त्रैः प्रतार्येह तु बालिशान् ।
विघ्नंति श्रेयसो मार्गं लोकनाशाय केवलम् ५७।
विष्णुं निंदंति वेदांश्च तपो निंदंति सद्द्विजान् ।
तेन ते नरकं यांति ह्यसच्छास्त्रनिषेवणात् ५८।
अयमेव यथा राजा द्रविडो निरयं गतः ।
द्विषन्नारायणं देवं देवदेवं जगत्प्रभुम् ५९।
तस्माद्द्वेषं हि देवेषु ब्राह्मणेषु विशेषतः ।
संत्यजेत्पुण्यकामोऽत्र वेदबाह्यां क्रियां त्यजेत् ६०।
इत्युक्त्वा कथयामास पिशाचाय हि तं मुनिः ।
प्रयागं गच्छ भो भद्र माघमासं विचारय ६१।
यत्र ते निश्चिता मुक्तिः पैशाच्यान्नात्र संशयः ।
तत्राप्लुता दिवं यांति श्रुतिरेषा सनातनी ६२।
विजहाति नरस्तत्र प्राक्तनं कर्म दुष्कृतम् ।
प्रयागस्नानतो नास्ति क्वाप्यन्यदधिकं परम् ६३।
प्रायश्चित्तं तपोरूपं दानरूपं क्रियात्मकम् ।
यागयोगाधिकं विद्धि प्रयागं पापिनामपि ६४।
स्वर्गापवर्गयोर्द्वारं तत्पृथिव्यामपावृतम् ।
सितासितोद वेणी या तां हित्वा भुवि नापरा ६५।
पापनैगडबद्धस्य छेदनैककुठारिका ।
क्व विष्णुः सूर्यतेजोऽग्निर्गंगायामुनसंगमः ६६।
क्व वराकी नृणां तुच्छा पापराशि तृणाहुतिः ।
मलीमसघनध्वंसे यथा शरदि चंद्रमाः ६७।
भाति पापक्षयादूर्ध्वं नरो वेणीजलाप्लुतः ।
सितासितस्य माहात्म्यमहं वक्तुं न ते क्षमः ६८।
यत्तोयकणसंस्पृष्टो मुक्तः केरलको द्विजः ।
इति वाक्यमृषेः श्रुत्वा पिशाचस्तुष्टमानसः ६९।
मुक्तदुःखइव प्रीतः पप्रच्छ प्रणयान्मुनिम् ।
कथं केरलदेशीयो द्विजो मुक्तो महामुने ७०।
एतं कथय वृत्तांतं संश्रित्य करुणां मयि ७१।
देवद्युतिरुवाच।
पिशाच शृणु पुण्यां मे कथां कथयतः शुभाम् ।
केरले वसुनामात्र ब्राह्मणो वेदपारगः ७२।
दायादैर्हृतवित्तस्तु निर्धनो बंधुवर्जितः ।
जन्मभूमिं परित्यज्य महादुःखेन दुःखितः ७३।
देशाद्देशं परिभ्राम्य कालेन महता पुनः ।
प्रविश्य स महारण्यमीषद्व्याधिप्रपीडितः ७४।
गच्छंस्तीर्थांतरं श्रांतः क्षुत्क्षामो विंध्यपर्वते ।
दुर्भिक्षेण मृतिं लेभे न दाहं चौर्ध्वदेहिकम् ७५।
तेन कर्मविपाकेन तत्रैव गिरिगह्वरे ।
प्रेतीभूतश्चिरं कालमुवास निर्जने वने ७६।
शीतातपपरिक्लिष्टो निराहारो निरूदकः ।
दिगंबरो व्युपानत्को गिरा हाहेति निःश्वसन् ७७।
इतस्ततः परिभ्राम्य वायुभूतः स केरलः ।
द्विजो न शरणं लेभे न सुखं कुत्रचित्तदा ७८।
संशोचति स्म दुःखार्ते नैव पश्यति सद्गतिम् ।
सर्वदा दत्तदानं स भुंक्ते स्वं कर्मणः फलम् ७९।
हविर्जुह्वति नाग्नौ ये गोविंदं नार्चयंति ये ।
भजंते नात्मविद्यां ये सुतीर्थविमुखाश्च ये ८०।
सुवर्णवस्त्रतांबूलं मणिमन्नं फलं जलम् ।
आर्तेभ्यो न प्रयच्छंति सर्वे ते कृतहीनकाः ८१।
ब्रह्मस्वं च परस्वं च स्त्रीधनानि हरंति ये ।
बलेन छद्मना वापि धूर्ताश्च परवंचकाः ८२।
दांभिकः कुहकाश्चौरा ये च पावकवृत्तयः ।
बालवृद्धातुरस्त्रीषु निर्दयाः सत्यवर्जिताः ८३।
अग्निदा गरदा ये च ये चान्ये कूटसाक्षिणः ।
अगम्यागामिनः सर्वे ये चान्ये ग्रामयाजिनः ८४।
पितृमातृस्नुषापत्यस्वदारत्यागिनश्च ये ।
ये कदर्याश्च लुब्धाश्च नास्तिका धर्मदूषकाः ८५।
त्यजंति स्वामिनं युद्धे त्यजंति शरणागतम् ।
गवांभूमेश्च हंतारो ये चान्ये रत्नदूषकाः ८६।
परापवादिनः पापा देवतागुरुनिंदकाः ।
महाक्षेत्रेषु सर्वेषु प्रतिग्रहरताश्च ये ८७।
परद्रोहरता ये च यथा च प्राणिहिंसकाः ।
