पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः १६१

← अध्यायः १६० पद्मपुराणम्
अध्यायः १६१
वेदव्यासः
अध्यायः १६२ →

महादेव उवाच।
सोमतीर्थं ततो गच्छेद्गुप्तं साभ्रमतीतटे ।
पातालात्तत्र निर्गत्य कालाग्निरभवद्भवः १।
सोमतीर्थे नरः स्नात्वा दृष्ट्वा सोमेश्वरं शिवम् ।
सोमपानफलं साक्षाद्भवतीति न संशयः २।
रूपवान्सुभगो भोगी सर्वशास्त्रविशारदः ।
नरो भवति लोकेऽस्मिन्परत्र च शिवं व्रजेत् ३।
अत्रेतिहासं वक्ष्यामि शृणु सुंदरि तत्वतः ।
यं श्रुत्वा मुच्यते चात्र ब्रह्महत्यादिपातकात् ४।
कौषीतकेन ऋषिणा तपस्तप्तं विशेषतः ।
निराहारी स वै जातः पर्णाशनरतः परम् ५।
वायुभक्षस्ततः कुर्वन्नात्मध्यानपरायणः ।
एवं बहुयुगं तत्र तप्तं तेन महत्तपः ६।
कदाचिद्दैवयोगेन सुप्रसन्नो महेश्वरः ।
यं यं प्रार्थयसे विप्र तत्सर्वं प्रददाम्यहम् ७।
कौषीतक उवाच।
तव प्रसादाद्देवेश अत्र लिंगं प्रजायताम् ।
अत्र सोमेश्वर इति ख्यातो देवो भवेद्ध्रुवम् ८।
यत्र स्नात्वा च भुक्त्वा च वांछितं फलमाप्नुयात् ।
अत्र स्थाने विशेषेण रुद्रजाप्यादिकं यदि ९।
कारयंति नरश्रेष्ठा धर्मानर्थाल्लँभंति ते ।
अपुत्रो लभते पुत्रं निर्धनो लभते धनम् १०।
राज्यकामी तु तद्राज्यं लभते नात्र संशयः ।
यदि चेत्त्वं प्रसन्नोऽसि तत्सर्वं देहि मे प्रभो ११।
ईश्वर उवाच।
तदा चैव सुरेशेन सर्वं दत्तं द्विजन्मने ।
तदा प्रभृति तत्तीर्थं सोमलिंगेति विश्रुतम् १२।
चंदनैर्वा बिल्वपत्रैयेऽर्चयंति सदाशिवम् ।
लभंते मानुषे देहे सौख्यं पुत्रादिसंभवम् १३।
सोमवारे तथा प्राप्ते यो गच्छति हरालयम् ।
वाछितं लभते नित्यं सोमलिंग प्रसादतः १४।
अत्र गत्वा तु यो देवि यद्ददाति फलादिकम् ।
यया कामनया चैव तं तं प्राप्नोति निश्चितम् १५।
श्वेतैर्वा करवीरैश्च पारिजातैस्तथा पुनः ।
येऽर्चयंति च तं देवं श्रीमहेशं पिनाकिनम् १६।
ते लभंते सुरश्रेष्ठे शैवं पदमनुत्तमम् १७।

इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायां उत्तरखंडे सोमतीर्थवर्णनंनामैकषष्ट्यधिकशततमोऽध्यायः १६१।