पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः २०७

← अध्यायः २०६ पद्मपुराणम्
अध्यायः २०७
वेदव्यासः
अध्यायः २०८ →

सौभरिरुवाच-
धर्मात्मज निशम्यैतद्वचस्तस्य महात्मनः ।
नारदस्य शिबी राजा प्रोवाचेदं विनीतवत् १।
शिबिरुवाच-
तिष्ठंत्यो मरुमार्गे ता राक्षस्यो मुनिपुंगव ।
एतस्या द्वारिकायास्तु लेभिरे सलिलं कुतः २।
नारद उवाच-
शृणु राजन्कथां दिव्यां पूतां पापप्रणाशिनीम् ।
विमलाख्यस्य विप्रस्य हिमवद्द्रोणिवासिनः ३।
एकस्तु हिमवद्द्रोण्यां विमलो नाम भूसुरः ।
देवर्षिपितृवह्नीनां पूजकोऽतिथिपूजकः ४।
हरिपादार्चनरतो वेदवेदांगधर्मवित् ।
वासुदेवगुणग्राम पुराणश्रुतिमानसः ५।
वार्द्धके तस्य पुत्रोऽभूत्प्रसादाच्चक्रपाणिनः ।
चकार हरिदत्तेति नाम्ना तं जनकस्तदा ६।
विधिवद्विदधे चास्य क्षौरकर्मादिकं च तत् ।
गुरोः सकाशाज्जग्राह छंदांसि हरिदत्तकः ७।
अधीत्य विधिवद्वेदान्दत्त्वा च गुरुदक्षिणाम् ।
प्रवव्राज विरक्तः सन्समूलं चाश्रमद्वयम् ८।
ज्ञात्वा तत्कर्मतन्माता व्यलपत्पुत्रवत्सला ।
स्नापयंती कुचद्वंद्वं पुत्रविश्लेषजाश्रुभिः ९।
मातोवाच-
मामनाथां परित्यज्य तात यातोऽसि कुत्र वै ।
पितरं च जराग्रस्तं षट्पदो बल्वजाविव १०।
वार्द्धके त्वं मया प्राप्तः श्रीपतेः पादसेवया ।
मां विहायाभजस्त्वं वै चरणं तस्य मुक्तये ११।
अहं मूढा ध्रुवं तात ध्रुवमाराध्य यद्धरिम् ।
अध्रुवं वांछितवती भवन्तं तु सुखलब्धये १२।
त्वं सुधीर्वत्स सर्वार्थं यद्विष्णुं भजसे स्वयम् ।
अध्रुवं जगदेतद्वै मत्वासीस्त्वमपि ध्रुवम् १३।
किं करोमि क्व गच्छामि माया ज्ञानं छिनत्ति मे ।
सुफलोत्पादकं शास्त्री रंभामूलमिवोल्बणा १४।
धन्यो दशरथो राजा यो मृतो रामशोकतः ।
धिङ्मां पुत्रस्य विश्लेषाद्धारयंती स्वजीवितम् १५।
आगच्छ दर्शंन देहि तात मां परितारय ।
वद वेदमयीं वाणीं पितुरग्रे गुणार्णव १६।
नारद उवाच-
एवं विलप्य तन्माता राजन्सा पतिता भुवि ।
दलनाद्राहुदत्तानां लेखा चांद्रमसी यथा १७।
अथाजगाम विप्रर्षिर्विमलो नृपसत्तमः ।
दृष्ट्वा तां पतितां भूमौ किंकिमित्यभ्यभाषत १८।
कस्मादियं कीर्णकेशव्यस्तवस्त्रविभूषणा ।
पतिता भुवि कल्याणं हरिदत्तस्य विद्यते १९।
तस्यावयस्यास्ताः सर्वाः प्रोचुस्तं विमलं नृप ।
वयस्या ऊचुः -
अधीत्य वेदांस्ते पुत्रो दत्त्वा च गुरुदक्षिणाम् २०।
नारायणपरो भूत्वा प्राव्रजद्धरिदत्तकः ।
तस्य विश्लेषशोकेन पतितेयं धरातले २१।
नारद उवाच-
इत्याकर्ण्य वचस्तासां विमलो बुद्धिमत्तरः ।
प्राबोधयन्निजां भार्यामिति वागमृतेन सः २२।
विमल उवाच-
उत्तिष्ठ जाये शृणु वाक्यमीरितं मया किमर्थं पतिता विषीदसि ।