कुप्रतिग्राहिणः सर्वे ते भवंति पुनः पुनः ८८।
प्रेतराक्षसपैशाच तिर्यग्वृक्षकुयोनिषु ।
न तेषां सुखलेशोऽस्ति इह लोके परत्र च ८९।
तस्मात्त्यक्त्वा निषिद्धार्थं विहितं कर्म चाचरेत् ।
यज्ञं दानं तपस्तीर्थं मंत्रं देवं गुरुं भजेत् ९०।
विपाकं कर्मणां दृष्ट्वा योनिकोटिषु दुस्तरम् ।
चतुर्भिरपि वर्णैश्च सेव्यो धर्मो निरंतरम् ९१।
इति प्रेतगतिं दृष्ट्वा पापबीजोत्थितां हि सः ।
कृत्वा धर्मोपदेशं च पुनस्तस्मै द्विजोऽब्रवीत् ९२।
इत्थं स केरलः प्रेतो वर्तमानो गिरौ तदा ।
अतिवाह्य चिरं कालमपश्यत्पथिकं पथि ९३।
वहंतं द्वौ करंडौ च वेणी जलयुतौ तथा ।
गायंतं प्रमुखा देवं पुण्यश्लोकं जनार्दनम् ९४।
तं दृष्ट्वा सहसा प्रेतो मार्गरोधं चकार सः ।
दर्शयामास चात्मानं मा भैषीरित्युवाच सः ९५।
पानीयं पातुमिच्छामि त्वत्तः कार्पाटिकोत्तम ।
न पास्यसि जलं चेन्मां प्राणा यास्यंति मे दृढम् ९६।
इति प्रेतवचः श्रुत्वा पांथः प्रत्याह कौतुकात् ।
कार्पटीक उवाच।
कस्त्वं दुःखाभिभूतस्तु कृशो म्लानो दिगंबरः ९७।
जीवशेषो मुमूर्षुश्च विकृतो भयवर्धनः ।
नवधूममयाकारश्चंडश्चंचललोचनः ९८।
पद्भ्यामस्पृष्टभूमिस्त्वं निर्मांसोदरबाहुकः ।
इति तद्वचनं श्रुत्वा प्रेतो वाक्यमथाब्रवीत् ९९।
प्रेत उवाच।
शृणु धर्मिष्ठ ते वच्मि येनाहमीदृशोऽभवम् ।
ब्राह्मणोऽदत्तदानोऽहं लोभी च मलिनक्रियः 6.129.१००।
परान्नं च सदा भुक्तमेकाकी मिष्टभोजनः ।
मया दत्ता न भिक्षापि हंतकारो न पुष्कलः १०१।
न कृतो वैश्वदेवस्तु प्रक्षिप्तो न बहिर्बलि ।
भूतानां तु तृषार्तानां न हता पयसा च तृट् १०२।
कदाचित्पितरो नैव तर्पिता अटता महीम् ।
न च श्राद्धं कृतं क्वापि पूजिता नैव देवताः १०३।
वर्षातपपरित्राणं न दत्तं पादरक्षणम् ।
जलपात्रं न दत्तं च तांबूलं नौषधं मया १०४।
न गृहे वसतिर्दत्ता नातिथ्यं कस्यचित्कृतम् ।
अंधवृद्धाधनानाथ दीनाः पानान्नतोषिताः १०५।
गवां ग्रासो न दत्तो वै न रोगी परिमोचितः ।
न दत्ता न हुता विप्र पवित्राश्च तिला मया १०६।
पृथिव्यां तिलदातारो न भवंति तु मद्विधाः ।
व्यतीपाते न दत्तं हि किंचित्स्वर्णं महाफलम् १०७।
संक्रांतावुपरागे च न दत्तं सूर्यचन्द्रयोः ।
पर्वाण्यन्यानि सर्वाणि जग्मुः शून्यानि मे द्विज १०८।
तिथयः कार्तिके मुख्या जाता वंध्याः सदा मम ।
पितृभ्यो नैव दत्तं वा अष्टकासु मघासु च १०९।
द्विजानां न कृता प्रीतिर्मन्वादिषु युगादिषु ।
न दत्तस्तिलतैलेन प्रदीपः कार्तिके मया ११०।
न स्नातो माघमासेऽहं रूपसौभाग्यकामदे ।
द्विजाय वेदविदुषे गौतम्यां सिंहगे गुरौ १११।
मया संकल्पितं द्रव्यं न दत्तं पूर्वजन्मनि ।
न स्नातोऽहं कृष्णवेण्यां तथा कन्यागते गुरौ ११२।
अग्निं प्रज्वाल्य काष्ठौघैः स्नातानां पौषमाघयोः ।
शीतार्तानां च विप्राणां न कृतो जाड्यनिग्रहः ११३।
माधवादिषु मासेषु न दत्तं शीतलं जलम् ।
मया नारोऽपितोऽश्वत्थो न्यग्रोधो नैव वर्धितः ११४।
बंदीगृहान्मया मुक्तिर्न कृता प्राणिनां क्वचित् ।
न प्राणिभयसंत्रस्तो रक्षितः शरणागतः ११५।
नोपोष्यात्र त्रिरात्राणि तोषितो मधुसूदनः ।
कृच्छ्रातिकृच्छ्रपाराकं तथा चांद्रायणं द्विज ११६।
अथान्यत्तप्तकृच्छ्रं च तथा सांतपनानि च ।
व्रतान्येतानि पुण्यानि जुष्टानींद्रादिभिः सुरैः ११७।
चरित्वा न मया तानि देहः संशोषितः पुरा ।
