पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः १३९

← अध्यायः १३८ पद्मपुराणम्
अध्यायः १३९
वेदव्यासः
अध्यायः १४० →

महादेव उवाच।
साभ्रमत्युत्तरे कूले अग्नितीर्थमिति श्रुतम् ।
तस्याश्चोत्तरपूर्वेण नातिदूरे कृतास्पदम् १।
तीर्थं पालेश्वरं नाम चंडी यत्र प्रतिष्ठिता ।
पीठं तद्योगमातॄणां सर्वसिद्धिविधायकम् २।
यत्र ताः सर्वदेवानां कार्यार्थे मातरः स्थिताः ।
परमं यत्नमास्थाय लोकानुग्रहकारणात् ३।
त्रिरात्रमुषितो भूत्वा तस्मिंस्तीर्थे दृढव्रतः ।
अभिगच्छेत्तमीशानं देवेशं चंडिकेश्वरम् ४।
साभ्रमत्यां कृतस्नानो मातृतीर्थस्य संनिधौ ।
समाधिविधिना युक्तो गच्छेद्वै मातृमंडलम् ५।
गोसहस्रप्रदानस्य फलं प्राप्नोति मानवः ।
अग्नितीर्थे नरः स्नात्वा चामुंडादर्शने कृते ६।
न भयं जायते तस्य रक्षोभूतपिशाचजम् ।
गोखुरा च नदी यत्र साभ्रमत्यां तु संगता ७।
तत्र तीर्थसहस्राणि तिष्ठंतीति सुरेश्वरि ।
श्राद्धं तत्र प्रकर्त्तव्यं तिलचूर्णेन पार्वति ८।
पिंडान्दत्त्वा द्विजान्भोज्य अक्षयं पदमाप्नुयात् ।
यत्र कुकर्दमो राजा पापिष्ठो दुर्द्धरः खलः ९।
मूढोऽहंकारसंयुक्तो द्विजानां परिनिंदकः ।
गोघ्नोऽपि बलहा चैव पापिष्ठो दुर्दमः सदा १०।
राज्यं च कुर्वतस्तस्य पुरे पिंडारसंज्ञके ।
तदा मृत्तिः समापन्ना धर्मे योगे सुरेश्वरि ११।
मृतोऽसौ तत्र संजातः प्रेतरूपो महेश्वरि ।
पीतास्यः शुष्कतुंडश्च पीतरोमाऽथ कर्कशः १२।
उच्चस्तरो बहुरोमा क्षुत्पिपासाप्रपीडितः ।
वायुभक्षं प्रकुर्वाणः प्रगच्छति इतस्ततः १३।
बहुप्रेतैः समायुक्तो हाहेति करुणो रुदन् ।
किं कर्तव्यमिति प्राहुः प्रेतास्ते वै समीपगाः १४।
तेऽपि तदा रोदमानाः क्षुत्पिपासादि पीडिताः ।
अन्ये प्रेता दुरात्मानो राज्ञः संगतिमाययुः १५।
राज्ञा सार्द्धं च गच्छंति लोकान्विजनकान्बहून् ।
नोदकमथवा चान्नं न मार्गे दृश्यते कदा १६।
ते प्रेता दुष्टरूपाश्च विचरंति महीतले ।
भक्षंति शवमांसानि पिबंति रुधिरं सदा १७।
एवं कुकर्दमो राजा सदा तैः परिवारितः ।
कदाचिद्दैवयोगेन गुरोराश्रममन्वगात् १८।
पूर्वजन्मकृतं पुण्यं तेन योगेन संगतः ।
पार्वत्युवाच।
किं कृतं तेन वै पुण्यं वद विश्वेश्वर प्रभो १९।
अयं पापी दुरात्मा च ब्राह्मणानां च दुःखदः ।
सत्संगतिः कथं जाता तन्मे दुस्तरतो वद २०।
महादेव उवाच।
एतेन नरदेवेन पूर्वजन्मनि यत्कृतम् ।
तत्सर्वं कथयिष्यामि शृणु त्वं नगनंदिनि २१।
पूर्वजन्मन्ययं देवि ब्राह्मणो वेदपाठकः ।
संपूज्य च महादेवं कृत्वा चातिथिपूजनम् २२।
भोजनं कुरुते नित्यमसौ वाडवसत्तमः ।
तेन पुण्यप्रभावेन पुरो पिंडारसंज्ञके २३।