धन्यः सुतस्ते य इमं विनश्वरं विज्ञाय भेजे हरिपादपल्लवम् २३।
धन्या त्वमप्यस्य जनि प्रदायिनी यस्याः सुतस्ते हरिपादभागभूत् ।
संतारयिष्यत्यपि मामसंशयं कुलं कुलोत्थानपि पूरुषान्शुभे २४।
क्व विश्वमेकतच्च पतच्चलं क्व सेवनं शाश्वतलोकदं हरेः ।
मत्वेति भेजुर्भरतादयो नृपा यथा हरिं साध्वि तथैव ते सुतः २५।
दारा धनागार शरीरबांधवा एते भवंति प्रतिजन्मदुःखदाः ।
तावन्नयावद्धरिपादपल्लवं भजेत धीरोऽखिलकामवर्जितः २६।
नारद उवाच-
एवं प्रबोधिता तेन धीरेण धरणीतलात् ।
उत्थाय निजभर्तारमब्रवीद्दीनया गिरा २७।
भार्योवाच।
सर्वं जानाम्यहं कांत यत्त्वया साधुभाषितम् ।
कुलधुर्यं न पश्यामि यतस्तप्यामि वै भृशम् २८।
पुत्रे सति महत्तीर्थे किं वा केशवसेवया ।
गृह एवावयोर्मृत्युश्चेत्स्याल्लोकद्वयं तदा २९।
सत्पुत्रोत्पादने यत्नः कर्त्तव्यः खलु मानवैः ।
तारयंति पितॄन्पुत्रा यतः संसारवारिधैः ३०।
स्रष्टारं सर्वजंतूनां धातारं पुत्रकाम्यया ।
भज वांछसि चेत्पुत्रं कुलधुर्यं महामते ३१।
नारद उवाच-
इत्याकर्ण्यवचस्तस्याः प्रत्याह विमलो द्विजः ।
ब्रह्मक्षेत्रं प्रयागं हि याम्यहं पुत्रकाम्यया ३२।
इत्युक्त्वा चलितः सोऽथ हरिद्वारमगाद्द्विजः ।
स्नात्वा तत्रापि विधिवदिंद्रप्रस्थमथागमत् ३३।
कतिभिर्वासरैर्वीर सायंकालेऽखिलार्थिदम् ।
स्नात्वा भुक्त्वा निशायां स सुष्वाप यमुनातटे ३४।
निशीथे स्वपतस्तस्य विमलस्यांतिके विधिः ।
हंसमारुह्य देवेशस्तीर्थैः सर्वैरनुद्रुतः ३५।
आगत्योत्थापयामास विमलं पुत्रवांच्छकम् ।
उवाच च सुरश्रेष्ठो वचनं मधुराक्षरम् ३६।
ब्रह्मोवाच-
जाने समीतिं चित्तं त्वदीये मनसि स्थितम् ।
न तत्पूरयितुं कल्पो यतस्तत्कारणं शृणु ३७ ।
एकदा मेरुशिखरे मिलिताः सर्वदेवताः ।
तुष्टुवुर्मद्भवमुखा माधवं कार्यसिद्धये ३८।
स्तुतो स्मदादिविबुधैः कृपया भगवान्हरिः ।
प्रसन्नोभूत्तदा विष्णुर्वृणुध्वमिति चाब्रवीत् ३९।
इत्युक्तास्तेन ते देवा यथाभिलषितं वरम् ।
श्रीपतेः प्राप्य ते जग्मुः सर्वे स्वं स्वं निकेतनम् ४०।
मयोक्तमिति देवेश देहि मे वरमुत्तमम् ।
प्रयागं नाम मे क्षेत्रं भवत्वखिलकामदम् ४१।
ततः शतगुणं भूयाद्दिवतीयं क्षेत्रकं मम ।
इंद्रप्रस्थगतं सम्यग्वृत्तं त्वत्तो मयानघ ४२।
इत्याकर्ण्य वचो मह्यं भगवानाह मां तदा ।
तथास्त्विति पुनर्वाचमुवाच श्रूयतां वचः ४३।
श्रीभगवानुवाच ।
इंद्रस्य खांडवारण्ये इंद्रप्रस्थाभिधं शुभम् ।
क्षेत्रं कलिंदजातीरे मत्तुल्यास्तत्र ये मृताः ४४।
विरिंचे रचिता तत्र स्वकीया द्वारकापुरी ।
मया शतगुणांभोधी तीरस्थायाः पुरा गुणैः ४५।
तामुल्लंघ्य नरो यस्तु तीर्थमन्यन्निषेव्यते ।