इत्थं पूर्वभवो वंध्यो मम जातो द्विजोत्तम ११८।
पश्य द्विज महाक्रूरामद्भुतामत्र जन्मनि ।
गतिं दूरप्रबोधां तु मम पूर्वस्य कर्मणः ११९।
संति मांसानि मार्गेषु वृकव्याघ्रहतानि वै ।
फलान्यन्यानि शैलेस्मिन्शुकैस्त्यक्तानि सर्वतः १२०।
पुण्यानि च सुगंधीनि फलानि रसवंति च ।
मूलानि तु सुभक्ष्याणि मृदूनि मधुराणि च १२१।
नानाविधानि तिष्ठंति मधूनि सुबहून्यपि ।
स्रोतसां निर्झराणां च संति वारीणि सर्वशः १२२।
सुलभेषु पदार्थेषु सर्वेष्वेतेषु पर्वते ।
नेक्षेहमशनं क्वापि दैवेनापि हतं सदा १२३।
वाताहारेण जीवामि यथा जीवंति पन्नगाः ।
पुनर्जीवामि भो विप्र देवयोनिप्रभावतः १२४।
बलेन प्रज्ञया नित्यं मंत्रपौरुषविक्रमैः ।
सहायैश्चैव मित्रैश्च नालभ्यं लभते नरः १२५।
लाभालाभे सुखे दुःखे विवाहे मृत्युजीवने ।
भोगे रोगे वियोगे च दैवमेव हि कारणम् १२६।
कुरूपाः कुकुला मूर्खाः कुत्सिताचारनिंदिताः ।
शौर्यविक्रमहीनाश्च दैवाद्राज्यानि भुंजते १२७।
काणाः खंजा अभव्याश्च नीतिहीनाश्च दुर्गुणाः ।
नपुंसकाश्च दृश्यंते दैवाद्राज्ये प्रतिष्ठिताः १२८।
यैर्दत्ताश्च तिला गावो हिरण्यं वसनानि च ।
गौरी कन्या च यैर्दत्ता यैर्दत्ता च वसुंधरा १२९।
शय्यासनानि तांबूलं मंदिराणि धनानि च ।
भक्ष्यभोज्यानि दत्तानि चंदनान्यगरूणि च १३०।
अटव्यां पर्वताग्रे च ग्रामे वा नगरेऽपि वा ।
पुरः पुरःश्च तिष्ठंति तेषां भोगाः प्रयत्नतः १३१।
संत्यत्र पर्वतेऽन्येऽपि राक्षसा बलवत्तराः ।
राक्षसाश्च पिशाचाश्च पिशाच्यश्चातिदारुणाः १३२।
कदाचिच्च कथंचिच्च क्वापि यत्र स्वकर्मणा ।
लभंते चान्नपानानि पर्यटंतो वनेवने १३३।
इति श्रुत्वाऽत्र तेभ्यश्च मा भयं भवतां भवेत् ।
शुचिं गोविंदभक्तं त्वां न ते द्रष्टुमपि क्षमाः१३४।
विष्णुभक्तितनुत्राणं नारायणपरायणम् ।
न स्पृशंति न पश्यंति राक्षसाः प्रेतपूतनाः १३५।
भूतवेतालगंधर्वाः शाकिन्यश्चार्यका ग्रहाः।
रेवत्यो वृद्धरेवत्यो मुखमंड्यस्तथा ग्रहाः १३६।
यक्षा बालग्रहाः क्रूरा दुष्टा वृद्धग्रहाश्च ये ।
तथा मातृग्रहा भीमा ग्रहाश्चान्ये विनायकाः १३७।
कृत्याः सर्पाश्च कूष्मांडा ये चान्ये दुष्टजंतवः ।
न पश्यंति परं विप्र वैष्णवं ब्राह्मणं शुचिम् १३८।
शुचिं रक्षंति भूतानि धर्मिष्ठं पीडयंति न ।
रक्षंति च शुचिं नित्यं ग्रहनक्षत्रदेवताः १३९।
गोविंदनाम जिह्वाग्रे हृदि वेदस्तु संस्थितः ।
शुचिश्च दानशीलश्च त्वं सर्वत्राकुतोभयः १४०।
एवं ब्राह्मण तिष्ठामि भुंजानः कर्मणः फलम् ।
न शोचामीति मत्वाऽहं विमृश्य च पुनः पुनः १४१।
न दुनोमि तथा तावद्यावज्जंबालिनी तटे ।
सारसोदीरितं वाक्ये श्रुतं पर्यटता मया १४२।
ब्राह्मण उवाच।
सारसोदीरितं वाक्यं कीदृशं हि श्रुतं त्वया ।
तदहं श्रोतुमिच्छामि ब्रूहि त्वं प्रेत सत्वरम् १४३।
प्रेत उवाच।
ब्रवीमि सारसं वाक्यं शृणु कार्पाटिकोत्तम ।
धूसरा नाम कक्षेऽस्मिन्नदीगिरिसमुद्भवा १४४।
सदा जलशयोत्ताला मत्तदंतिकुलाकुला ।
महाककुभशोभाढ्या स्निग्धजंबूमनोहरा १४५।
तस्यास्तीरमहं प्राप्तो गाहमानो वनं घनम् ।
मयि तिष्ठति वै तत्र फलभोजनकाम्यया १४६।
वनांतरात्समुड्डीय सारसो लक्ष्मणा युतः ।
आगत्य पुलिनं नद्याः सेवितुं बहुपक्षिभिः १४७।
पीत्वा तत्रैव पानीयं रमित्वा भार्यया सह ।
सुप्तः पक्षपुटे वामे प्रवेश्य च शिरोमुखम् १४८।
