← अध्यायः १२९ पद्मपुराणम्
अध्यायः १३०
वेदव्यासः
अध्यायः १३१ →

पार्वत्युवाच
श्रुतं कार्तिकमाहात्म्यं माघस्य च मया विभो
अधुना श्रोतुमिच्छामि मुक्तिदं कर्म चोत्तमम् १
श्रेष्ठा भक्तिस्तु का प्रोक्ता वद विश्वेश्वर प्रभो
येन विज्ञानमात्रेण नराः सुखमवाप्नुयुः २
महादेव उवाच
तल्लीनचित्तः स पुमान्सा भक्तिः परमा मता
दयाधर्मपरो नित्यं विष्णुधर्मेषु तत्परः ३
फलमूलजलाहारी शंखचक्रप्रधारकः
त्रिकालं पूजयेद्विष्णुं सा भक्तिः सात्विकी मता ४
उत्तमा सात्विकी प्रोक्ता राजसी चैव मध्यमा
कनिष्ठा तामसी चैव त्रिविधा भक्तिरुच्यते ५
श्रीधरे तु प्रकर्त्तव्या मुक्तिकामफलेप्सुभिः
अहंकारेण रूपेण दंभमात्सर्यमायया ६
ये कुर्वंति जना भक्तिं तामसी सा उदाहृता
परस्योत्सादनार्थं वा दंभमुद्दिश्यवाऽथवा ७
या भक्तिः क्रियते देवे तामसी सा प्रकीर्तिता
विषयान्प्रतिसंधाय यश ऐश्वर्यमेव वा ८
अर्चादावर्चयेद्यो मां पृथग्भावः स राजसः
कर्मक्षयार्थे कर्त्तव्या ब्राह्मणैर्ज्ञानतत्परैः ९
विष्णौ ह्यात्मार्पणीं बुद्धिं सा भक्तिः सात्विकी मता
अतो वै सर्वथा देवि संसेव्यः सर्वदा हरिः १०
तामसेन तु भावेन तामसत्वं हि लभ्यते
राजसो राजसेनैव सात्विकेन तु सात्विकः ११
वेदाध्यायरतः श्रीमान्रागद्वेषविवर्जितः
शंखचक्रधरो विप्रः सर्वदा शुचिरुच्यते १२
कर्मकांडे प्रवृत्तो यः सर्वदा विष्णुनिंदकः
निंदकस्तज्जनानां च महाचंडाल उच्यते १३
वेदाध्यायरता नित्यं नित्यं वै यज्ञयाजकाः
अग्निहोत्ररता नित्यं विष्णुधर्मपराङ्मुखाः
निंदंति विष्णुधर्मांश्च वेदबाह्याः सुरेश्वरि १४
कुर्वंति शांतिं विबुधाः प्रहृष्टाः क्षेमं प्रकुर्वंति पितामहाद्याः
स्वस्ति प्रयच्छंति मुनींद्रमुख्या गोविंदभक्तिं वहतां नराणाम् १५
शुभा ग्रहा भूतपिशाचयुक्ता ब्रह्मादयो देवगणाः प्रसन्नाः
लक्ष्मी स्थिरा तिष्ठति मंदिरे च गोविंदभक्तिं वहतां नराणाम् १६
गंगा गया नैमिषपुष्कराणि काशी प्रयागं कुरुजांगलानि
तिष्ठंति देहे कृतभक्तिपूर्वं गोविंदभक्तिं वहतां नराणाम् १७
एवमाराधयेद्विद्वान्भगवंतं श्रिया सह
कृतकृत्यो भवेन्नित्यं स विप्रो नात्र संशयः १८
क्षत्रियो वाथ वैश्यो वा शूद्रो वासुरसत्तमे
भक्तिं कुर्वन्विशेषेण मुक्तिं याति स वै नरः १९
इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे विष्णु
भक्तिमहिमावर्णनंनाम त्रिंशाधिकशततमोऽध्यायः १३०