← अध्यायः १५७ पद्मपुराणम्
अध्यायः १५८
वेदव्यासः
अध्यायः १५९ →

महादेव उवाच
पिप्पलादात्ततस्तीर्थे पिचुमंदार्कमुत्तमम्
तीर्थं साभ्रमती तीरे व्याधिदौर्गंध्यनाशनम् १
पुरा कोलाहले युद्धे दानवैर्निर्जिताः सुराः
वृक्षेषु विविशुस्तत्र सूक्ष्माः प्राणपरीप्सया २
तत्र बिल्वे स्थितः शंभुरश्वत्थे हरिरव्ययः
शिरीषेऽभूत्सहस्राक्षो निंबे देवः प्रभाकरः ३
एवमादि यथायोग्यं वृक्षेषु विबुधास्तथा
यावत्कोलाहलो दैत्यो विष्णुना प्रभविष्णुना ४
हतो महाहवे तावत्स्थितास्ते वृक्षमाश्रिताः
येनयेन हि यो वृक्षो विबुधेन समाश्रितः ५
स तु तन्मयतां यातस्तस्मात्तं न विनाशयेत्
इति सूर्य्यस्य विश्रामात्पिचुमंदार्कमुत्तमम् ६
तीर्थंरोगहरं स्नानात्साभ्रमत्यास्तटेऽभवत्
अत्र गत्वा विशेषेण तं रविं यदि पूजयेत् ७
पूजयित्वा सुरश्रेष्ठे लभते वांछितं फलम्
अत्र द्वादशनामानि गत्वा ये वै पठंति च ८
ते नराः पुण्यकर्माणो यावज्जीवं न संशयः
आदित्यं भास्करं भानुं रविं विश्वप्रकाशकम् ९
तीक्ष्णांशुं चैव मार्तंडं सूर्यं चैव प्रभाकरम्
विभावसुं सहस्राक्षं तथा पूषणमेव च १०
एवं द्वादशनामानि यः पठेत्प्रयतः सुधीः
धनं वै पुत्रपौत्रांश्च लभते नगनंदिनि ११
एकैकं नाम आश्रित्य योऽर्चयेत नरो भुवि
सप्तजन्मभवेद्विप्रो धनाढ्यो वेदपरागः १२
क्षत्रियो लभते राज्यं वैश्यो धनमवाप्नुयात्
शूद्रो वै लभते भक्तिं तस्मात्सूक्तं परं जपेत् १३
निंबार्कतः परं तीर्थं न भूतं न भविष्यति
अत्र स्नात्वा च पीत्वा च मुक्तिभागी भवेद्ध्रुवम् १४
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायां उत्तरखंडे उमामहेश्वरसंवादे निंबार्कदेवतीर्थंनामाष्टपंचाशदधिक शततमोऽध्यायः १५८