एतस्मिन्नंतरे दृष्टः पादपादवतीर्य च ।
रक्ताननः सुरक्ताक्षो दंडी दृढनखावलि १४९।
लोमशो दीर्घलांगूलश्चलचेष्टो हि वानरः ।
यत्रासौ सारसः सुप्तस्तत्र वेगेन चागतः 6.129.१५०।
समागत्य च जग्राह सारसं चरणे दृढम् ।
कराभ्यां क्रूरया बुद्ध्या पश्यतां बहुपक्षिणाम् १५१।
उड्डीयोड्डीय ते सर्वे गताश्चान्यत्र खेचराः ।
सारसी भीतभीता च विरावान्कुर्वती स्थिता १५२।
सारसो भग्ननिद्रस्तु त्रासाच्चलितलोचनः ।
अवलोकितवाञ्छीघ्रं तदोत्ताम्य शिरोधराम् १५३।
विलोक्य वानरं दुष्टं हंतुकामं सुदारुणम् ।
तदा संभाषयामास गिरा मधुरया खगः १५४।
अपराधं विना मां त्वं किं शाखामृग बाधसे ।
सापराधा जना लोके वध्यंते भूमिपैरपि १५५।
न पीडयितुमर्हंति त्वादृशा उत्तमा जनाः ।
अस्मानहिंसकान्साधून्परवृत्तिपराङ्मुखान् १५६।
जलशैवालभक्षांश्च खेचरान्वनवासिनः ।
स्वदाररतिशीलांश्च परदाराभिवर्जितान् १५७।
न पीडयितुमर्हंति त्वद्विधा वानरोत्तम ।
परापवादपैशुन्यान्द्विजान्परमसेवकान् १५८।
शाखामृग विमुंचाशु सर्वथा मामनागसम् ।
जानामि तव जन्माहं न त्वं वेत्सि तु मामकम् १५९।
इत्याकर्ण्य वचस्तस्य मुमोच सारसं तदा ।
चपलो वानरः शीघ्रमाह दूरे व्यवस्थितः १६०।
वानर उवाच।
ब्रूहि रे त्वं कथं वेत्सि मम जन्म पुरातनम् ।
त्वं पक्षी ज्ञानहीनश्च तिर्यक्चाहं वनेचरः १६१।
सारस उवाच।
जानेऽहं तावकं जन्म जातिस्मरमिति स्फुटम् ।
त्वं हि विंध्याधिपो राजा प्राग्भवे पर्वतेश्वरः १६२।
अहं पूज्यतमो विप्रस्तव वंशे पुरोहितः ।
तेन प्रत्यभिजानामि त्वां सम्यग्वानरोत्तम १६३।
इमां पालयता भूमिं प्रजाः सर्वाः प्रपीडिताः ।
त्वया विवेकहीनेन भृशं संचयता धनम् १६४।
प्रजापीडानतापोत्थ वह्निज्वालैस्तु वानर ।
प्राक्त्वं दग्धः पुनः क्षिप्तः कुंभीपाकेऽति दारुणे १६५।
पुनः पुनःश्च दग्धेन जातेन च पुनः पुनः ।
नारकेण शरीरेण समास्त्रिंशद्गतं त्वया १६६।
कुर्वता दारुणाञ्छब्दान्रुदता च पुनः पुनः ।
कुंभीपाकानले तीव्रा ह्यनुभूताश्च यातनाः १६७।
निस्तीर्णनरको भूयः पापशेषेण सांप्रतम् ।
प्राप्तोऽसि वानरं जन्म येन मां हंतुमिच्छसि १६८।
विप्रस्योपवनात्पूर्वं पक्वरंभाफलानि वै ।
अननुज्ञाप्य भुक्तानि त्वयापहृत्य पौरुषात् १६९।
विपाकः कर्मणस्तस्य फलते पश्य दारुणः ।
वानरस्त्वं वने वासो ह्यधुना तेन वर्तसे १७०।
अशुभस्य शुभस्यापि पुराविहितकर्मणः ।
भोगः क्रीडति भूतेषु नोल्लंघ्यस्त्रिदशैरपि १७१।
इत्थं त्वज्जन्म जानामि यथावत्तु सहेतुकम् ।
प्राप्तः सारसदेहोऽपि ज्ञानेनापरिमोहितः १७२।
प्रेत उवाच।
इति श्रुत्वा कथां विप्र वानरोप्याह सारसम् ।
सम्यग्वेत्ति भवान्नूनं कथं त्वं पक्षितां गतः १७३।
सारस उवाच।
कथयिष्यामि तत्कर्म येनाहं दुर्गतिं गतः ।
पक्षियोनिं गतो येन तत्सर्वं श्रोतुमर्हसि १७४।
धान्यं खारिशतं साग्रमुत्सृष्टं हि त्वया पुरा ।
बहुभ्यो ब्राह्मणेभ्यश्च चर्मदायां रविग्रहे १७५।
पौरोहित्यमदाल्लोभाद्वंचयित्वा द्विजांस्तथा ।
किंचिद्दत्त्वा तु तेभ्यश्च गृहीतमखिलं मया १७६।
विप्रसाधारणद्रव्यग्रहणोत्पन्नपातकात् ।
पतितः कालसूत्रेऽहं नरके रक्तकर्दमे १७७।
चलत्क्रिमिसुसंपूर्णे दुर्गंधे पूयफेनिले ।
आनाभेस्तत्र मग्नोस्मि लिहन्पूयमधोमुखः १७८।
तथोपरि महागृध्रैर्भक्ष्यमाणस्तु वायसैः ।
क्रिमिभिस्तुद्यमानस्तु मम देहो निरंतरम् १७९।
