पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः १४१

← अध्यायः १४० पद्मपुराणम्
अध्यायः १४१
वेदव्यासः
अध्यायः १४२ →

महादेव उवाच।
ततो देवि प्रवक्ष्यामि हिरण्यासंगमादनु ।
धर्मावती नदी यत्र संगता सह गंगया १।
तत्र स्नात्वा नरो धन्यस्त्रिदिवं यात्यसंशयम् ।
यत्र धर्मकृतं तीर्थं यः पश्यति स पुण्यभाक् २।
श्राद्धं तत्रैव ये कुर्युर्मुच्यंते पितृजादृणात् ।
ततश्च मधुरातीर्थं सर्वपापप्रणाशनम् ३।
स्नातव्यं मधुरातीर्थे द्रष्टव्यो मधुहा हरिः ।
यत्र विश्रांतवान्कृष्णो जरासंधभयाकुलः ४।
कंसासुरवधे वृत्ते गंतुकामः कुशस्थलीम् ।
उषित्वा सप्तरात्रं तु स देवश्चंदनातटे ५।
भोजवृष्ण्यंधकवृतो वीरैर्यादवपुंगवैः ।
मधुरातीर्थमासाद्य स्नानं कृत्वा विधानतः ६।
मधुरादित्यनामानं यत्र स्थापितवान्हरिः ।
अष्टादशसहस्राणि विप्राणां यज्ञशालिनाम् ७।
स्थापयित्वा ययौ दत्त्वा यानानि विविधानि च ।
तत्र तीर्थसहस्राणि तिष्ठंति च सुरेश्वरि ८।
श्राद्धं तत्र प्रकर्तव्यं पितॄणां हितकाम्यया ।
न भेतव्यं जरासंधान्मत्तीर्थे वसतां सदा ९।
इत्युक्त्वा तान्द्विजान्कृष्णः प्रययौ द्वारकां प्रति ।
तस्मिंस्तीर्थे नरः स्नात्वा मधुरार्कं प्रपूजयेत् १०।
माघस्य शुक्लसप्तम्यां कपिला गो प्रदानतः ।
चिरं सौख्यानि भुंक्त्वेह पदमादित्यमा व्रजेत् ११।
शृणु सुन्दरि वक्ष्यामि इतिहासं पुरातनम् ।
यं श्रुत्वा मुच्यते लोको ब्रह्महत्यादि पातकात् १२।
एकस्मिन्समये देवि मांडव्यो ऋषिसत्तमः ।
गङ्गाद्वारे महापुण्यं तप्तवांस्तु महत्तपः १३।
पत्राशी च फलाशी च वायुभक्षकरः सदा ।
अहोरात्रं सदा देवि विष्णुध्यानपरायणः १४।
योगाभ्यासरतो नित्यं नित्यं धर्मपरायणः ।
तस्मिन्देशे तु वै देवि राजा वै विश्वमोहनः १५।
गजाश्वरथपत्तीनां संपदो बहुला भुवि ।
सोमचंद्रेति विख्यातः पुत्रस्तस्य सुलक्षणः १६।
एकदा तु तदा देवि गतो ह्याखेटके वने ।
तत्र गत्वा तदा तेन कृत्वा ह्याखेटकक्रियाः १७।
स्वात्मानं रमयामास स्वलोकैः परिवारितः ।
क्रीडारते तदा राज्ञि रात्रिर्जाता सुरेश्वरि १८।
तस्यां रात्रौ तदा राजा उवासाखेटके वने ।
तस्यां रात्र्यां व्यतीतायां मुहूर्ते ब्रह्मसंज्ञके १९।
हृतोऽश्वोऽथ विशेषेण चौरेणात्र दुरात्मना ।
तदा हाहेति शब्दोऽभूत्क्व गतः क्व गतो हरिः २०।
तदा राज्ञो भयात्सर्वे गंतुकामाः समुत्सुकाः ।
चौरेणापहृतश्चाश्व इत्येवं संवदंति हि २१।
निरीक्ष्यमाणास्ते सर्वे हरिद्वारं समागताः ।
ऋषिस्तत्र तु मांडव्यस्तपस्तपति नित्यशः २२।
ध्यानेन च समायुक्तो दृष्टोऽसौ तैर्भटैस्तदा ।
