← अध्यायः १३९ पद्मपुराणम्
अध्यायः १४०
वेदव्यासः
अध्यायः १४१ →

श्रीमहादेव उवाच
भो देव्यन्यत्प्रवक्ष्यामि हिरण्यासंगमं महत्
यदा साभ्रमती गंगा सप्तस्रोता पुराभवत् १
तदा सा ब्रह्मतनया सप्तस्रोतेति विश्रुता
सप्तमं तद्धिरण्याख्यं स्रोत इत्यभिधीयते २
तस्मिंस्तीर्थे नरः स्नात्वा पापी गतिमवाप्नुयात्
ऋक्षुमंजुमयोर्मध्ये सत्यवान्नाम पर्वतः ३
तस्य प्राक्सुमहत्तीर्थं हिरण्यासंगमं शुभम्
तत्र स्नात्वा च पीत्वा च शुभां गतिमवाप्नुयात् ४
वनस्थल्यां ततो गच्छेद्दृष्ट्वा नारायणं हरिम्
तीर्थमप्सरसां पुण्यं हिरण्यासंगमेश्वरम् ५
यत्रोर्वशी पुरा जाता समस्ताप्सरसां शुभा
नरनारायणौ तत्र तपस्तेपतुरुत्तमम् ६
हिरण्यासंगमे रम्ये महापापहरे शुभे
यत्र वै ऋषयः सर्वे मज्जंति वीतकल्मषाः ७
वसिष्ठाद्याश्च ये विप्रा वालखिल्यादयश्च ये
यत्र मज्जंति देवेशि हिरण्या सह संगमे ८
यत्र हिरण्मयं रूपं स्नानाद्वै भवति ध्रुवम्
कपिलागोसहस्रस्य दानेनैव तु यत्फलम् ९
तत्फलं समवाप्नोति हिरण्यासंगमे सदा
दशाश्वमेधे यत्पुण्यं ग्रहणे चंद्रसूर्ययोः १०
तदनंतगुणं प्रोक्तं हिरण्यासंगमे पुनः
तुलापुरुषदाने च यत्फलं समवाप्नुयात् ११
तत्फलं समवाप्नोति हिरण्यासंगमे सदा
हिरण्याक्षो महादैत्यस्तेन तप्तं महत्तपः १२
हिरण्यसदृशं तत्र शरीरमभवत्पुरा
जनमेजये तथा राज्ञि यत्र स्नानं प्रकुर्वति १३
ब्रह्महत्या गता देवि हिरण्यासंगमे तदा
विश्वामित्रोऽथ राजर्षिः स्नानार्थं वै समागतः १४
स्नानं कृत्वा विशेषेण गतोऽसौ मामकीं पुरीम् १५
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चाथ सुरेश्वरि
स्नानं येऽत्र प्रकुर्वंति ते गच्छंति शिवालयम् १६
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमामहेश्वरसंवादे हिरण्यासंगमं तीर्थं नाम चत्वारिंशदधिकशततमोऽध्यायः १४०