तस्मिञ्छोणितपंकेऽहं निरुच्छ्वासोऽभवं तदा ।
मुहूर्तोऽपि महाकल्पसमो जातो ममात्र वै १८०।
यातनाश्चानुभूताश्च समास्त्रिरयुतं मया ।
वक्तुं च तन्न शक्नोमि दुःखं वानर नारकम् १८१।
पौरोहित्यं महाघोरं पापदं च स्वभावतः ।
देवोपजीवनं यत्र ब्राह्मणस्योपजीवनम् १८२।
राज्ञः प्रतिग्रहो घोरस्तेन दग्धा द्विजातयः ।
तेषामपि हरेद्द्रव्यं पुरोधास्तेन नारकी १८३।
राजा यत्कुरुते पापं पुरा देहेन धीयते ।
तस्य तेन पुरोधाश्च गीयते तत्वदर्शिभिः १८४।
दैवात्कथमपि प्राप्त उत्तारो नरकांबुधेः ।
मयादौ दैवयोगेन शकुनित्वमुपस्थितम् १८५।
अपहृत्य पुरा कांस्यभाजनं भगिनीगृहात् ।
आक्षिकाय मया दत्तं तेन मे सारसी गतिः १८६।
इयं च ब्राह्मणी पूर्वं कांस्यचोरी सुदारुणा ।
तेनेयं सारसी जाता मम भार्या सधर्मिणी १८७।
इत्थं वानर ते सर्वं कथितं कर्मणः फलम् ।
वृत्तं च वर्तमानं च भविष्यं शृणु सांप्रतम् १८८।
अहं हंसो भविष्यामि त्वं च हंसो भविष्यसि ।
हंसीयमपि मद्भार्या सारसी च भविष्यति १८९।
देशे च कामरूपे वै स्थास्यामो वै यथासुखम् ।
योगिनीं भाविकल्याणीं यास्यामस्तदनंतरम् १९०।
ततश्च मानुषं जन्म प्राप्यामो दुर्लभं पुनः ।
श्रेयस्तद्विपरीतं च प्राणिभिर्यत्र साध्यते १९१।
एवं सर्वाञ्छिवो जंतून्मोहयित्वा स्वमायया ।
सुखैर्भुनक्ति दुःखैश्च नास्मानेव तु केवलम् १९२।
अयं लोके प्रवृत्तश्च मार्गो विविधनिर्मितः ।
धर्माधर्ममयोऽत्यर्थे सुखदुःखफलात्मकः १९३।
सेवितः प्राणिभिः सर्वैः सर्वदा वा पुनः पुनः ।
देवासुरनरव्याघ्र क्रिमिकीटजलेचरैः १९४।
नातिक्रांतो हि केनापि पंथाऽयं दुःखकंटकः ।
विरक्तान्योगिनोध्यायं विनावेदांतपारगान् १९५।
अणोर्वापि गुरोर्वापि पुण्यापुण्यस्य कर्मणः ।
ददातीह फलं ज्ञात्वा देशं कालं महेश्वरः १९६।
इत्थं विधिविधानज्ञां मायां ज्ञात्वेश्वरस्य च ।
न शोचंति न तप्यंति न व्यथंति महाधियः १९७।
नान्यथा शक्यते कर्तुं विपाकः पूर्वकर्मणाम् ।
उपायैः प्रज्ञया वापि शाखामृगसुरैरपि १९८।
पुरा त्वं भूपतिर्जातः पश्चाज्जातोऽसि नारकी ।
अधुना वानरो भूयो जन्म प्राप्स्यसि तादृशम् १९९।
इति मत्वा विशोकस्त्वं शाखामृग यथासुखम् ।
प्रतीक्षां कुरु कालस्य रममाणोऽत्र कानने 6.129.२००।
अहमप्येवमीशान मायाबद्धो वने वने ।
क्षपयिष्यामि वै जन्म धैर्यमास्थाय सारसम् २०१।
वानर उवाच।
मया त्वं पूजितः पूर्वं नौमि त्वामधुनाप्यहम् ।
जातिस्मरोऽसि जानामि सर्वं मत्पूर्वदैहिकम् २०२।
तिष्ठ सारस सारस्या शिवमस्तु सदा तव ।
त्वद्वाक्याद्गतमोहोऽहं विचरिष्यामि सर्वदा २०३।
प्रेत उवाच।
इमं रम्यं विचित्रं च पावनं परमं द्विज ।
पक्षिवानरसंवादं श्रुतं यावन्नदीतटे २०४।
तावन्ममापि बोधोऽभूत्तेन शोकः क्षयं गतः ।
इदानीं जाह्नवीतोयमाहात्म्यं परमाद्भुतम् २०५।
दृष्ट्वात्र ब्राह्मणश्रेष्ठ त्वां याचे जाह्नवीजलम् ।
प्रेतत्वात्तर्तुकामोऽहं तीव्रा तृष्णा प्रपीडितः २०६।
अस्मिन्नेवाचले दृष्टं मयाश्चर्यं च वै द्विज ।
गंगातोयस्य तावद्धि पातुमिच्छामि तज्जलम् २०७।
पारियात्रोद्भवः कोऽपि ब्राह्मणो ग्रामयाजकः ।
अयाज्ययाजनाद्विंध्ये संभूतो ब्रह्मराक्षसः २०८।
अस्मत्संगस्य लोभे स्थितोऽसौ हायनाष्टकम् ।
तस्यास्थीनि सुपुत्रेण संचितानि द्विजोत्तम २०९।
क्षिप्तान्यानीय गंगायां तीर्थे कनखलेऽमले ।