राजा वै तत्र संजातः कुकर्दम इति श्रुतः ।
कर्मणा मनसा चैव न कृतं पुण्यमेव च २४।
तेन देवाभियोगेन मृतो वै प्रेतराडभूत् ।
शुष्कास्यः शुष्करूपश्च पीतवर्णः करालकः २५।
पूर्वजन्मकृतं पुण्यं न नश्यति सुरेश्वरि ।
तेन पुण्याभियोगेन संगतो गुरुणाश्रमे २६।
कहोडो वर्तते तत्र तेन दृष्टोऽथ प्रेतराट् ।
शुष्कास्यः शुष्करूपश्च पीतवर्णः करालकः २७।
गंभीराक्षो महापापी दुष्टैः प्रेतैश्च संयुतः ।
ऊर्द्ध्वरोमा जटायुक्तः कालरूपो भयंकरः २८।
एवं दृष्ट्वा तदा देवि विह्वलो वाडवोऽभवत् ।
कहोड उवाच।
अस्मिन्मनोरमे चाहं स्थाने वै परमाद्भुते २९।
अग्निपालेश्वरे तीर्थे नित्यं तिष्ठामि भूमिप ।
यजमानस्त्वमस्माकं कथं जातोऽसि प्रेतराट् ३०।
दुरात्मा दुष्टरूपश्च कालरूपो भयंकरः ।
केन कर्मविपाकेन जातो वै भूतले शुभे ३१।
प्रेत उवाच।
शृणु वाडव मे पापं पूर्वजन्मनि यत्कृतम् ।
अहं कुकर्दमो राजा पुरे पिंडारसंज्ञके ३२।
तत्रस्थेन मया देव यत्कृतं तच्छृणुष्व हि ।
ब्रह्मणां हिंसनं चैव पुराऽसत्यादिभाषणम् ३३।
प्रजानां पीडनं चैव जीवानां हिंसनं सदा ।
गवां वै दुःखकर्ताऽहं ब्राह्मणव्रतलोपनः ३४।
अस्नातः सर्वदा विप्र सज्जनानां विदूषकः ।
विष्णुनिंदापरो नित्यं वैष्णवानां च निंदकः ३५।
दुराचारो दुरात्मा च वृषलीसंयुतः सदा ।
तत्र तत्र प्रभुंजानो नाऽहं शौचपरायणः ३६।
तेन कर्माभियोगेन मृतो वै द्विजराट्ततः ।
प्रेतयोनिं प्रपन्नोऽस्मि दुःखी जातो ह्यनेकधा ३७।
यस्य माता पिता नास्ति यस्य स्वजनबांधवाः ।
तस्य बंधुर्गुरुर्माता पितापि गुरुरेव च ३८।
इति ज्ञात्वा तु भो ब्रह्मन्मुक्तिं दातुं त्वमर्हसि ३९।
कहोड उवाच।
शृणु त्वं नृपतिश्रेष्ठ करिष्ये वचनं तव ।
मुक्तिं यास्यति वै सद्यो भवांस्त्विह न संशयः ४०।
एकादश पुरोगाश्च प्रेता ये तव संगताः ।
ते चापि मुक्तिमायांति सुतीर्थेऽस्मिन्विशेषतः ४१।
तदा वै तेन विप्रेण तीर्थे गत्वा सुरेश्वरि ।
सर्वैश्चकारयामास तिलपिंडोदकक्रियाः ४२।
न मासो न तिथिर्देवी तीर्थे गत्वा पुनः पुनः ।
कर्त्तव्यं श्राद्धकर्मादि ब्रह्मणोक्तं पुरा मम ४३।
कृते कर्मणि देवेशि मुक्तास्ते तीर्थराजके ।
विमानवरमारूढास्ते गता मामकीं पुरीम् ४४।
संगता गोखुरा यत्र साभ्रमत्या सुरेश्वरि ।
तत्र स्नानं च दानं च कोटियज्ञफलं लभेत् ४५।
यत्राग्नितीर्थं वर्तेत कपालेश्वरसंज्ञकम् ।
तत्र मुक्तिस्तु संप्रोक्ता सत्यं सत्यं भवेद्ध्रुवम् ४६।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमामहेश्वरसंवादे अग्निपालेश्वरमहिमानामैकोनचत्वारिंशत्यधिकशततमोऽध्यायः १३९।