पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः १७६

← अध्यायः १७५ पद्मपुराणम्
अध्यायः १७६
वेदव्यासः
अध्यायः १७७ →

श्रीभगवानुवाच ।
आदिमस्यैवमाख्यानमुदीरितमनुत्तमम् ।
शृणु माहात्म्यमन्येषामध्यायानामपींदिरे १।
दक्षिणस्यां दिशि श्रीमानासीदाम्नायवादिनाम् ।
पुरे पुरंदराह्वाने देवशर्मेति विश्रुतः २।
अर्चितातिथिराम्नातो वेदशास्त्रविशारदः ।
आहर्ता क्रतुसंघानां तापसानां प्रियः सदा ३।
देवान्संतर्पयामास हव्यैर्हुतवहं चिरम् ।
न चोपलेभे धर्मात्मा शांतिमेकांतिकीं ततः ४।
निःश्रेयसं स जिज्ञासुस्तापसाननुवासरम् ।
सिषेवे सत्यसंकल्पाननल्पैरेव कल्पकैः ५।
एवमाचरतस्तस्य काले महति गच्छति ।
मुक्तकर्मा ततः कश्चित्प्रादुरासीत्पुरा भुवि ६।
अनुभूतनिराकांक्षी नासाग्रन्यस्तलोचनः ।
शांतचेताः परं ब्रह्म ध्यायन्नानंदनिर्भरः ७।
पादौ तस्योपसंगृह्य प्रणतेनांतरात्मना ।
चकार विधिवत्तस्मै विद्वानतिथिसत्क्रियाम् ८।
तं च शुद्धेन भावेन परितुष्टं तपस्विनम् ।
प्रणतः परिपप्रच्छ निर्वाणस्थितिमात्मनः ९।
स तस्मै कथयामास पुरेऽसौ पुरनामनि ।
मित्रवंतमजापालमुपदेष्टारमात्मवित् १०।
स चाभिवंद्य तत्पादावेत्यसौ पुरमूर्जितम् ।
तस्योत्तरदिशोभागे ददर्श विपुलं वनम् ११।
मारुतांदोलितानेक कुसुमामोदसुंदरम् ।
उन्मत्तभ्रमरोद्गीत नादापूरितदिङ्मुखम् १२।
तस्मिन्वने सरित्तीरे निषीदंतं शिलातले ।
मित्रवंतं ददर्शाथ सानंदस्तिमितेक्षणम् १३।
अपि स्वाभाविकं वैरं हित्वान्योन्यं विरोधिभिः ।
सत्वैरावृतमुद्याने मंदस्यंदनभास्वति १४।
शांतेषु मृगयूथेषु दशानंदमनोज्ञया ।
कृपानुविद्धया भूमिं निषिंचंतमिवामृतम् १५।
उपेत्य विनयेनामुमुन्मनाः प्रीतमानसः ।
किंचिदानम्रशिरसा तेनापि स तु सत्कृतः १६।
उपतस्थे ततो विद्वान्मित्रवंतमनन्यधीः ।
समाप्तध्यानकालं स पर्यपृच्छत्समाहितः १७।
देवशर्मोवाच।
आत्मानं वेत्तुमिच्छामि तदमुष्मिन्मनोरथे ।
लब्धसिद्धिमुपायं मामुपदेष्टुं त्वमर्हसि १८।
श्रीभगवानुवाच।
परामृश्य क्षणं सोऽपि मित्रवानिदमब्रवीत् ।
मित्रवानुवाच।
विद्वन्विद्धि पुरावृत्तमुच्यमानमिदं मया १९।
अस्ति गोदावरीतीरे प्रतिष्ठानाभिधं पुरम् ।
तत्र दुर्दमनामासीदन्वये च मनीषिणाम् २०।
तत्रास्ति विक्रमो नाम सेव्यमानो महीपतिः ।
दानानि प्रत्यहं गृह्णन्वर्त्तते उदरंभरः २१।
कालेन कालपाशेन बद्धानीतो यमालयम् ।
निरयेषु समग्रेषु यातना अनुभूय च २२।
कस्मिंश्चित्स कुले जातो दुर्वृत्तानां द्विजन्मनाम् ।
भवांतरानुवर्तिन्या विद्यया स पुरस्कृतः २३।
उपयेमे दुराधर्षां कन्यकामधमे कुले ।
कालेन सा वयो हित्वा शैशवं यौवनं ययौ २४।
पीनस्तनी च सुश्रोणी मदविह्वललोचना ।
पतिं न सेहे दुर्वृत्तं चकमे स्वपतीन्परान् २५।
वृत्तिमाहर्तुकामस्मिन्निर्गता सा पुराद्बहिः ।
संगता कामुकेनासौ चिरं चांडालजन्मना २६।
दधे गर्भमसौ तस्मात्सा च कन्योपपद्यते ।
सैव भार्यापि तस्यासीत्पूर्वपापप्रसंगतः २७।
सैव वृद्धा ततः काले डाकिनी समजायत ।
कुसंगात्कुमतिर्जाता दुष्टनारीप्रसंगतः २८।
चखाद व्याधितं व्याधमसृगास्वादलालसा ।
भ्रमंती विपिने घोरे जनैर्दृष्ट्वा बहिष्कृता २९।
परेतलोकमासाद्य व्याधौ व्याघ्रोऽभ्यवर्त्तत ।
नरकान्दारुणान्भुक्त्वा जीवहिंसा प्रभावतः ३०।
सापि कालेन दुष्टात्मा मृत्युवेगमुपागता ।
निरयानेत्य दुर्द्धर्षानजाजायत मद्गृहे ३१।