तत्क्षणादेव मुक्तोऽसौ राक्षसत्वात्सुदारुणात् २१०।
इति गंगाजलस्नान महिमा महदद्भुतम् ।
साक्षाद्दृष्टो मया तेन गांगेयं प्रार्थितं जलम् २११।
पुरस्ताद्यत्कृतस्तीर्थे मया भूरिपरिग्रहः ।
न कृतस्तु प्रतीकारस्तस्य जाप्यादिलक्षणः २१२।
तेन मे प्रेतरूपस्य दुर्लभोदकभोजनम् ।
सहस्रं यत्र वर्षाणामतीतं विंध्यपर्वते २१३।
इति ते कथितं सर्वं हित्वा लज्जां गरीयसीम् ।
इदानीं धार्मिकश्रेष्ठ जलदानेन सत्वरम् २१४।
संतर्पय मम प्राणान्कंठमात्रावलंबितान् ।
दुर्लभं प्रेतभावेऽपि जीवितं प्राणिनामिह २१५।
शरीरं रक्षणीयं हि सर्वथा सर्वदा नरैः ।
नहीच्छंति तनुत्यागमपि कुष्ठादि रोगिणः २१६।
देवद्युतिरुवाच।
इति तद्वचनं श्रुत्वा विस्मयं परमं गतः ।
पथिकश्चिंतयामास कृपां प्रेते समुद्वहन् २१७।
पापपुण्यफलं लोके प्रत्यक्षं दृश्यते खलु ।
देवदानवमानुष्यं तिर्यक्त्वं क्रिमिकीटकम् २१८।
नानायोनिषु जन्मानि नानाव्याधिप्रपीडनम् ।
मरणं बालवृद्धानामंधत्वं कुब्जता तथा २१९।
ऐश्वर्यं च दरिद्रत्वं पांडित्यं मूर्खता तथा ।
एताश्च रचना लोके भवंति कथमन्यथा २२०।
ते धन्याः कर्मभूमौ ये न्यायमार्गार्जितं धनम् ।
सत्पात्रेभ्यः प्रयच्छंति कुर्वंति चात्मनो हितम् २२१।
भूमिरत्नहिरण्यानि गावो धान्यं गृहं गजाः ।
रथाश्ववसनग्रामाः सिद्धमन्नं फलं जलम् २२२।
कन्या दिव्यौषधमन्नं छत्रोपानद्वरासनम् ।
शय्या तांबूल माल्यानि तालवृंतं वरासनम् २२३।
सर्वमेतत्प्रदातव्यं लोकत्रयजिगीषुभिः ।
दत्तं हि प्राप्यते स्वर्गे दत्तमेव हि भुज्यते २२४।
छत्रचामरयानानि वराश्ववरवारणाः ।
हर्म्याणि वरशय्याश्च गोमहिष्यो वरस्त्रियः २२५।
अन्नभूषणमुक्ताश्च पुत्रा दास्यो महाकुलम् ।
आयुरारोग्यमैश्वर्यं कला विद्यासु कौशलम् २२६।
दानस्यैव फलं सर्वं प्राप्यते भुवि मानवैः ।
तस्माद्देयं प्रयत्नेन नादत्तमुपतिष्ठति २२७।
धर्मिष्ठेन तु पांथेन गाथेयं समगायत ।
इति श्रुत्वा पुनः प्रेतः प्रोवाच ह्यार्तमानसः २२८।
मन्ये धर्मज्ञकल्पोऽसि पांथ त्वं नात्र संशयः ।
देहि मे जीवनं वारि चातकाय घनो यथा २२९।
एतस्मिन्प्राणदाने हि मा विलंबं कृथा बहु ।
ततः प्रत्याह पांथस्तु वचनं न्यायगर्भितम् २३०।
भृगुक्षेत्रे शृणु प्रेत पितरौ मम तिष्ठतः ।
तदर्थं तीर्थराजस्य मया वारि समाहृतम् २३१।
तत्सितासितपानीयं मध्ये च प्रार्थितं त्वया ।
न जाने धर्मसंदेहः किमत्र मम युज्यते २३२।
बलाबलं विचारार्थं करिष्ये प्रबलं विधिम् ।
वेदेभ्यो धर्मशास्त्रेभ्यो नाहं मानेन केवलम् २३३।
हयमेधादि यज्ञेभ्यः सर्वेभ्योप्यधिकं मतम् ।
ऋषिभिर्देवताभिश्च प्राणिनां प्राणरक्षणम् २३४।
इति दत्त्वा वरं वारि कृत्त्वा प्रेतस्य रक्षणम् ।
पित्रर्थं पुनरादाय जलं नेष्यामि पावनम् २३५।
एष मे प्रबलो भाति शुद्धधर्मप्रदो विधिः ।
परोपकरणादन्यत्सर्वमल्पं स्मृतं बुधैः २३६।
परोपकारिभिर्दत्ता अपि प्राणा नृभिर्मुदा ।
अद्भिः परोपकारः स्यात्किं न लब्धं मया पुनः २३७।
दधीचिना पुरा गीतः श्लोकोऽयं श्रूयते भुवि ।
सर्वधर्ममयः सारः सर्वधर्मज्ञसंमतः २३८।
परोपकारः कर्तव्यः प्राणैरपि धनैरपि ।
परोपकारजं पुण्यं तुल्यं क्रतुशतैरपि २३९।
इत्युक्त्वा प्रददौ तोयं गंगायामुनसंभवम् ।
प्रेताय प्राणरक्षार्थं स धर्मिष्ठो वरो द्विजः २४०।
प्रेतः प्रीतो जलं पीत्वा ह्यभिषिच्य शिरस्तथा ।