अयं चौरः सदा पापी ध्यानं कृत्वा प्रतिष्ठति २३।
बद्ध्वाश्वं तु समायातो ज्ञात्वा राजभटैस्तदा ।
एवं विचार्य ते सर्वे गृहीत्वा तं महामुनिम् २४।
राज्ञे निवेदयामासुस्तं चौरं मुनिसत्तमम् ।
अश्वापहारी ह्यानीतश्चौरोऽयं नृप सर्वदा २५।
आज्ञा दत्ता तदा तेन शूलिकारोपणे पुनः ।
तदा तैस्तुभटैः सर्वैर्मिलित्वा बंधनं कृतम् २६।
पश्चाद्वै शूलिकाप्रोतस्तत्क्षणात्तु कृतस्तदा ।
न ज्ञातं तेन तत्कर्म शूलिकायाः प्रतोदनम् २७।
यतो योगसमारूढो विष्णुध्यानपरायणः ।
शूलिकाप्रोतनं ज्ञातं कतिचित्कालयोगतः २८।
मांडव्योऽहंमृषिश्रेष्ठः केन कर्म इदं कृतम् ।
त्रिकालज्ञानी सर्वज्ञो भगवांस्तद्व्यचिंतयत् २९।
धर्मस्य च इदं कर्म न चान्यस्य कदाचन ।
योगारूढः स धर्मात्मा गतोऽसौ धर्मसंनिधौ ३०।
तत्र गत्वा उवाचेदं शृणु त्वं धर्म सांप्रतम् ।
त्वं वै धर्म इति ख्यातो लोके वेदे च सर्वदा ३१।
शूलिकाप्रोतनं कर्म कथं चैव त्वया कृतम् ।
तत्सर्वं श्रोतुमिच्छामि त्वत्तो देव न संशयः ३२।
धर्म उवाच।
शृणुष्व त्वं द्विजश्रेष्ठ पूर्वजन्मनि पातकम् ।
तदहं कथयिष्यामि कृपां कुरु ममोपरि ३३।
बालत्वे तु इदं कर्म पूर्वजन्मजपातकम् ।
तच्छृणुष्व महाप्राज्ञ भवेऽस्मिन्पातनं कृतम् ३४।
एकस्मिन्समये विप्र त्वं गतो विजने वने ।
तत्र गत्वा त्वया विप्र जीवः शलभसंज्ञकः ३५।
आरोऽपितः स वै शूल्यां कर्मणा तेन दुःखितः ।
राज्ञा शूलेऽर्पितस्त्वं वै कर्मणानेन सुव्रत ३६।
सर्वथैव प्रभोक्तव्यं कृतं कर्म शुभाशुभम् ।
अल्पमात्रमिदं कर्म त्वया भुक्तं न संशयः ३७।
सुखी भवतु विप्रेंद्र गच्छ त्वं हि यथेच्छया ।
एतद्वाक्यं ततः श्रुत्वा मांडव्यो द्विजसत्तमः ३८।
उवाच वचनं तत्र सकोपादारुणेक्षणः ।
मांडव्य उवाच।
रे पापिष्ठ दुराचार किं कृतं बहुपातकम् ३९।
येन कृत्वा इदं कर्म शूलिकायाः प्रतोदनम् ।
ममवाक्यप्रकोपेन शूद्रस्त्वं भव सर्वथा ४०।
कियता कालयोगेन वंशे वै चंद्रसंज्ञके ।
जातो विदुरनामाख्यो विष्णुभक्तिपरायणः ४१।
तीर्थयात्रामिषेणैव गतः साभ्रमतीं नदीम् ।
यत्र धर्मावती संगो वर्त्तते च सुरेश्वरि ४२।
तत्र वै कृतवान्स्नानं विदुरो धर्मरूपवान् ।
त्यक्तं तत्र हि शूद्रत्वं धर्मावत्यां न संशयः ४३।
एतस्मात्कारणाद्देवि यत्र स्नानं प्रकुर्वते ।
ते नराः पुण्यकर्माणो गच्छंति परमं पदम् ४४।
अत्र श्राद्धं च दानं च ये कुर्वंति नरा भुवि ।
इहलोके परामृद्धिं प्राप्य तैर्दिविमुद्यते ४५।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमामहेश्वरसंवादे साभ्रमतीमाहात्म्ये मधुरादित्यमाहात्म्यंनामैकचत्वारिंशदधिक शततमोऽध्यायः १४१।