पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः १६०

← अध्यायः १५९ पद्मपुराणम्
अध्यायः १६०
वेदव्यासः
अध्यायः १६१ →

महादेव उवाच।
अस्मात्तीर्थात्परं तीर्थं तीर्थराजेति विश्रुतम् ।
सप्तनद्यो वहंत्यत्र चंदनोदकमिश्रितम् १।
अन्यतीर्थाच्छतगुणं स्नानं चात्र विशिष्यते ।
देवानां प्रवरो देवो यत्रास्ते वामनः स्वयम् २।
द्वादश्यां माघमासस्य दद्याद्यस्तिलधेनुकम् ।
विमुक्तः सर्वपापेभ्यः कुलानां तारयेच्छतम् ३।
पानीयमप्यत्र तिलैर्विमिश्रं दद्यात्पितृभ्यः प्रयतो मनुष्यः ।
श्राद्धं कृतं तेन समाः सहस्रं रहस्यमेतत्पितरो वदंति ४।
तीर्थेऽस्मिन्भोजयेद्यो वै ब्राह्मणान्गुडपायसैः ।
एकस्मिन्भोजिते विप्रे सहस्रं भोजितं भवेत् ५।

इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायां उत्तरखंडे वामनतीर्थं नाम षष्ट्यधिकशततमोऽध्यायः १६०।