प्रजहौ प्रेतदेहं तं दिव्यदेहोऽभवत्क्षणात् २४१।
तदाश्चर्यं महद्दृष्ट्वा निजगाद स केरलः ।
अहो विमुक्तः प्रेतत्वाद्वेणीपानीयबिंदुभिः २४२।
ब्रह्मापि नैव शक्नोति मन्ये वक्तुमपां गुणम् ।
गङ्गातोयं महादेवो धत्ते के कथमन्यथा २४३।
अचिंत्यशक्तिगंगांभस्तिलमात्रं तु यः पिबेत् ।
देवो भवेत्स सिद्धो वा गर्भे नैव च संविशेत् २४४।
न गंगा सदृशी सिद्धिर्न गंगा सदृशी मतिः ।
न गंगासदृशी मुक्तिर्गंगा सर्वाधिका यतः २४५।
तस्मात्सर्वप्रयत्नेन महाभक्त्या च धार्मिक ।
करस्थं तस्य कैवल्यं योगं गां सेवते सदा २४६।
आयुष्मान्भव पांथत्वं मा धर्मविरतो भव ।
त्वयाऽहं तारितः सद्यो गंगांबुकणदानतः २४७।
इत्युक्त्वा प्रस्थितो नाकं पिशाचस्तु स केरलः ।
आशीर्भिरभिनंद्याथ पांथं बंधुवरं नरम् २४८।
प्रेतं विमोक्ष्य पांथोऽपि पुनरादाय तज्जलम् ।
गतस्तेनैव मार्गेण स्मरंस्तीर्थोदकौतुकम् २४९।
वसिष्ठ उवाच।
इत्थं प्रयागमाहात्म्यं श्रुत्वा नत्वा च तं मुनिम् ।
प्रयागं सहसा माघे पिशाचः सत्वरं गतः 6.129.२५०।
स्नात्वा सितासिते सोऽपि माघमासे द्विजोत्तम ।
पिशाचः क्षीणपापस्तु पैशाचीं विजहौ तनुम् २५१।
दिव्यदेहस्ततो भूत्वा द्राविडो भूपतिस्तदा ।
स्तुवन्नारायणं देवं भक्त्या दोषविवर्जितः २५२।
गंधर्वैः स्तूयमानस्तु नाकनारीसुपूजितः ।
उत्तमेन विमानेन पुरंदरपुरं ययौ २५३।
इति ते कथितं विप्र पूर्ववृत्तं सकौतुकम् ।
इतिहासं द्विजश्रेष्ठ सद्यः पातकनाशनम् २५४।
ज्ञानदं मोक्षदं विप्र श्रुतं दुर्गतिनाशनम् ।
इति ते कथितं सर्वं पुरावृत्तं सकौतुकम् २५५।
इतिहासं द्विजश्रेष्ठ श्रुतं दुर्गतिनाशनम् ।
अधुना तु मया सार्धमिमाः कन्याः सुतश्च ते २५६।
त्वं चायातु प्रयागं वै सर्वे सद्गतिमीप्सवः ।
माघस्नानं प्रकुर्मोऽत्र देवानामपि दुर्लभम् २५७।
तत्र मोक्ष्यंति पैशाच्यं सद्यः पापसमुद्भवम् २५८।
महेश उवाच।
एवं वसिष्ठवक्त्राब्जकथामधुरसंमुदा ।
पीत्वा प्रमुदिताः सर्वे निस्तीर्णा नरकार्णवात् २५९।
प्रस्थितास्तेन सार्धं ते सत्वरं व्योम्नि हर्षिताः ।
दिलीप शृणु तत्सर्वं तत्तीर्थं तु सितासितम् २६०।
सत्वरं व्योममार्गेण काममासाद्य दुःसहाः ।
समागम्य तदा तत्र संहृष्टहृदयाश्च ते २६१।
अथोचे लोमशस्तत्र सदयं गगनांगणे ।
पश्यंतु श्रद्धया सर्वे तीर्थराजमिमं भुवि २६२।
विना ज्ञानं प्रयागेऽस्मिन्मुच्यंते सर्वजंतवः ।
इष्ट्वात्रैव महायज्ञं स्रष्टुकामः प्रजापतिः २६३।
अवाप सृष्टिसामर्थ्यं ततः सृष्टिं चकार सः ।
अत्र नारायणः सस्नौ पत्नीकामः सितासिते २६४।
अतः स लब्धवान्लक्ष्मीं भार्याममृतमंथने ।
उषित्वा चात्र षण्मासं स्नात्वा वेण्यां यथेच्छया २६५।
त्रिपुरं घातयामास त्रिबाणेन त्रिशूलभृत् ।
इमानि त्रीणि कुंडानि दीप्तान्यजस्रवह्निभिः २६६।
एष तृप्तिं गतो वह्निर्यः केनापि च पुष्यति ।
अत्र देवास्त्रयस्त्रिंशत्तृप्ता मुमुदिरे भृशम् २६७।
आविर्भूतो महेशोऽत्र नीलकंठः कपालभृत् ।
अनिशंस सुरैः सेव्य आयातोंजलये बटुः २६८।
मृकंडसूनुना कल्पे प्रविश्य यन्मुखे स्थितम् ।
लोके ज्वालाकुले सोऽयं योगरूपी जनार्दनः २६९।
सेयं भागीरथी शंभोः सर्वदुःखापहारिणी ।
सिद्ध्यर्थं सेव्यते सिद्धैर्भुक्तिमुक्तिफलप्रदा २७०।
अनिशं भूतिदा या च स्वर्गमार्गे ह्यनुत्तमा ।
स्वर्गहेतुश्च या देवी सेयं भागीरथी नदी २७१।