न तीर्थफलमाप्नोति स पुमान्न मृषोदितम् ४६।
सर्वतीर्थोदितं पुण्यं शक्रतीर्थे लभेन्नरः ।
द्वारका च पुरी मायातीर्थमन्यच्च रक्षति ४७।
यो निमज्ज्यान्यतीर्थेषु कृत्वा च विविधां क्रियाम् ।
अत्रैष्यति फलं तेभ्यः फलं प्राप्स्यति स ध्रुवम् ४८।
इत्युक्त्वांतर्द्धधे विष्णुरहमप्यगमं स्वकम् ।
लोकं द्विजेंद्र वैकुंठादधोभागे व्यवस्थितम् ४९।
प्रयागान्मामकात्क्षेत्रात्काशी शतगुणा स्मृता ।
काश्याः शतगुणं तीर्थं निगमोद्बोधकं तथा ५०।
तीर्थसप्तकमेतत्तु त्रयं तुल्यफलं स्मृतम् ।
एतत्त्रयमनुल्लंघ्य यो गच्छति सितासितम् ५१।
तस्याहं वांछितं विप्र ददामि खलु नान्यथा ।
केचिदाहुः सप्तपुरी समपुण्या महर्षयः ५२।
अयोध्याद्याः शतं ताभ्य इंद्रप्रस्थं प्रचक्षते ।
त्वमत्रागत्य विप्रेंद्र सर्वकामफलप्रदे ५३।
तीर्थे श्रीद्वारकाख्ये हि कुरु स्नानं सुतेच्छया ।
यावंति सर्वतीर्थानि ब्रह्मांडकलशोदरे ५४।
तेभ्यो परिमितं पुण्यं शतनामनि कीर्तिते ।
सुतं ते कुलधौरेयं तीर्थमेतत्प्रदास्यति ५५।
स्नानाच्च तव गोविंदः प्रसन्नात्मा भविष्यति ।
नारद उवाच-
इत्युक्त्वा देवदेवेशो ब्रह्मा तत्र तिरोधते ५६।
विमलोऽपि तदा स्नात्वा देवादीनप्यतर्पयत् ।
इत्युवाच स धर्मात्मा द्वारके कृष्णवल्लभे ५७।
सुतं वंशकरं देहि मह्यंभक्ताय ते नमः ।
इत्युक्ते तेन विप्रेण देववागभवत्तदा ५८।
देववागुवाच-
पुत्रस्ते धर्म्मतत्वज्ञो वंशकर्त्ता भविष्यति ।
प्रसादादस्य तीर्थस्य सर्वतीर्थशिरोमणेः ५९।
याहि गेहं विलंबं मा सुकृतं तेन मज्जनम् ।
नारद उवाच-
इत्याकर्ण्य सतां वाणीं विश्वस्तः पुत्रजन्मनि ६०।
चचाल जलमादाय द्वारकायाः कमंडलौ ।
मार्गे तस्य सखा विप्रो मलयाचलकेतनः ६१।
मीलितश्चलितो गेहं कृत्वा तीर्थानि सर्वतः ।
तस्मै स्ववृत्तमाख्यातं ब्रह्मसंवादकात्मकम् ६२।
यद्भूतं द्वारकातीर्थे श्रुत्वा सोऽपि विसिस्मये ।
उवाच स च धर्मात्मा सखे मम वचः शृणु ६३।
यावंति भारते क्षेत्रे तीर्थानि विहितानि मे ।
तावंति कर्तुमिच्छामि त्वदुक्तं तीर्थमुत्तमम् ६४।
नीत्वा मां दर्शय सखे तत्तीर्थं सर्वकामदम् ।
सखायस्ते वरा भूमावुपकुर्वंति ये सखीन् ६५।
न तैर्ननु समो लोके पितामाताऽथवा सुतः ।
निर्द्धनं पुरुषं लोके सर्वे मुंचंति बांधवाः ६६।
न मुंचंति सखायस्तु तस्य दुःखेन दुःखिताः ।
संसारार्णवनिर्मग्नान्सखीनुद्धरते सखा ६७।
उपदिश्य हरेर्भक्तिमार्गं जन्मेंधनानलम् ।
अतस्त्वं मे सखा श्रेष्ठ उपकारं विधेहि मे ६८।
दर्शयैतद्वरश्रेष्ठं तीर्थाख्यं द्वारकां द्विज ६९।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहिंतायामुत्तरखंडे कालिंदीमाहात्म्ये सप्ताधिकद्विशततमोऽध्यायः २०७।