पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः १५९

← अध्यायः १५८ पद्मपुराणम्
अध्यायः १५९
वेदव्यासः
अध्यायः १६० →

महादेव उवाच।
तस्माद्दूरतरे देवि सिद्धक्षेत्रमनुत्तमम् ।
अनिरुद्धो वृतः पूर्वं उषार्थे चित्रलेखया १।
नीतो बाणासुरपुरं तिष्ठति स्म गृहे पुरा ।
पाशैर्बाणैश्च संरुद्धः कोटराक्षीमथास्मरत् २।
साक्षाद्या वैष्णवी शक्तिः सदा रक्षण तत्परा ।
सेयं देवी नदीतीरे कृष्णेनात्र प्रतिष्ठिता ३।
जित्वा बाणासुरं संख्ये द्वारकां प्रतिगच्छता ।
अनिरुद्धस्य स्तोत्रेण साक्षात्सांनिध्यमागता ४।
तत्र तीर्थे नरः स्नात्वा वर्षमेकं प्रयत्नतः ।
कोटराक्षीमुखं दृष्ट्वा लक्ष्मीमाप्नोति पुष्कलाम् ५।
सिद्धतीर्थे नरः स्नात्वा दृष्ट्वा कोटरवासिनीम् ।
सिंहयुक्तेन यानेन रुद्रलोके महीयते ६।
यस्यां वै स्मरणादेव मुक्तः सोऽपि वरानने ।
अतोयेऽत्र प्रगच्छंति ते नरा मुक्तिभागिनः ७।
तत्र गत्वा विशेषेण स्नानं कृत्वा तु पार्वति ।
कोटराक्ष्यास्ततः स्तोत्रं पठेद्वै बुद्धिपूर्वकम् ८।
कोटराक्षी विश्वरूपा महामाया बलाधिका ।
त्रिपुरा त्रिपुरघ्नी च शिवा वै शिवरूपिणी ९।
कन्या सारस्वती प्रोक्ता दुर्गा दुर्गतिहारिणी ।
भैरवी भैरवाक्षी च लक्ष्मी देवी जनप्रिया १०।
एतानि बहुधोक्तानि नामानि च सुरेश्वरि ।
ये पठंति नरश्रेष्ठास्ते यांति शिवसन्निधौ ११।
अनिरुद्धकृतं स्तोत्रं ये जपंति मनीषिणः ।
मुच्यंते कष्टबंधात्ते सत्यंसत्यं वरानने १२।
तीर्थानां परमं तीर्थं कोटरानिर्मितं भुवि ।
दर्शनादेव नश्यंति पापानां राशयस्तथा १३।

इति श्रीपाद्मेमहापुराणे पंचपंचाशत्साहस्र्यां संहितायां उत्तरखंडे कोटरातीर्थं नामैकोनषष्ट्यधिकशततमोऽध्यायः १५९।