तामन्या अप्यहं विद्वन्पालयन्काननांतरे ।
अपश्यन्द्वीपिनं घोरं जिघांसंतमिवाखिलम् ३२।
समालोक्य तमायांतं भयेन प्रपलायितम् ।
अजायूथं परित्यज्य मया मरणभीरुणा ३३।
उपदुद्राव स द्वीपी पूर्ववैरमनुस्मरन् ।
अजा तु तत्समीपेऽगात्सत्वरं सरिदंतिके ३४।
तत्र सा भयमुत्सृज्य हित्वा वैरमनर्गला ।
अवतस्थे स च द्वीपी तूष्णीमासीदमत्सरः ३५।
तं तथाविधमालोक्य सा वक्तुमुपचक्रमे ।
द्वीपिन्नभीप्सितं भुंक्ष्व मांसमुद्धृत्य सादरः ३६।
नेयं भवति ते बुद्धिः कथं वैरमतिं त्यजः ।
इत्याकर्ण्य तदा वाक्यं प्राह द्वीपी विमत्सरः ३७।
स्थानेऽस्मिन्मे गतो द्वेषः क्षुत्पिपासा च निर्ययौ ।
न प्रार्थयामि तेन त्वां समीपे समुपस्थिताम् ३८।
सैवमुक्ता पुनः प्राह जाताहं निर्भया कथम् ।
किमत्र कारणं वेत्सि यदि मे वक्तुमर्हसि ३९।
एवमुक्तः पुनर्द्वीपी तामाहाजां न वेद्म्यहम् ।
पुरोगतमिमं प्रष्टुं महांतमिति निर्गतौ ४०।
ताभ्यामुभाभ्यामागत्य पृष्टोऽहं बहुविस्मयः ।
अहं च सहितस्ताभ्यामपृच्छं वानरेश्वरम् ४१।
मया पृष्टः स विप्रेदमब्रवीत्सादरं कपिः ।
शृणु वक्ष्याम्यजापाल वृत्तमत्र पुरातनम् ४२।
इदमायतनं पश्य पुरोवनगतं महत् ।
अत्र त्र्यंबकलिंगं हि द्रुहिणेन प्रतिष्ठितम् ४३।
सुकर्मानाम मेधावी पर्युपास्ते तपश्चरन् ।
वनपुष्पाण्यपाहृत्य सुरपूज्यं पुरोभवम् ४४।
संस्नाप्य सरिदंभोभिः केवलं कर्मणा वसन् ।
काले महति तस्यागादतिथिः कश्चिदंतिकम् ४५।
उपाहृत्य फलाहारं स तस्मै पर्यकल्पयत् ।
तेनातिथ्येन संप्रीतः सुकर्माणमभाषत ४६।
किमिदं कर्मणो मूलं फलं भुक्त्वा तु तिष्ठसि ।
गतानुगतया वृत्त्या किं वा केवलमीहसे ४७।
स एवमुक्तः प्रायेण प्रीतेनात्मविदा तदा ।
प्रत्युवाच वचः स्पष्टमात्मनो हितमुत्तमम् ४८।
विद्वन्न वेद्मि तत्वेन फलमेतस्य कर्मणः ।
बुभुत्सया परः शंभुः सेव्यते केवलं यया ४९।
फलमेतस्य सेवायाः परिपाकं कपर्दिनः ।
यन्मांसमनुगृह्णासि संस्पृश्यात्ममनोरथम् 6.176.५०।
तस्यैवं सूनृतं वाक्यं श्रुत्वा प्रीतस्तपोधनः ।
द्वितीयमालिलेखाऽसौ गीताध्यायं शिलातले ५१।
आदिदेशाशु तं विप्रं पठनाभ्यसनाय च ।
फलिष्यत्यात्मनः स्वैरं परितस्ते मनोरथः ५२।
इत्युक्त्वांतर्दधे धीमान्पुरतस्तस्य पश्यतः ।
विस्मितस्तस्य चादेशात्सोऽन्वतिष्ठदनारतम् ५३।
ततः कालेन महता भावितात्मा प्रसन्नधीः ।
यत्रयत्र चचारासौ शांतं तत्तत्तपोवनम् ५४।
न द्वंद्वबाधा नैव क्षुत्पिपासा न च वा भयम् ।
तपसा तस्य जानीहि द्वितीयाध्यायजापिनः ५५।
मित्रवानुवाच।
एवमुक्तश्च तेनाऽहं ख्यापयित्वा परां कथाम् ।
अनुज्ञातप्रसंनेन च्छागीव्याघ्रयुतोगमम् ५६।
गत्वा शिलातले पश्यमध्यायं लिखितं पठेत् ।
तस्यैवावर्त्तनादाप्तं तपसः पारमुत्तमम् ५७।
तेन त्वमपि कल्याण नित्यमाहर्तुमर्हसि ।
अध्यायं तेन ते मुक्तिरदूरस्था भविष्यति ५८।
देवशर्मा समादिष्टस्तेन मित्रवता स्वयम् ।
अभ्यर्च्य प्रणतो भूत्वा पुरंदरपुरं ययौ ५९।
तत्रात्मविदमासाद्य देवतायतने क्वचित् ।
वृत्तमेतन्निवेद्यादावध्यायमपठत्ततः ६०।
शिक्षितस्तेन पूतात्मा पठन्नध्यायमादरात् ।
द्वितीयमाससादोच्चैर्निरवद्यं परं पदम् ६१।
द्वितीयस्येदमाख्यानं कथितं शृणु सांप्रतम् ।
तृतीयस्याथ वक्ष्यामि माहात्म्यमपि चेंदिरे ६२।
इति श्रीपाद्मेमहापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे गीता।
माहात्म्ये सतीश्वरसंवादे षट्सप्तत्यधिकशततमोऽध्यायः १७६।