← अध्यायः १७७ पद्मपुराणम्
अध्यायः १७८
वेदव्यासः
अध्यायः १७९ →

श्रीभगवानुवाच
चतुर्थस्यापि माहात्म्यमाख्यास्याम्यधुना शृणु
बदरीत्वं समुत्सृज्य येन कन्ये दिवं गते १
श्रीरुवाच
कथं कन्ये दिवं याते बदरीत्वं विसृज्य वै
ते कचास्तां पुरा देव कथं प्राप्ते तु मुख्यताम् २
एतद्वेदितुमिच्छामि नाथ वक्तुं त्वमर्हसि
न तु तृप्यामि शृण्वंती परमां च कथामिमाम् ३
श्रीभगवानुवाच
अस्ति भागीरथी तीरे नाम्ना वाराणसी पुरी
भरतो नाम युक्तात्मा तत्र विश्वेश्वरालये ४
नित्यमात्मरतस्तुर्यं जपत्यध्यायमादरात्
तदभ्यासाददुष्टात्मा न द्वंद्वैरभिभूयते ५
काले कदाचन क्रीडन्ययौ स नगराद्बहिः
उपांत्यवर्तिनो देवान्दिदृक्षुः स तपोधनः ६
विशश्राम तयोर्मूले बदर्योर्न्यपतत्फले
उपधाय तयोरेकामन्यामालंब्य चांघ्रिणा ७
तपस्विनि ततो याते बदर्योश्च तथार्द्वयम्
शुष्कं निष्पत्रशाखं च दिवसैः पंचषैरभूत् ८
गृहे क्वचन विप्राणां जज्ञाते कन्यके ततः
वर्द्धमानं तयोर्युग्मं सप्तभिः परिवत्सरैः ९
विहृत्य दूरदेशेभ्यो यतिमायांत मैक्ष्यत
गृहीत्वा चरणौ तस्य वचः सूनृतमब्रवीत् १०
त्वत्प्रसादादेव मुने मोचितं द्वंद्वमावयोः
उत्सृज्य बदरीभावं मानुष्यं प्रतिपद्यते ११
एवमुक्तो मुनिस्ताभ्यां विस्मृतः प्रत्युवाच सः
कदा वत्से युवां केन हेतुना मोचिते मया १२
युवयोर्बदरीत्वे च हेतुं ब्रूतां न वेद्म्यहम्
ऊचतुः कन्यके तस्मै बादर्ये हेतुमात्मनः १३
आदौ विमोचने तस्माद्दुस्त्यजादपि कारणम्
अस्ति गोदावरी तीरे तीर्थं पुण्यप्रदं नृणाम् १४
च्छिन्नपापमिति ख्यातं परां कोटिमवापयत्
तत्र सत्यतपा नाम तपस्तेपे सुदारुणम् १५
ग्रीष्मे महति दीप्तानां मध्यगो जातवेदसाम्
वर्षासु जलधाराभिर्नित्यमासिक्तमूर्द्धजः १६
शिशिरे च वसन्नप्सु बिभ्रत्कंटकितां तनुम्
विशुद्धः सततं काले तपस्तप्त्वा स संयमी १७
आत्मन्येव मतिं चक्रे परां प्राप्य सुनिर्वृतिम्
सदा फलानि बिभ्रत्सु सांद्रच्छायेषु शाखिषु १८
निर्मत्सरेषु सत्वेषु बध्वा प्रीतिपरामपि
तपःफलानुसंधाने वैदुष्येनोपपादितम् १९
ब्रह्माप्येनं स्वयं पृच्छन्नुपतस्थे तमन्वहम्
तेन संकोचहीनत्वाद्ब्रह्यण्यनुगतेन्वहम् २०
तद्ध्यानानुगतव्यक्ति ववृधे तस्य तत्तपः
विमुक्तकल्पं मन्वानः समृद्धादात्मनः पदात् २१
अंतरायशतं चक्रे ततो भीतः पुरंदरः
आहूयाप्सरसां मध्यादावां तुल्यं समादिशत् २२
कुरुतं तत्तपोविघ्नमनेनाचरितं युवाम्
यो मां पदादवष्टभ्य स्वराज्यं भोक्तुमिच्छति २३
इति संदेशमापन्ने पुरस्ताच्च बिडौजसः
गोदावरीमगच्छावः स मुनिर्यत्र वर्तते २४
मृदंगैर्मंदगंभीरैर्वेणुभिः कलवादिभिः
कलं गीतं समारब्धं तन्वंगीभिः समन्वितम् २५
उद्वहंत्यौ पृथुश्रोणीं घनपीनपयोधरे
स्मयस्मेरमुखांभोजे किंचिदाकुंचितालके २६
मणिकुंडलदृष्टांसे पुंडरीकोज्ज्वलेक्षणे
तनुमध्ये सुवृत्तोरु वहंत्यौ च समे पदे २७
आनर्तां यो वनस्यार्थे स्वरताललयानुगाम्
दर्शयंत्यौ स्वतः कृत्स्नां गतिं भावानुगामिनीम् २८
मृदूपक्रममुत्पन्नं मंदं मंदं विवर्द्धनम्
गर्जयामास दिक्चक्रं तत्तयोर्नृत्यमानयोः २९
ततोंगहारवेगेन वायुर्वासः सुशीतलः
ईषदुच्छ्वसिते चैले दर्शयंत्यौ पयोधरौ ३०
उद्वर्धयंती कंदर्प्पमुल्बणा गतिरावयोः
कोपमुत्पादयामासु मुने रविकृतात्मनः ३१
ततः शापं ददौ कोपाज्जलमुत्सृज्य पाणिना
बदरीत्वं प्रपद्येथां जाह्नवी रोधसीति नौ ३२
आवाभ्यां पारतंत्र्येण यद्दुश्चरितमास्थितम्
तत्क्षमस्व विनम्राभ्यां मुनिः पश्चात्प्रसादितः ३३
ततः शापविमोक्षं नौ कल्पयामास पुण्यधीः
भरतागमनांतोयमिति सत्यतया मुनिः ३४
मर्त्येषु जन्मलाभश्च स्मृतिश्चातीतजन्मनाम्
आवयोरंतिकं गत्वा बदरीभूतयोस्ततः ३५
स्मरता तुर्यमध्यायं भवता निष्कृतिः कृता
तत्तावत्प्रणमावस्त्वां शापादेव न केवलात ३६
घोरादेव तु संसारात्त्वयैतेन विमोचिते
श्रीभगवानुवाच
एवमुक्तो मुनिस्ताभ्यामतिप्रीतमनास्ततः ३७
पूजितस्ते समामंत्र्य यथागतमसौ ययौ
कन्ये चतुर्थमध्यायं जपेतां नित्यमादरात् ३८
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे गीतामाहात्म्ये अष्टसप्तत्यधिकशततमोऽध्यायः १७८

भगवद्गीतायाः चतुर्थोध्यायः(ज्ञानकर्मसंन्यासयोग)सम्पाद्यताम्