यदंभः स्नानमात्रेण विकर्तन सलोकताम् ।
लभंते प्राणिनः सर्वे नदी सा यमुना स्वयम् २७२।
अनयोः पुण्यनद्योश्च संगमः सुखदो मुने ।
अत्र स्नाता न पच्यंते नरके ज्ञानभाविताः २७३।
विना ज्ञानं प्रयागेऽस्मिन्मुच्यंते सर्वजंतवः ।
अन्यच्च श्रूयतां विप्र इतिहासं पुरातनम् २७४।
शृण्वतां सर्वपापघ्नं सर्वरोगविनाशनम् ।
ऋचीकेन पुरा शप्तो गंधर्वो वायसोऽभवत् २७५।
शापं मुमोच सोऽत्रैव स्नातः सद्यः सितासिते ।
वासवस्य तु शापेन स्वर्गाद्भ्रष्टाप्सरोर्वशी २७६।
स्वर्गकामा च सा सस्नौ लेभे स्वर्गं ततोचिरात् ।
पुत्रं च शंकरं लेभे ययातिर्नाहुषो मुने २७७।
पुत्रकामः प्रयागे हि स्नात्वा पुण्ये सितासिते ।
धनकामः पुरा शक्रः सुस्नातोऽत्र द्विजोत्तम २७८।
धनदस्य निधीन्सर्वाञ्जहार स च मायया ।
कश्यपोऽत्र तपस्तेपे शिवाराधनतत्परः २७९।
अस्मिंस्तीर्थे भरद्वाजो योगसिद्धिमवाप्तवान् ।
अस्मिंस्तीर्थे पुरा विप्र योगेशाः शांतमानसाः २८०।
योगस्य फलभूमिं तु लेभिरे सनकादयः ।
अस्मिन्माघे तु ये स्नाता गंगायामुनसंगमे २८१।
तारारूपाश्च ते सर्वे तैर्व्याप्तं सकलं जगत् ।
विंदंति कामिनः कामान्मुक्तिं यांति मुमुक्षवः २८२।
विंदंति साधकाः सिद्धिं प्रयागे हि द्विजोत्तम ।
सांप्रतं मुक्तिकामास्तु कन्याश्चापि सुतश्च ते २८३।
मद्वाक्यादत्र मज्जंतु सर्वे त्वं च सितासिते ।
प्राक्कालीनाघविध्वंसि वेणीजलबलेन तु २८४।
लभंतामखिलं लक्ष्मीं प्राप्तशापमहाफलाम् ।
एवमार्षवचः सत्यमतींद्रियमलंघनम् २८५।
श्रुत्वा चोत्कंठचित्तास्तेसर्वे स्नानाय चोद्यताः ।
प्रयागं प्राप्य दुष्प्राप्यं पैशाच्यं विजहुः क्षणात् २८६।
विमुक्ताः शापदुःखेन तनुं स्वां स्वां च लेभिरे ।
दृष्ट्वा वेदनिधिः पुत्रं ताः कन्या दिव्यरूपिणीः २८७।
तुष्टाव लोमशं प्रीत्या प्रसन्नेनांतरात्मना ।
त्वदनुग्रहमात्रेणोत्तीर्णः पापमहार्णवः २८८।
इदानीमुचितं ब्रूहि बालानामृषिसत्तम ।
लोमश उवाच।
कुमारोधीतवेदोऽयं समाप्तनियमो युवा २८९।
आसां तु सानुरागाणां गृह्णातु करपंकजम् ।
ततो लोमशवाक्येन स्वपितुर्वचनात्तदा २९०।
विवाहविधिना चाशु ब्रह्मचारी स धार्मिकः ।
शुभद्रव्यैश्च मंत्रैश्च ऋषिभिः कृतमंगलः २९१।
पंचानामपि कन्यानां पाणिं जग्राह धर्मतः ।
आनंदिन्यस्तदा सर्वाः कन्याः पूर्णमनोरथाः २९२।
बभूवुः स कुमारश्च संतुष्टश्च बभूव ह ।
दत्त्वानुज्ञां मुनिः सोऽथ लोमशस्तैर्नमस्कृतः २९३।
जगाम स्वाश्रमं मेरुं पर्वतं सुरसेवितम् ।
ततो वेदनिधी राजन्स्नुषाः पंचसुतं तथा ।
पुरस्कृत्य मुदायुक्तो धनदस्य पुरं ययौ २९४।
इति नृपवरमाघे स्नानसंजातपुण्यान्मुनिवरवचसा द्राक्तीर्थराजप्रयागे ।
सकलकलुषमुक्ताः पंच गंधर्वकन्या अलमभिगतलाभात्प्राप्य तर्षं च जग्मुः २९५।
परमिममितिहासं पावनं तीर्थभूतं वृजिनविलयहेतुं यः शृणोतीह नित्यम् ।
स भवति खलु पूर्णः सर्वकामैरभीष्टैर्व्रजति च सुरलोके दुर्लभो धर्मयुक्तः २९६।
इतिहासमिमं श्रुत्वा पूजयेद्यस्तु पाठकम् ।
गोभिर्हिरण्यवस्त्रैश्च ब्रह्मतुल्यो यतो हि सः २९७।
वाचके पूजिते यस्माद्विष्णुर्भवति पूजितः ।
तस्मात्प्रपूजयेन्नित्यं यदीच्छेत्सफलं भवम् २९८।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे माघमाहात्म्ये वसिष्ठदिलीपसंवादे गंधर्वकन्यापरिणयोनामैकोनत्रिंशाधिकशततमोऽध्यायः।
१२९।