पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः १६३

← अध्यायः १६२ पद्मपुराणम्
अध्यायः १६३
वेदव्यासः
अध्यायः १६४ →

महादेव उवाच।
तीर्थानां प्रवरं तीर्थं महापातकनाशनम् ।
गोतीर्थमिति विख्यातं काश्यपह्रदसमीपतः १।
यानि कानि च पापानि ब्रह्महत्या समानि च ।
गोतीर्थे तु ततः स्नात्वा नश्यंते नात्र संशयः २।
गावः कृष्णां तनुं प्राप्य पूर्वपातकयोगतः ।
यत्र तीर्थे ततः स्नात्वा शुक्लत्वं पुनरागताः ३।
तत्र तीर्थे नरः स्नात्त्वा दत्वा गोभ्यो गवाह्निकम् ।
गोमातॄणां प्रसादेन मातॄणामनृणी भवेत् ४।
गोतीर्थे तु नरो गत्वा स्नात्वा गां तु पयस्विनीम् ।
ददाति विप्रमुख्येभ्यः स याति ब्रह्मणः पदम् ५।

इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तर। खंडे साभ्रमतीमाहात्म्ये गोतीर्थंनाम त्रिषष्ट्यधिकशततमोऽध्यायः १६३।